चिच्युषे । च्युङ् गतौ इत्य् अस्य धातोः लिति सेशब्दे अभ्यासय सम्प्रसारणम् अनिट् च निपातनात् । चिच्युषे । चुच्युविषे इति भाषायाम् । तित्याज । त्यज हानौ इत्य् असय् धातोः लिटि अभ्यासस्य सम्प्रसारणं निपात्यते । तित्याज । तत्याज इति भाषायाम् । श्राताः इति । श्रीञ् पाके इत्य् एतस्य धातोः निष्ठायां श्राभावः । श्रातास्त इन्द्रसोमाः । श्रितम् इति तस्य+एव श्रीणातेः ह्रस्वत्वम् । सोमो गौरी अधिश्रितः । श्रिता नो गृहाः । अनयोः श्राभावश्रिभावयोर् विषयविभागम् इच्छति, सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभावः इति । सोमाद् अन्यत्र क्वचिद् एकस्मिन्न् अपि श्राभावो दृश्यते । यदि श्रातो जुहोतन । तस्य श्राताः इति बहुवचनस्य अविवक्षितत्वाद् उपसंग्रहो द्रष्टव्यः । आशीः, आशीर्तः इति । तस्य+एव श्रीणातेर् आङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश् च नत्वाभावो निपातनात् । तामाशीरा दुहन्ति । आशीर्त ऊर्जम् । क्षीरैर् मध्यत आशीर्तः ॥ न सम्प्रसारणे सम्प्रसारणम्
cicyuṣe / cyuṅ gatau ity asya dhātoḥ liti seśabde abhyāsaya samprasāraṇam aniṭ ca nipātanāt / cicyuṣe / cucyuviṣe iti bhāṣāyām / tityāja / tyaja hānau ity asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ nipātyate / tityāja / tatyāja iti bhāṣāyām / śrātāḥ iti / śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ / śrātāsta indrasomāḥ / śritam iti tasya+eva śrīṇāteḥ hrasvatvam / somo gaurī adhiśritaḥ / śritā no gṛhāḥ / anayoḥ śrābhāvaśribhāvayor viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva eva, anyatra śribhāvaḥ iti / somād anyatra kvacid ekasminn api śrābhāvo dṛśyate / yadi śrāto juhotana / tasya śrātāḥ iti bahuvacanasya avivakṣitatvād upasaṃgraho draṣṭavyaḥ / āśīḥ, āśīrtaḥ iti / tasya+eva śrīṇāter āṅpūrvasya kvipi niṣṭhāyāṃ ca śīrādeśaḥ, niṣṭhāyāś ca natvābhāvo nipātanāt / tāmāśīrā duhanti / āśīrta ūrjam / kṣīrair madhyata āśīrtaḥ // na samprasāraṇe samprasāraṇam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.