लोपः इति वर्तते । वेः इति क्विबादयो विशेषान् अनुबन्धान् उत्सृज्य सामान्येन गृह्यन्ते । वेर् अपृक्तस्य लोपो भवति । ब्रह्मभ्रूणवृत्रेषु क्विप् (*६,२।८७) । ब्रह्महा । म्रूणहा । स्पृशो ऽनुदके क्विन् (*६,२।५८) । घृतस्पृक् । तैलस्पृक् । भजो ण्विः (*३,२।६२) । अर्धभाक् । पादभाक् । तुरीयभाक् । अपृक्तस्य इति किम् ? वृदृभ्यां क्विन् दर्विः । कृगृशृसृजागृभ्यः क्वि । जागृविः ॥ हल्-ङ्य्-आब्भ्यो दीर्घात् सु-ति-स्य्-अपृक्तं हल्
lopaḥ iti vartate / veḥ iti kvibādayo viśeṣān anubandhān utsṛjya sāmānyena gṛhyante / ver apṛktasya lopo bhavati / brahmabhrūṇavṛtreṣu kvip (*6,2.87) / brahmahā / mrūṇahā / spṛśo 'nudake kvin (*6,2.58) / ghṛtaspṛk / tailaspṛk / bhajo ṇviḥ (*3,2.62) / ardhabhāk / pādabhāk / turīyabhāk / apṛktasya iti kim ? vṛdṛbhyāṃ kvin darviḥ / kṛgṛśṛsṛjāgṛbhyaḥ kvi / jāgṛviḥ // hal-ṅy-ābbhyo dīrghāt su-ti-sy-apṛktaṃ hal
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.