शुक्लकर्णः । कृष्णकर्णः । उत्तरपदस्य इत्य् एतद् अपादपरिसमाप्तेः । आदिः इति प्रकृत्या भगालम् (*६,२।१२७) इति यावत् ॥ कर्णो वर्ण-लक्षणात् (*६,२।११२) । बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश् च कर्णशब्द उत्तरपदम् आद्युदात्तं भवति । शुक्लकर्णः । कृष्णकर्णः । लक्षणात् - दात्राकर्णः । शङ्कूकर्णः । लक्षणस्य इति दीर्घत्वम् । पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तद् इह लक्षणं गृह्यते, तेन स्थूलकर्णः इत्य् अत्र न भवति । कर्णः इति किम् ? श्वेतपादः । कूटशृङ्गः । वर्णलक्षणात् इति किम् ? शोभनकर्णः ॥ सञ्ज्ञा-औपम्ययोश् च
śuklakarṇaḥ / kṛṣṇakarṇaḥ / uttarapadasya ity etad apādaparisamāpteḥ / ādiḥ iti prakṛtyā bhagālam (*6,2.127) iti yāvat // karṇo varṇa-lakṣaṇāt (*6,2.112) / bahuvrīhau samāse varṇavācino lakṣaṇavācinaś ca karṇaśabda uttarapadam ādyudāttaṃ bhavati / śuklakarṇaḥ / kṛṣṇakarṇaḥ / lakṣaṇāt - dātrākarṇaḥ / śaṅkūkarṇaḥ / lakṣaṇasya iti dīrghatvam / paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tad iha lakṣaṇaṃ gṛhyate, tena sthūlakarṇaḥ ity atra na bhavati / karṇaḥ iti kim ? śvetapādaḥ / kūṭaśṛṅgaḥ / varṇalakṣaṇāt iti kim ? śobhanakarṇaḥ // sañjñā-aupamyayoś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.