अति, उत् इति वर्तते । अकाराद् अप्लुताद् उत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारे ऽप्लुते परत उकारादेशो भवति । वृक्षो ऽत्र । प्लक्षो ऽत्र । भो-भगो-अघो-अपूर्वस्य यो ऽशि (*८,३।१७) इत्य् अस्मिन् प्राप्ते उत्वं विधीयते । रुत्वम् अपि आश्रयात् पूर्वत्र असिद्धम् (*८,२।१) इति असिद्धं न भवति । अतः इति किम् ? अग्निर् अत्र । तपरकरणं किम् ? वृक्षा अत्र । सानुबन्धग्रहणं किम् ? स्वरत्र । प्रातरत्र । अति इत्य् एव, वृक्ष इह । तस्य अपि तपरत्वाद् अत्र न भवति । वृक्ष आश्रितः । अलुतात् इति किम् ? सुस्रोता३अत्र न्वसि । अप्लुते इति किम् ? तिष्ठतु पय अ३च्श्विन् । अत्र प्लुतस्य असिद्धत्वात् उत्वं प्राप्नोति इति अप्लुताद् अप्लुते इति उच्यते ॥ हशि च
ati, ut iti vartate / akārād aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo bhavati / vṛkṣo 'tra / plakṣo 'tra / bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate / rutvam api āśrayāt pūrvatra asiddham (*8,2.1) iti asiddhaṃ na bhavati / ataḥ iti kim ? agnir atra / taparakaraṇaṃ kim ? vṛkṣā atra / sānubandhagrahaṇaṃ kim ? svaratra / prātaratra / ati ity eva, vṛkṣa iha / tasya api taparatvād atra na bhavati / vṛkṣa āśritaḥ / alutāt iti kim ? susrotā3atra nvasi / aplute iti kim ? tiṣṭhatu paya a3cśvin / atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute iti ucyate // haśi ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.