सृज विसर्गे, दृशिर् प्रेक्षणे इत्य् एतयोः धात्वोः ज्ञलादावकिति प्रत्यये परतः अम् आगमो भवति । स्रष्टा । स्रष्टुम् । स्रष्टव्यम् । द्रष्टा । द्रष्टुम् । द्रष्टव्यम् । लघूपधगुणापवादो ऽयम् अमागमः । अस्राक्षीत् । अद्राक्षीत् । सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते । ज्ञलि इति किम् ? सर्जनम् । दर्शनम् । अकिति इति किम् ? सृष्टः । दृष्टः । धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानाद् इह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्याम् इति ॥ अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम्
sṛja visarge, dṛśir prekṣaṇe ity etayoḥ dhātvoḥ jñalādāvakiti pratyaye parataḥ am āgamo bhavati / sraṣṭā / sraṣṭum / sraṣṭavyam / draṣṭā / draṣṭum / draṣṭavyam / laghūpadhaguṇāpavādo 'yam amāgamaḥ / asrākṣīt / adrākṣīt / sici vṛddhiḥ ami kṛte bhavati, pūrvaṃ tu bādhyate / jñali iti kim ? sarjanam / darśanam / akiti iti kim ? sṛṣṭaḥ / dṛṣṭaḥ / dhātoḥ svarūpagrahaṇe tatprataye kāryavijñānād iha na bhavati, rajjusṛḍbhyām, devadṛgbhyām iti // anudāttasya ca rdupadhasya anyatarsyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.