सहि वहि इत्य् एतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे । सोढा । सोढुम् । सोढव्यम् । वोढा । वोढुम् । वोढव्यम् । अवर्णस्य इति किम् ? ऊढः । ऊढवान् । वर्णग्रहणं किम् ? कृतायाम् अपि वृद्धौ यथा स्यात् । उदवोढाम् । उदवोढम् । तादपि परः तपरः, तपरत्वाद् आकारस्य ग्रहणं न स्यात् ॥ साढ्यै साढ्वा साढ+इति निगमे
sahi vahi ity etayoḥ avarṇasya okāra ādeśo bhavati ḍhralope / soḍhā / soḍhum / soḍhavyam / voḍhā / voḍhum / voḍhavyam / avarṇasya iti kim ? ūḍhaḥ / ūḍhavān / varṇagrahaṇaṃ kim ? kṛtāyām api vṛddhau yathā syāt / udavoḍhām / udavoḍham / tādapi paraḥ taparaḥ, taparatvād ākārasya grahaṇaṃ na syāt // sāḍhyai sāḍhvā sāḍha+iti nigame
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.