Library·Jayaditya & Vamana: Kasikavrtti·6·6.3

Jayaditya & Vamana: Kasikavrtti 6.3

षष्ठाध्यायस्य तृतीयः पादः । अलुग् उत्तरपदे

ṣaṣṭhādhyāyasya tṛtīyaḥ pādaḥ / alug uttarapade

Sanskrit only: no published translation is held for this verse.

अलुक् इति च, उत्तरपदे इति च एतद् अधिकृतम् वेदितव्यम् । यद् इति ऊर्ध्वम् अनुक्रमिष्यामो ऽलुक् उत्तरपदे इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - पञ्चम्याः स्तोकादिभ्यः

aluk iti ca, uttarapade iti ca etad adhikṛtam veditavyam / yad iti ūrdhvam anukramiṣyāmo 'luk uttarapade ity evaṃ tad veditavyam / vakṣyati - pañcamyāḥ stokādibhyaḥ

Sanskrit only: no published translation is held for this verse.

स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपदे इति किम् ? निष्क्रान्तः स्तोकात् निस्तोकः । अन्यार्थम् इदम् उत्तरपदग्रहणम् इह अप्य् अलुको निवृतिं करोति इत्य् एवम् अर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या । अलुगधिकारः प्रागानङः । उत्तरपदाधिकारः प्रागङ्गाधिकारात् ॥ पञ्चम्याः स्तोक-आदिभ्यः (*६,३।२) । स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक् भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादगतः अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते । द्विवचनबहुवचनान्तानां तु स्तोकादीनाम् अनभिधानात् समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति । तेन अत्र न कदाचिद् ऐकपद्यम् ऐकस्वर्यं च भवति । ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यम् । ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति । ऋत्विग्विशेषस्य रूढिरियम् । तस्य व्युत्पत्तिर् असता सता वा अवयवार्थेन क्रियते ॥ ओजः-सहो ऽम्भस्-तमसस् तृतीययाः

stokānmuktaḥ / alpānmuktaḥ / uttarapade iti kim ? niṣkrāntaḥ stokāt nistokaḥ / anyārtham idam uttarapadagrahaṇam iha apy aluko nivṛtiṃ karoti ity evam arthaṃ lakṣaṇapratipadoktaparibhāṣā na aśrayitavyā / alugadhikāraḥ prāgānaṅaḥ / uttarapadādhikāraḥ prāgaṅgādhikārāt // pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) / stokāntikadūrārthakṛcchrāṇi stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati / stokānmuktaḥ / alpānmuktaḥ / antikādagataḥ abhyāśādāgataḥ / dūrādāgataḥ / viprakṛṣṭādāgataḥ / kṛcchrānmuktaḥ / samāse kṛte prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate / dvivacanabahuvacanāntānāṃ tu stokādīnām anabhidhānāt samāsa eva na bhavati stokābhyāṃ muktaḥ, stokebhyo muktaḥ iti / tena atra na kadācid aikapadyam aikasvaryaṃ ca bhavati / brāhmaṇācchaṃsina upasaṅkhyānaṃ kartavyam / brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī iti / ṛtvigviśeṣasya rūḍhiriyam / tasya vyutpattir asatā satā vā avayavārthena kriyate // ojaḥ-saho 'mbhas-tamasas tṛtīyayāḥ

Sanskrit only: no published translation is held for this verse.

मनसः सञ्ज्ञायाम्

manasaḥ sañjñāyām

Sanskrit only: no published translation is held for this verse.

मनसः उत्तरस्याः तृतीयायाः सञ्ज्ञायाम् अलुग् भवति । मनसादत्ता । मनसगुप्ता । मनसासङ्गता । सञ्ज्ञायाम् इति किम् ? मनोदत्ता । मनोगुप्ता ॥ आज्ञायिनि च

manasaḥ uttarasyāḥ tṛtīyāyāḥ sañjñāyām alug bhavati / manasādattā / manasaguptā / manasāsaṅgatā / sañjñāyām iti kim ? manodattā / manoguptā // ājñāyini ca

Sanskrit only: no published translation is held for this verse.

आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग् भवति । मनसा अज्ञातुं शीलमस्य मनसाज्ञायी ॥ आत्मनश् च पूरणे

ājñāyinyuttārapade manasaḥ uttarasya tṛtīyāyāḥ alug bhavati / manasā ajñātuṃ śīlamasya manasājñāyī // ātmanaś ca pūraṇe

Sanskrit only: no published translation is held for this verse.

आत्मनश् च पूरणे (*६,३।६) । आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदे ऽलुग् भवति । आत्मनापञ्चमः । आत्मनाषष्ठः । तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानम् इति तृतीया । तृतीया इति योगविभागात् समासः । आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः । कथं जनार्दनस्त्वात्मचतुर्थ एव इति ? बहुव्रीहिर् अयम् आत्मा चतुर्थो ऽस्य असौ आत्मचतुर्थः ॥ वैयाकरणाख्यायां चतुर्थ्याः

ātmanaś ca pūraṇe (*6,3.6) / ātmanaḥ uttarasyāḥ tṛtīyāyāḥ pūraṇapratyayānte utārapade 'lug bhavati / ātmanāpañcamaḥ / ātmanāṣaṣṭhaḥ / tṛtīyāvidhāne prakṛtyādibhya upasaṅkhyānam iti tṛtīyā / tṛtīyā iti yogavibhāgāt samāsaḥ / ātmanā vā kṛtaḥ pañcamaḥ ātmanāpañcamaḥ / kathaṃ janārdanastvātmacaturtha eva iti ? bahuvrīhir ayam ātmā caturtho 'sya asau ātmacaturthaḥ // vaiyākaraṇākhyāyāṃ caturthyāḥ

Sanskrit only: no published translation is held for this verse.

वैयाकरनानामाख्या वैयाकरणाख्या । आख्या सञ्ज्ञा । यया सञ्ज्ञया वैयाकरणा एव व्यहरन्ति तस्याम् आत्मनः उत्तरस्याश् चतुर्थ्या अलुग् भवति । आत्मनेपदम् । आत्मनेभषा । तदर्थ्ये चतुर्थी । चतुर्थी इति योगविभागात् समासः ॥ परस्य च

vaiyākaranānāmākhyā vaiyākaraṇākhyā / ākhyā sañjñā / yayā sañjñayā vaiyākaraṇā eva vyaharanti tasyām ātmanaḥ uttarasyāś caturthyā alug bhavati / ātmanepadam / ātmanebhaṣā / tadarthye caturthī / caturthī iti yogavibhāgāt samāsaḥ // parasya ca

Sanskrit only: no published translation is held for this verse.

परस्य च या चतुर्थी तस्य वैयाकरणाख्यायाम् अलुग् भवति । परस्मैपदम् । परस्मैभाषा ॥ हल्-अदन्तात् सप्तम्याः सञ्ज्ञायाम्

parasya ca yā caturthī tasya vaiyākaraṇākhyāyām alug bhavati / parasmaipadam / parasmaibhāṣā // hal-adantāt saptamyāḥ sañjñāyām

Sanskrit only: no published translation is held for this verse.

कारनाम्नि च प्राचां हल्-आदौ

kāranāmni ca prācāṃ hal-ādau

Sanskrit only: no published translation is held for this verse.

प्राचां देशे यत्कारनाम तत्र हलादव् उत्तरपदे हलदन्ताद् उत्तरस्याः सप्तम्याः अलुग् भवति । सूपेशाणः । दृषदिमाषकः । हलेद्विपदिका । हलेत्रिपदिका । कारविशेषस्याः सञ्ज्ञा एताः, तत्र पूर्वेण+एव सिद्धे नियमार्थम् इदम् । एते च त्रयो नियमविकल्पा अत्रेष्यन्ते, कारनाम्न्य् एव, प्राचाम् एव, हलादाव् एव इति । कारनाम्नि इति किम् ? अभ्यर्हिते पशुः अभ्यर्हितपशुः । काराद् अन्यस्यअ+एतद् देयस्य नाम । प्राचाम् इति किम् ? यूथे पशुः यूथपशुः । हलादौ इति किम् ? अविकटे उरणः अविकटोरणः । हलदन्ताद् इत्य् एव, नद्यां दोहनी नदीदोहनी ॥ मध्याद् गुरौ

