ऊट्ः इदम् पदादि अप् पुम् रै दिव् इत्य् एतेभ्यो ऽसर्वनामस्थानविभक्तिर् उदात्ता भवति । ऊट्ः - प्रष्टौहः । प्रष्ठौहा । ऊठ्युपधाग्रहणं कर्तव्यम् । इह मा भूत्, अक्षद्युवा । अक्षद्युवे । इदम् - आभ्याम् । एभिः । अन्तोदात्तात् इत्य् अधिकाराद् अन्वादेशे न भवति, अथो आभ्यां निपुणमधीतम् इति । पदादयः पद्दन्नोमास (*६,१।६३) इत्य् एवम् आदयो निश्पर्यन्ता इह गृह्यन्ते । नि पदश्चतुरो जहि । या दतो धावते । असन्प्रभृतिभ्यो विभक्तिर् अनुदात्तैव भवति । ग्रीवायां बद्धो अपि कक्ष आसनि । मत्स्यं न दीन उदनि क्षियन्तम् । अप् - अपः पश्य । अद्भिः । अद्भ्यः । पुम् - पुंसः । पुम्भ्याम् । पुम्भ्यः । पुंसा । पुंसे । रै - रायः पश्य । राभ्याम् । राभिः । दिव् - दिवः पश्य । दिवा । दिवे ॥ अष्टनो दीर्घात्
ūṭḥ idam padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir udāttā bhavati / ūṭḥ - praṣṭauhaḥ / praṣṭhauhā / ūṭhyupadhāgrahaṇaṃ kartavyam / iha mā bhūt, akṣadyuvā / akṣadyuve / idam - ābhyām / ebhiḥ / antodāttāt ity adhikārād anvādeśe na bhavati, atho ābhyāṃ nipuṇamadhītam iti / padādayaḥ paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha gṛhyante / ni padaścaturo jahi / yā dato dhāvate / asanprabhṛtibhyo vibhaktir anudāttaiva bhavati / grīvāyāṃ baddho api kakṣa āsani / matsyaṃ na dīna udani kṣiyantam / ap - apaḥ paśya / adbhiḥ / adbhyaḥ / pum - puṃsaḥ / pumbhyām / pumbhyaḥ / puṃsā / puṃse / rai - rāyaḥ paśya / rābhyām / rābhiḥ / div - divaḥ paśya / divā / dive // aṣṭano dīrghāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.