तासेर् अनुदात्तेतो ङितो ऽकारान्तोपदेशाच् च शब्दात् परं लसार्वधातुकम् अनुदात्तं च भवति ह्नुङ् इङ् इत्य् एताभ्यां परं वर्जयित्वा । तासेस्तावत् - कर्ता, कर्तारौ, कर्तारः । प्रत्ययस्वरापवादो ऽयम् । अनुदात्तेतः - आस - आस्ते । वस - वस्ते । ङित् - षूङ् - सूते । शीङ् - शेते । अदुपदेशात् - तुदतः । नुदतः । पचतः । पठतः । अनुबन्धस्य अनैकान्तिकत्वाद् अकारान्तोपदेश एव शप् । पचमानः । यजमानः । यद्य् अत्र मुक् अकारमात्रस्य स्यात् तदा लसार्वधातुकम् अदुपदेशाद् अनन्तरम् इति सिद्धो निघातः । अथाकारान्तस्य अङ्गस्य, तथा अपि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वात् असिद्धः इति सिद्धम् । चित्स्वरो ऽप्य् अनेन लसार्वधातुकानुदात्तत्वेन परत्वाद् बाध्यते । तास्यादिभ्यः इति किम् ? चिनुतः । चिन्वन्ति । ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य । उपदेशग्रहणं किम् ? इह च यथा स्यात्, पचावः, पचामः इति । इह च मा भूत्, हतो, हथः इति । लग्रहणं किम् ? कतीहपचमानाः । सार्वधातुकम् इति किम् ? शिश्ये, शिश्याते, शिशियरे । अह्न्विङोः इति किम् ? ह्नुते । यदधीते ॥ आदिः सिचो ऽन्यतरस्याम्
tāser anudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā / tāsestāvat - kartā, kartārau, kartāraḥ / pratyayasvarāpavādo 'yam / anudāttetaḥ - āsa - āste / vasa - vaste / ṅit - ṣūṅ - sūte / śīṅ - śete / adupadeśāt - tudataḥ / nudataḥ / pacataḥ / paṭhataḥ / anubandhasya anaikāntikatvād akārāntopadeśa eva śap / pacamānaḥ / yajamānaḥ / yady atra muk akāramātrasya syāt tadā lasārvadhātukam adupadeśād anantaram iti siddho nighātaḥ / athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve kartavye bahiraṅgatvāt asiddhaḥ iti siddham / citsvaro 'py anena lasārvadhātukānudāttatvena paratvād bādhyate / tāsyādibhyaḥ iti kim ? cinutaḥ / cinvanti / ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya / upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti / iha ca mā bhūt, hato, hathaḥ iti / lagrahaṇaṃ kim ? katīhapacamānāḥ / sārvadhātukam iti kim ? śiśye, śiśyāte, śiśiyare / ahnviṅoḥ iti kim ? hnute / yadadhīte // ādiḥ sico 'nyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.