prācāṃ deśe yatkāranāma tatra halādav uttarapade haladantād uttarasyāḥ saptamyāḥ alug bhavati / sūpeśāṇaḥ / dṛṣadimāṣakaḥ / haledvipadikā / haletripadikā / kāraviśeṣasyāḥ sañjñā etāḥ, tatra pūrveṇa+eva siddhe niyamārtham idam / ete ca trayo niyamavikalpā atreṣyante, kāranāmny eva, prācām eva, halādāv eva iti / kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ / kārād anyasyaa+etad deyasya nāma / prācām iti kim ? yūthe paśuḥ yūthapaśuḥ / halādau iti kim ? avikaṭe uraṇaḥ avikaṭoraṇaḥ / haladantād ity eva, nadyāṃ dohanī nadīdohanī // madhyād gurau

Sanskrit only: no published translation is held for this verse.

मध्याद् उत्तरस्याः सप्तम्याः गुराव् उत्तरपदे ऽलुग् भवति । मध्येगुरुः । अन्ताचेति वक्तव्यम् । अन्तेगुरुः । सप्तमी इति योगविभागात् समासः ॥ अमूर्ध-मस्तकात् स्वाङ्गाद् अकामे

madhyād uttarasyāḥ saptamyāḥ gurāv uttarapade 'lug bhavati / madhyeguruḥ / antāceti vaktavyam / anteguruḥ / saptamī iti yogavibhāgāt samāsaḥ // amūrdha-mastakāt svāṅgād akāme

Sanskrit only: no published translation is held for this verse.

मूर्ध-मस्तक-वर्जितात् स्वाङ्गाद् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे ऽलुग् भवति । कण्ठे कालो ऽस्य कण्ठेकालः । उरसिलोमा । उदरेमणिः । अमूर्धमस्तकात् इति किम् ? मूर्धशिखः । मस्तकशिखः । अकामे इति किम् ? मुखे कामो ऽस्य मुखकामः । स्वाङ्गात् इति किम् ? अक्षशौण्डः । हलदन्तात् इत्य् एव, अङ्गुलित्राणः । जङ्घावलिः ॥ भन्धे च विभाषा

mūrdha-mastaka-varjitāt svāṅgād uttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati / kaṇṭhe kālo 'sya kaṇṭhekālaḥ / urasilomā / udaremaṇiḥ / amūrdhamastakāt iti kim ? mūrdhaśikhaḥ / mastakaśikhaḥ / akāme iti kim ? mukhe kāmo 'sya mukhakāmaḥ / svāṅgāt iti kim ? akṣaśauṇḍaḥ / haladantāt ity eva, aṅgulitrāṇaḥ / jaṅghāvaliḥ // bhandhe ca vibhāṣā

Sanskrit only: no published translation is held for this verse.

बन्धः इति घञन्तो गृह्यते । तस्मिन्न् उत्तरपदे हलदन्त्तद् उत्तरस्याः सप्तम्याः विभाषा अलुग् भवति । हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः, चक्रबन्धः । उभयत्र विभाषेयम् । स्वङ्गाद् धि बहुव्रिहौ पूर्वेण नित्यम् अलुक् प्राप्नोति, तत्पुरुषे तु स्वङ्गाद् अस्वाङ्गाच् च न-इन्-सिद्ध-बध्नातिसु च (*६,३।१९) इति प्रतिषेधः प्राप्नोति । हलदन्ताद् इत्य् एव, गुप्तिबन्धः ॥ तत्पुरुषे कृति बहुलम्

bandhaḥ iti ghañanto gṛhyate / tasminn uttarapade haladanttad uttarasyāḥ saptamyāḥ vibhāṣā alug bhavati / hastebandhaḥ, hastabandhaḥ / cakrebandhaḥ, cakrabandhaḥ / ubhayatra vibhāṣeyam / svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgād asvāṅgāc ca na-in-siddha-badhnātisu ca (*6,3.19) iti pratiṣedhaḥ prāpnoti / haladantād ity eva, guptibandhaḥ // tatpuruṣe kṛti bahulam

Sanskrit only: no published translation is held for this verse.

प्रावृट्-शरत्-काल-दिवां जे

prāvṛṭ-śarat-kāla-divāṃ je

Sanskrit only: no published translation is held for this verse.

