निष्ठान्तं द्व्यच् सञ्ज्ञायां विषये आद्युदात्तं भवति स चेद् आदिराकारो न भवति । दत्तः । गुप्तः । बुद्धः । प्रत्ययस्वरापवादः । निष्ठा इति किम् ? देवः । भीमः । द्व्यच् इति किम् ? चिन्तितः । रक्षितः । अनात् इति किम् ? त्रातः । आप्तः । सञ्ज्ञायाम् इति किम् ? कृतम् । हृतम् ॥ शुष्क-धृष्तौ
niṣṭhāntaṃ dvyac sañjñāyāṃ viṣaye ādyudāttaṃ bhavati sa ced ādirākāro na bhavati / dattaḥ / guptaḥ / buddhaḥ / pratyayasvarāpavādaḥ / niṣṭhā iti kim ? devaḥ / bhīmaḥ / dvyac iti kim ? cintitaḥ / rakṣitaḥ / anāt iti kim ? trātaḥ / āptaḥ / sañjñāyām iti kim ? kṛtam / hṛtam // śuṣka-dhṛṣtau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.