कुरूणां गार्हपतं कुरुगार्हपतम् । कृग्रोरुच्च इति कुरुशब्दः कुप्रत्ययान्तो ऽन्तोदात्तः । कुरुवृज्योर् गार्हपत इति वक्तव्यम् । वृजीनां गार्हपतं वृजिगार्हपतम् । वृजिशब्द आद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः, रिक्तगुरुः । रिक्ते विभाषा (*६,१।२०८) इति पूर्वपदम् आद्युदात्तम् अन्तोदत्तं वा । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वाद् आद्युदात्तः । श्रीः यस्य अस्ति तत् श्लीलम् । सिध्मादेर् आकृतिगणत्वाल् लच् । कपिलकादित्वाच् च लत्वम् । अश्लीलदृढरूपा इति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहिता उच्यते । पारे वडवा इव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश् च । पारशदो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनो ऽपत्यं छात्रो वा तैतिलः इत्य् अणन्तः । पण्यकम्बलः । पण्यशब्दो यदन्तत्वाद् आद्युदात्तः । पण्यकम्बलः सञ्ज्ञायाम् इति वक्तव्यम् । अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्त्वम् एव । प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया दृत्या इत्य् एष विहितः स्वरितः । दास्या भारः दासीभारः । देवहूतिः । देवजूतिः । देवसूतिः । देवनीतिः । अन्तोदात्तं पूर्वपदम् । वसुनीतिः । वसुशदः आद्युदात्तः । शॄस्वृस्निहित्रप्यसिवसि इत्य् अत्र धान्ये नित् इति वर्तते । ओषधिः । ओषो धीयते ऽस्याम् इति कर्मण्यधिकरणे च (*३,३।९३) इति किप्रत्ययः । ओषशब्दो घञन्तत्वाद् आद्युदात्तः । चन्द्रमाः । चन्द्रे मो डित् इति असिप्रत्ययान्तो ऽयम् । चन्द्रशब्दस् तु रक्प्रत्यान्तत्वाद् अन्तोदात्तः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वम् इष्यते, न च विहितं, स सर्वो दासीभारादिसु द्रष्टव्यः ॥ चतुर्थी तदर्थे
kurūṇāṃ gārhapataṃ kurugārhapatam / kṛgrorucca iti kuruśabdaḥ kupratyayānto 'ntodāttaḥ / kuruvṛjyor gārhapata iti vaktavyam / vṛjīnāṃ gārhapataṃ vṛjigārhapatam / vṛjiśabda ādyudāttaḥ / rikto guruḥ riktaguruḥ, riktaguruḥ / rikte vibhāṣā (*6,1.208) iti pūrvapadam ādyudāttam antodattaṃ vā / asūtā jaratī asūtajaratī / aślīlā dṛḍharūpā aślīladṛḍharūpā / aślīlaśabdo nañsamāsatvād ādyudāttaḥ / śrīḥ yasya asti tat ślīlam / sidhmāder ākṛtigaṇatvāl lac / kapilakāditvāc ca latvam / aślīladṛḍharūpā iti hi saṃsthānamātreṇa śobhanā niḥśrīkā lāvaṇyavirahitā ucyate / pāre vaḍavā iva pārevaḍavā / nipātanādivārthe samāso vibhaktyalopaś ca / pāraśado ghṛtāditvādantodāttaḥ / taitilānāṃ kadrūḥ taitilakadrūḥ / titilino 'patyaṃ chātro vā taitilaḥ ity aṇantaḥ / paṇyakambalaḥ / paṇyaśabdo yadantatvād ādyudāttaḥ / paṇyakambalaḥ sañjñāyām iti vaktavyam / anyatra paṇitavye kambale samāsāntodāttattvam eva / pratipadokte hi kṛtyānāṃ samāse dvitīyā dṛtyā ity eṣa vihitaḥ svaritaḥ / dāsyā bhāraḥ dāsībhāraḥ / devahūtiḥ / devajūtiḥ / devasūtiḥ / devanītiḥ / antodāttaṃ pūrvapadam / vasunītiḥ / vasuśadaḥ ādyudāttaḥ / śṝsvṛsnihitrapyasivasi ity atra dhānye nit iti vartate / oṣadhiḥ / oṣo dhīyate 'syām iti karmaṇyadhikaraṇe ca (*3,3.93) iti kipratyayaḥ / oṣaśabdo ghañantatvād ādyudāttaḥ / candramāḥ / candre mo ḍit iti asipratyayānto 'yam / candraśabdas tu rakpratyāntatvād antodāttaḥ / yasya tatpuruṣasya pūrvapadaprakṛtisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu draṣṭavyaḥ // caturthī tadarthe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.