उदात्तस्थाने यो यण् हलपूर्वस् तस्मात् परा नदी अजादिर् या असर्वनामविद्भक्तिर् उदात्ता भवति । कर्त्री । हर्त्री । प्रलवित्री । प्रसवित्री । कर्त्रा । हर्त्रा । प्रलवित्रा । प्रसवित्रा । तृजन्ता एते ऽन्तोदात्ताः । उदात्तग्रहणं किम् ? कर्त्री । हर्त्री । कर्त्रा । हर्त्रा । तृन्नन्तो ऽयम् आद्युदात्तः । हल्पूर्वात् इति किम् ? बहुतितवा ब्राह्मण्या । नकारग्रहणं कर्तव्यम् । वाक्पत्नी इयं कन्या ॥ न+उङ्-धात्वोः
udāttasthāne yo yaṇ halapūrvas tasmāt parā nadī ajādir yā asarvanāmavidbhaktir udāttā bhavati / kartrī / hartrī / pralavitrī / prasavitrī / kartrā / hartrā / pralavitrā / prasavitrā / tṛjantā ete 'ntodāttāḥ / udāttagrahaṇaṃ kim ? kartrī / hartrī / kartrā / hartrā / tṛnnanto 'yam ādyudāttaḥ / halpūrvāt iti kim ? bahutitavā brāhmaṇyā / nakāragrahaṇaṃ kartavyam / vākpatnī iyaṃ kanyā // na+uṅ-dhātvoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.