आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वः, तत्र पूर्वपदं प्रकृतिस्वरं भवति । आपिशलपाणिनीयाः । पाणिनीयरौढीयाः । रौढीयकाशकृत्स्नाः । अपिशलस्यापत्यमापिशलिराचर्यः, अत इञ् (*४,१।९५) । तेन प्रोक्तम् आपिशलम्, इञश् च (*४,२।११२) इत्यण् । तद् अधीयते ये ऽन्तेवासिनः ते ऽप्य् आपिशलाः, प्रोक्ताल् लुक् (*४,२।६४) इति तस्य तद्धितस्याध्येतरि विहितस्य लुक् क्रियते । आपिशलेर् वा छात्राः आपिशलाः, इत्य् उभयथाप्याचर्योपसर्जनश्चान्तेवासी भवति । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्वः आचार्योपसर्जनो यथा विज्ञायेत । इह मा भूत्, पाणिनियदेवदत्तौ । आचार्योपसर्जने इति किम् ? छान्दसवैयाकरणाः । अन्तेवासी इति किम् ? आपिशलपाणिनीये शास्त्रे ॥ कार्त-कौजप-आदयश् च
ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ prakṛtisvaraṃ bhavati / āpiśalapāṇinīyāḥ / pāṇinīyarauḍhīyāḥ / rauḍhīyakāśakṛtsnāḥ / apiśalasyāpatyamāpiśalirācaryaḥ, ata iñ (*4,1.95) / tena proktam āpiśalam, iñaś ca (*4,2.112) ityaṇ / tad adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl luk (*4,2.64) iti tasya taddhitasyādhyetari vihitasya luk kriyate / āpiśaler vā chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī bhavati / ācāryopasarjanagrahaṇaṃ dvandvaviśeṣaṇārtham, sakalo dvandvaḥ ācāryopasarjano yathā vijñāyeta / iha mā bhūt, pāṇiniyadevadattau / ācāryopasarjane iti kim ? chāndasavaiyākaraṇāḥ / antevāsī iti kim ? āpiśalapāṇinīye śāstre // kārta-kaujapa-ādayaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.