आत् इत्य् एव । अवर्णान्तात् ओमि आङि च परतः पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति । का ओम् इत्य् अवोचत्, कोम् इत्य् अवोचत् । योम् इत्य् अवोचत् । आगि खल्व् अपि - आ ऊढा ओढा । अद्य ओढा अद्योढा । कदा ओढा कदोढा । तदा ओढा तदोढा । वृद्धिर् एचि (*६,१।८८) इत्य् अस्य पवादः । इह तु आ ऋश्यात् अर्श्यात्, अद्य अर्श्यात् अद्यर्श्यात् इति अकः सवर्णे दीर्घत्वं बाधते ॥ उस्य् अपदान्तात्
āt ity eva / avarṇāntāt omi āṅi ca parataḥ pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati / kā om ity avocat, kom ity avocat / yom ity avocat / āgi khalv api - ā ūḍhā oḍhā / adya oḍhā adyoḍhā / kadā oḍhā kadoḍhā / tadā oḍhā tadoḍhā / vṛddhir eci (*6,1.88) ity asya pavādaḥ / iha tu ā ṛśyāt arśyāt, adya arśyāt adyarśyāt iti akaḥ savarṇe dīrghatvaṃ bādhate // usy apadāntāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.