दिक्शब्दाः पूर्वपदानि अन्तोदात्तनि भवन्ति ग्रामजनपदाख्यानवाचिषु उत्तरपदेषु, चानराटशब्दे च । पूर्वेषुकामशमी, पूर्वेषुकामशमी । अपरेषुकामशमी, अपरेषुकामशमी । पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका । जनपद - पूर्वपञ्चालाः । अपरपञ्चालाः । आख्यान - पूर्वाधिरामम्, पूर्वाधिरामम् । पूर्वयायातम् । अपरयायातम् । अधिरामम् अधिकृत्य कृतो ग्रन्थः आधिरामम् । तथा यायातम् । चानराट - पूर्वचानराटम् । अपरचानराटम् । शब्दग्रहणं कालवाचिनो ऽपि दिक्शब्दस्य परिग्रहार्थम् ॥ आचार्य-उपसर्जनश् च अन्तेवासिनि
dikśabdāḥ pūrvapadāni antodāttani bhavanti grāmajanapadākhyānavāciṣu uttarapadeṣu, cānarāṭaśabde ca / pūrveṣukāmaśamī, pūrveṣukāmaśamī / apareṣukāmaśamī, apareṣukāmaśamī / pūrvakṛṣṇamṛttikā / aparakṛṣṇamṛttikā / janapada - pūrvapañcālāḥ / aparapañcālāḥ / ākhyāna - pūrvādhirāmam, pūrvādhirāmam / pūrvayāyātam / aparayāyātam / adhirāmam adhikṛtya kṛto granthaḥ ādhirāmam / tathā yāyātam / cānarāṭa - pūrvacānarāṭam / aparacānarāṭam / śabdagrahaṇaṃ kālavācino 'pi dikśabdasya parigrahārtham // ācārya-upasarjanaś ca antevāsini
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.