सभाशब्दे उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदम् अन्तोदात्तं भवति । गोपालसभम् । पशुपालसभम् । स्त्रीसभम् । दासीसभम् । सभायाम् इति किम् ? ब्राह्मणसेनम् । नपुंसकम् इति किम् ? राजसभा । ब्राह्मणसभा । सभायां प्रतिपदोक्तं नपुंसकलिङ्गं गृह्यते इति समणीयसभम्, ब्राह्मणकुलम् इत्य् अत्र न भवति ॥ पुरे प्राचाम्
sabhāśabde uttarapade napuṃsakaliṅge samāse pūrvapadam antodāttaṃ bhavati / gopālasabham / paśupālasabham / strīsabham / dāsīsabham / sabhāyām iti kim ? brāhmaṇasenam / napuṃsakam iti kim ? rājasabhā / brāhmaṇasabhā / sabhāyāṃ pratipadoktaṃ napuṃsakaliṅgaṃ gṛhyate iti samaṇīyasabham, brāhmaṇakulam ity atra na bhavati // pure prācām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.