प्रावृट् शरत् काल दिव् इत्य् एतेषां जे उत्तरपदे सप्तम्याः अलुक् भवति । प्रावृषिजः । शरदिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्य+एव अयं प्रपञ्चः ॥ विभाषा

prāvṛṭ śarat kāla div ity eteṣāṃ je uttarapade saptamyāḥ aluk bhavati / prāvṛṣijaḥ / śaradijaḥ / śaradijaḥ / kālejaḥ / divijaḥ / pūrvasya+eva ayaṃ prapañcaḥ // vibhāṣā

Sanskrit only: no published translation is held for this verse.

वर्ष क्षर शर वर इत्य् एतेभ्य उत्तरस्यः सप्तम्याः जे उत्तरपदे विभाषा अलुग् भवति । वर्षेजः, वर्षजः । क्षरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः ॥ घ-काल-तनेसु कालनाम्नः

varṣa kṣara śara vara ity etebhya uttarasyaḥ saptamyāḥ je uttarapade vibhāṣā alug bhavati / varṣejaḥ, varṣajaḥ / kṣarejaḥ, kṣarajaḥ / śarejaḥ, śarajaḥ / varejaḥ, varajaḥ // gha-kāla-tanesu kālanāmnaḥ

Sanskrit only: no published translation is held for this verse.

घ-सञ्ज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति । घ - पूर्वह्णेतरे, पूर्वाह्णतरे । पूर्वाह्णेतमे, पूर्वाह्णतमे । काल - पूर्वाह्णेकाले, पूर्वह्णाकाले । तन - पूर्वाह्णेतने, पूर्वाह्णतने । कालनाम्नः इति किम् ? शुक्लतरे । शुक्लतमे । हलदन्ताद् इत्य् एव, रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर् न+इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल् लिङ्गात् । तेन घतनग्रहणे, तदन्तग्रहनं न भवति । काल इति न स्वरूपग्रहणम् ॥ शय-वास-वासिष्व् अकलात्

gha-sañjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati / gha - pūrvahṇetare, pūrvāhṇatare / pūrvāhṇetame, pūrvāhṇatame / kāla - pūrvāhṇekāle, pūrvahṇākāle / tana - pūrvāhṇetane, pūrvāhṇatane / kālanāmnaḥ iti kim ? śuklatare / śuklatame / haladantād ity eva, rātritarāyām / uttarapadādhikāre pratyayagrahaṇe tadantavidhir na+iṣyate hṛdayasya hṛllekha iti lekhagrahaṇāl liṅgāt / tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati / kāla iti na svarūpagrahaṇam // śaya-vāsa-vāsiṣv akalāt

Sanskrit only: no published translation is held for this verse.

शय वास वासिन् इत्य् एतेषु उत्तरपदेष्व् अकालवाचिनः उत्तरस्याः सप्तम्या विभाषा अलुक् भवति । खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामेवासी, ग्रामवासी । अकालात् इति किम् ? पूर्वह्णशयः । हलदन्तात् इत्य् एव, भूमिशयः । अपो योनियन्मतुसु सप्तम्या अलुग् वक्तव्यः । अप्सुयोनिः । अप्सव्यः । अप्सुमन्तौ । अप्सु भवः इति दिगादित्वाद् यत् प्रत्ययः । सर्वत्र सप्तमी ती योगविभागात् समासः ॥ न-इन्-सिद्ध-बध्नातिषु च

śaya vāsa vāsin ity eteṣu uttarapadeṣv akālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati / kheśayaḥ, khaśayaḥ / grāmevāsaḥ, grāmavāsaḥ / grāmevāsī, grāmavāsī / akālāt iti kim ? pūrvahṇaśayaḥ / haladantāt ity eva, bhūmiśayaḥ / apo yoniyanmatusu saptamyā alug vaktavyaḥ / apsuyoniḥ / apsavyaḥ / apsumantau / apsu bhavaḥ iti digāditvād yat pratyayaḥ / sarvatra saptamī tī yogavibhāgāt samāsaḥ // na-in-siddha-badhnātiṣu ca

Sanskrit only: no published translation is held for this verse.

स्थे च भाषायाम्

sthe ca bhāṣāyām

Sanskrit only: no published translation is held for this verse.

