अद्न्तोदात्तात् इति वर्तते । अनुम् यः शतृप्रत्ययस् तदन्तात् परा नदी अजादिर् विभक्तिर् असर्वनामस्थानम् उदात्ता भवति । तुदती । नुदती । लुनती । पुनती । तुदता । लुनता । पुनता । अनुमः । इति किम् ? तुदन्ती । नुदन्ती । अत्र अप्य् उपदेशात् इति लसार्वधातुकाद् अनुदात्तत्वे एकादेशः, तस्य एकादेश उदात्तेन+उदात्तः (*८,२।५) इत्य् उदात्तत्वम् , तस्य पूर्वत्र असिद्धत्वम् न+इष्यते इति शत्रन्तम् अन्तोदात्तं भवति । नद्यजादी इति किम् ? तुदद्भ्याम् । नुदद्भ्याम् । तुदद्भिः । अन्तोदात्तात् इत्य् एव, ददती । दधतः । अभ्यस्तानाम् आदिः (*६,१।१८९) इत्य् आद्युदात्तव् एतौ । बृहन्महतोर् उपसङ्ख्यानम् । बृहती । महती । बृहता । महता ॥ उदात्तयणो हल्पूर्वात्
adntodāttāt iti vartate / anum yaḥ śatṛpratyayas tadantāt parā nadī ajādir vibhaktir asarvanāmasthānam udāttā bhavati / tudatī / nudatī / lunatī / punatī / tudatā / lunatā / punatā / anumaḥ / iti kim ? tudantī / nudantī / atra apy upadeśāt iti lasārvadhātukād anudāttatve ekādeśaḥ, tasya ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttatvam , tasya pūrvatra asiddhatvam na+iṣyate iti śatrantam antodāttaṃ bhavati / nadyajādī iti kim ? tudadbhyām / nudadbhyām / tudadbhiḥ / antodāttāt ity eva, dadatī / dadhataḥ / abhyastānām ādiḥ (*6,1.189) ity ādyudāttav etau / bṛhanmahator upasaṅkhyānam / bṛhatī / mahatī / bṛhatā / mahatā // udāttayaṇo halpūrvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.