सम्प्रसारणे - ब्रह्महूषु । सम्प्रसारणपूर्वत्वस्य असिद्धत्वात् षत्वं न प्राप्नोति । ङौ - वृक्षे च्छत्रम्, वृक्षे छत्रम् । इटि - अपचे च्छत्रम्, अपचे छत्रम् । आद्गुणस्य असिद्धत्वाद् ह्रस्वलक्षणो नित्यो ऽत्र तुक् प्राप्नोति, दीर्घात्, पदान्ताद् वा (*६,१।७६) इति तुग्निकल्प इष्यते ॥ आद्गुणः
samprasāraṇe - brahmahūṣu / samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti / ṅau - vṛkṣe cchatram, vṛkṣe chatram / iṭi - apace cchatram, apace chatram / ādguṇasya asiddhatvād hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād vā (*6,1.76) iti tugnikalpa iṣyate // ādguṇaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.