एचि इति निवृत्तम् । अचि इत्य् अनुवर्तते । आटः परो यो अच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिर् एकादेशो भवति । ऐक्षिष्ट । ऐक्षत । ऐक्षिष्यत । औभीत् । आर्ध्नोन् । औब्जीत् । चकारो ऽधिकविधानार्थः, उसि ओम्-आङोश् च (*६,१।९५) इति पररूपबाधनार्थः । औस्रीयत् । औङ्कारीयत् । आ ऊढा ओढा, तामैच्छत् औढीयत् ॥ उपसर्गाद् ऋति धातौ
eci iti nivṛttam / aci ity anuvartate / āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati / aikṣiṣṭa / aikṣata / aikṣiṣyata / aubhīt / ārdhnon / aubjīt / cakāro 'dhikavidhānārthaḥ, usi om-āṅoś ca (*6,1.95) iti pararūpabādhanārthaḥ / ausrīyat / auṅkārīyat / ā ūḍhā oḍhā, tāmaicchat auḍhīyat // upasargād ṛti dhātau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.