स्थे च+उत्तरपदे भाषायाम् सप्तम्या अलुक् न भवति । समस्थः । विषमस्थः । कूटस्थः । पर्वतस्थः । भाषायाम् इति किम् ? कृणोम्यारेष्ठः । पूर्वपदात् (*८,३।१०६) इति षत्वम् ॥ षष्ठ्या आक्रोशे

sthe ca+uttarapade bhāṣāyām saptamyā aluk na bhavati / samasthaḥ / viṣamasthaḥ / kūṭasthaḥ / parvatasthaḥ / bhāṣāyām iti kim ? kṛṇomyāreṣṭhaḥ / pūrvapadāt (*8,3.106) iti ṣatvam // ṣaṣṭhyā ākrośe

Sanskrit only: no published translation is held for this verse.

आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति । चौरस्यकुलम् । वृषलस्यकुलम् । आक्रोशे इति किम् ? ब्राह्मनकुलम् । षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यम् अलुग् वक्तव्यः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग् वक्तव्यः । अमुस्यापत्यम् आमुस्यायणः । नडादित्वात् फक् । अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका । मनोज्ञादित्वद् वुञ् । तथा आमुस्यकुलिका इति । देवानाम्प्रिय इत्य् अत्र च षष्ठ्या अलुग् वक्तव्यः । देवानम् प्रियः ॥ शेपपुच्छलङ्कूलेषु शुनः सञ्ज्ञायां अलुग् वक्तव्यः । शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः । दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः । दिवोदासाय गायति ॥ पुत्रे ऽन्यतरस्याम्

ākrośe gamyamāne uttarapade ṣaṣṭhyā alug bhavati / caurasyakulam / vṛṣalasyakulam / ākrośe iti kim ? brāhmanakulam / ṣaṣthīprakarane vāgdikpaśyadbhyo yuktidaṇḍahareṣu yathāsaṅkhyam alug vaktavyaḥ / vācoyuktiḥ / diśodaṇḍaḥ / paśyatoharaḥ // āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi ca alug vaktavyaḥ / amusyāpatyam āmusyāyaṇaḥ / naḍāditvāt phak / amuṣya putrasya bhāvaḥ āmusyaputrikā / manojñāditvad vuñ / tathā āmusyakulikā iti / devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ / devānam priyaḥ // śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ / śunaḥśepaḥ / śunaḥpucchaḥ / śunolāṅgūlaḥ / divaśca dāse ṣaṣṭhyā alug vaktavyaḥ / divodāsāya gāyati // putre 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

ऋतो विद्यायोनिसम्बन्धेभ्यः

ṛto vidyāyonisambandhebhyaḥ

Sanskrit only: no published translation is held for this verse.

ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश् च+उत्तरस्याः षष्ठ्या अलुग् भवति । होतुरन्तेवसी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । ऋतः इति किम् ? आचर्यपुत्रः । मातुलपुत्रः । विद्यायोनिसम्बन्धेभ्यस् तत्पूर्वोत्तरपदग्रहणम् । विद्यायोनिसम्बन्धवाचिनि एव+उत्तरपदे यथा स्यात्, अन्यत्र मा भूत् । होतृधनम् । पितृधनम् होतृगृहम् । पितृगृहम् ॥ विभाषा स्वसृ-पत्योः

ṛkārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaś ca+uttarasyāḥ ṣaṣṭhyā alug bhavati / hoturantevasī / hotuḥputraḥ / piturantevāsī / pituḥputraḥ / ṛtaḥ iti kim ? ācaryaputraḥ / mātulaputraḥ / vidyāyonisambandhebhyas tatpūrvottarapadagrahaṇam / vidyāyonisambandhavācini eva+uttarapade yathā syāt, anyatra mā bhūt / hotṛdhanam / pitṛdhanam hotṛgṛham / pitṛgṛham // vibhāṣā svasṛ-patyoḥ

Sanskrit only: no published translation is held for this verse.

