आत् इत्य् एव । अवर्णात् अपदान्तात् उसि पूर्वपरयोः आद्गुणापवादः पररूपम् एकादेशो भवति । भिन्द्या उस् भिन्द्युः । छिन्द्या उस् छिन्द्युः । अदा उस् अदुः । अया उस् अयुः । अपदान्तात् इति किम् ? का उस्रा कोस्रा । का उषिता कोषिता । आत् इत्य् एव, चक्रुः । अबिभयुः ॥ अतो गुणे
āt ity eva / avarṇāt apadāntāt usi pūrvaparayoḥ ādguṇāpavādaḥ pararūpam ekādeśo bhavati / bhindyā us bhindyuḥ / chindyā us chindyuḥ / adā us aduḥ / ayā us ayuḥ / apadāntāt iti kim ? kā usrā kosrā / kā uṣitā koṣitā / āt ity eva, cakruḥ / abibhayuḥ // ato guṇe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.