कर्मधार्ये समासे क्तान्ते उत्तरपदे ऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति । श्रेणिकृताः । ऊककृताः । पूगकृताः । निधनकृताः । श्रेणिशब्द आद्युदात्तः । ऊकपूगशब्दावन्तोदात्तौ । निधनशब्दो ऽयं मध्योदात्तः । कर्मधारये इति किम् ? श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा इति किम् ? कृताकृतम् ॥ अहीने द्वितीया
karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati / śreṇikṛtāḥ / ūkakṛtāḥ / pūgakṛtāḥ / nidhanakṛtāḥ / śreṇiśabda ādyudāttaḥ / ūkapūgaśabdāvantodāttau / nidhanaśabdo 'yaṃ madhyodāttaḥ / karmadhāraye iti kim ? śreṇyā kṛtaṃ śreṇikṛtam / aniṣṭhā iti kim ? kṛtākṛtam // ahīne dvitīyā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.