निष्था च द्व्यजनात् (*६,१।२०५) । इत्य् अतो द्व्यज्ग्रहणम् अनुवर्तते । यत् प्रत्ययान्तस्य द्व्यच आदिर् उदात्तो भवति न चेन् नौशब्दात् परो भवति । अचो यत् (*३,१।९७) - च+इयम् । जेयम् । शरीरावयवाद् यत् (*५,१।६) - कण्ठ्यम् । ओष्ठ्यम् । तस्वरितम् (*६,१।१८५) इत्य् अस्य अपवादः । अनावः इति किम् ? नाव्यम् । द्व्यचः इत्य् एव, चिकीर्ष्यम् । ललाट्यम् ॥ ईड-वन्द-वृ-शंस-दुहां ण्यतः
niṣthā ca dvyajanāt (*6,1.205) / ity ato dvyajgrahaṇam anuvartate / yat pratyayāntasya dvyaca ādir udātto bhavati na cen nauśabdāt paro bhavati / aco yat (*3,1.97) - ca+iyam / jeyam / śarīrāvayavād yat (*5,1.6) - kaṇṭhyam / oṣṭhyam / tasvaritam (*6,1.185) ity asya apavādaḥ / anāvaḥ iti kim ? nāvyam / dvyacaḥ ity eva, cikīrṣyam / lalāṭyam // īḍa-vanda-vṛ-śaṃsa-duhāṃ ṇyataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.