स्वसृ पति इत्य् एतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषा ऽलुग् भवति । मातुःष्वसा, मातुःस्वसा, मातृष्वसा । पितुःष्वसा, पितुःस्वसा, पितृष्वसा । यदा लुक् तदा मातृपितृभ्यां स्वसा (*८,३।८४) इति नित्यं षत्वम् । यदा तु अलुक् तदा मातुः पितुर्भ्यम् अन्यतरस्याम् (*८,३।८५) इति विकल्पेन षत्वम् । दुहितुःपतिः, दुहितृपतिः । ननान्दुःपितिः, ननान्दृपतिः ॥ अनङ् ऋतो द्वन्द्वे

svasṛ pati ity etayoḥ uttarapadayoḥ ṛkārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati / mātuḥṣvasā, mātuḥsvasā, mātṛṣvasā / pituḥṣvasā, pituḥsvasā, pitṛṣvasā / yadā luk tadā mātṛpitṛbhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam / yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (*8,3.85) iti vikalpena ṣatvam / duhituḥpatiḥ, duhitṛpatiḥ / nanānduḥpitiḥ, nanāndṛpatiḥ // anaṅ ṛto dvandve

Sanskrit only: no published translation is held for this verse.

ऋकारान्तानां विद्यायोनिसम्भन्धवाचिनां यो द्वन्द्वस् तत्र+उत्तरपदे पूर्वपदस्य आनङ् आदेशो भवति । होतापोतारौ । नेष्टोद्गातारौ । प्रशास्ताप्रतिहर्तारौ । योनिसम्बन्धेभ्यः - मातापितरौ । याताननान्दरौ । मकारोच्चारणं रपरत्वनिवृत्त्यर्थम् । ऋतः इति किम् ? पितृपितामहौ । पुत्रे इत्य् अत्र अनुवर्तते, ऋतः इति च । तेन पुत्रशब्दे ऽप्य् उत्तरपदे ऋकारान्तस्य अनङादेशो भवति । पितापुत्रौ । मातापुत्रौ ॥ देवताद्वन्द्वे च

ṛkārāntānāṃ vidyāyonisambhandhavācināṃ yo dvandvas tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati / hotāpotārau / neṣṭodgātārau / praśāstāpratihartārau / yonisambandhebhyaḥ - mātāpitarau / yātānanāndarau / makāroccāraṇaṃ raparatvanivṛttyartham / ṛtaḥ iti kim ? pitṛpitāmahau / putre ity atra anuvartate, ṛtaḥ iti ca / tena putraśabde 'py uttarapade ṛkārāntasya anaṅādeśo bhavati / pitāputrau / mātāputrau // devatādvandve ca

Sanskrit only: no published translation is held for this verse.

देवतावाचिनां यो द्वन्द्वः तत्र+उत्तरपदे पूर्वपदस्य आनङ् आदेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहस्पती । द्वन्द्वे इति वर्तमाने पुनर् द्वन्द्वग्रहणं प्रसिद्धसहाचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्य् एतत् निपात्यते । तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास् तेषाम् इह ग्रहणं भवति । तेन ब्रहमप्रजापती, शिववैश्रवणौ इत्य् एवम् आदौ न भवति । उभ्यत्र वायोः प्रतिषेधो वक्तव्यः । अग्निवायू । वाय्वग्नी ॥ ईदग्नेः सोमवरुणयोः

devatāvācināṃ yo dvandvaḥ tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati / indrāvaruṇau / indrāsomau / indrābṛhaspatī / dvandve iti vartamāne punar dvandvagrahaṇaṃ prasiddhasahācaryārtham / atyantasahacarite lokavijñāte dvandvam ity etat nipātyate / tatra ye loke prasiddhasāhacaryā vede ca ye sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati / tena brahamaprajāpatī, śivavaiśravaṇau ity evam ādau na bhavati / ubhyatra vāyoḥ pratiṣedho vaktavyaḥ / agnivāyū / vāyvagnī // īdagneḥ somavaruṇayoḥ

Sanskrit only: no published translation is held for this verse.

इद् वृद्धौ

id vṛddhau

Sanskrit only: no published translation is held for this verse.

