ऋते च तृतीयासमासे ऽवर्णाद् वृद्धिर् वक्तव्या । सुखेन ऋतः सुखार्तः । दुःखेन ऋतः दुःखार्तः । ऋतः इति किम् ? सुखेन इतः सुखेतः । तृतीया इति किम् ? परमर्तः । समासे इति किम् ? सुखेनर्तः । प्रवत्सतरकम्बलवसनानाम्र्णे वृद्धिर् वक्तव्या । प्र - प्रार्णम् । वत्सतर - वत्सतरार्णम् । कम्बल - कम्बलार्णम् । वसन - वसनार्णम् । ऋणदशाभ्यां वृद्धिर् वक्तव्या । ऋणार्णम् । दशार्णम् ॥ आटश् च
ṛte ca tṛtīyāsamāse 'varṇād vṛddhir vaktavyā / sukhena ṛtaḥ sukhārtaḥ / duḥkhena ṛtaḥ duḥkhārtaḥ / ṛtaḥ iti kim ? sukhena itaḥ sukhetaḥ / tṛtīyā iti kim ? paramartaḥ / samāse iti kim ? sukhenartaḥ / pravatsatarakambalavasanānāmrṇe vṛddhir vaktavyā / pra - prārṇam / vatsatara - vatsatarārṇam / kambala - kambalārṇam / vasana - vasanārṇam / ṛṇadaśābhyāṃ vṛddhir vaktavyā / ṛṇārṇam / daśārṇam // āṭaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.