कृतवृद्धाव् उत्तरपदे देवताद्वन्द्वे अग्नेः इकारादेशो भवति । आग्निवारुणीमनड्वहीमालभेत । आग्निमारुतं कर्म क्रियते । अग्नीवरुणौ देवते अस्य, अग्नीअरुतौ देवते अस्य इति तद्धितः । तत्र देवताद्वन्द्वे च (*७,३।२१) इत्य् उभयपदवृद्धौ कृतायाम् आनङ्, ईत्वं च बाधितुम् इकारः क्रियते । वृद्धौ इति किम् ? आग्रेन्द्रः । नेन्द्रस्य परस्य (*७,३।२४) इत्य् उत्तरपदवृद्धिः प्रतिषिध्यते । इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः । आग्नावैष्णवं चरुं निर्वपेत् ॥ देवो द्यावा

kṛtavṛddhāv uttarapade devatādvandve agneḥ ikārādeśo bhavati / āgnivāruṇīmanaḍvahīmālabheta / āgnimārutaṃ karma kriyate / agnīvaruṇau devate asya, agnīarutau devate asya iti taddhitaḥ / tatra devatādvandve ca (*7,3.21) ity ubhayapadavṛddhau kṛtāyām ānaṅ, ītvaṃ ca bādhitum ikāraḥ kriyate / vṛddhau iti kim ? āgrendraḥ / nendrasya parasya (*7,3.24) ity uttarapadavṛddhiḥ pratiṣidhyate / idvṛddhau viṣṇoḥ pratiṣedho vaktavyaḥ / āgnāvaiṣṇavaṃ caruṃ nirvapet // devo dyāvā

Sanskrit only: no published translation is held for this verse.

दिव् इत्य् एतस्य द्यावा इत्य् अयम् आदेशो भवति देवताद्वन्द्वे उत्तरपदे । द्यावाक्षामा । द्यावाभूमी ॥ दिवसश् च पृथिव्याम्

div ity etasya dyāvā ity ayam ādeśo bhavati devatādvandve uttarapade / dyāvākṣāmā / dyāvābhūmī // divasaś ca pṛthivyām

Sanskrit only: no published translation is held for this verse.

पृथिव्याम् उत्तरपदे देवताद्वन्द्वे दिवो दिवस् इत्य् अयम् आदेशो भवति, चकाराद् द्यावा च । दिवस्पृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणम् सकारस्य विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वदीनि न भवन्ति । कथं द्यावा चिद् अस्मै पृथिवी नमेते इति ? कर्तव्यो ऽत्र यत्नः ॥ उषासा-उषसः

pṛthivyām uttarapade devatādvandve divo divas ity ayam ādeśo bhavati, cakārād dyāvā ca / divaspṛthivyau / dyāvāpṛthivyau / akāroccāraṇam sakārasya vikārābhāvapratipattyartham / tena rutvadīni na bhavanti / kathaṃ dyāvā cid asmai pṛthivī namete iti ? kartavyo 'tra yatnaḥ // uṣāsā-uṣasaḥ

Sanskrit only: no published translation is held for this verse.

उषसः उषासा इत्य् अयम् आदेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासासूर्यम् । उषासानक्ता ॥ मातर-पितराव् उदीचम्

uṣasaḥ uṣāsā ity ayam ādeśo bhavati devatādvandve uttarapade / uṣāsāsūryam / uṣāsānaktā // mātara-pitarāv udīcam

Sanskrit only: no published translation is held for this verse.

मातरपितरौ इत्य् उदीचामाचार्याणां मतेनारङादेशः मातृशब्दस्य निपत्यते मातरपितरौ । उदीचाम् इति किम् ? मातापितरौ ॥ पितरा-मातरा च च्छन्दसि

mātarapitarau ity udīcāmācāryāṇāṃ matenāraṅādeśaḥ mātṛśabdasya nipatyate mātarapitarau / udīcām iti kim ? mātāpitarau // pitarā-mātarā ca cchandasi

Sanskrit only: no published translation is held for this verse.

स्त्रियाः पुंवद्-भाषीतपुंस्कादनूङ् समानाधिकरणे स्त्रियाम् अपूरणी-प्रियादिषु

striyāḥ puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu

Sanskrit only: no published translation is held for this verse.

भाषितः पुमान् येन समानायामाकृतावेकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः । तदेतदेवं कथं भवति ? भासितः पुमान् यस्मिन्न् अर्थे प्रवृत्तिनिमिते स भाषितपुंस्कशब्देन+उच्यते, तस्य प्रतिपादको यः शब्दः सो ऽपि भासितपुंस्कः ऊङो ऽभावः अनूङ्, भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे स भाषितपुंस्कादनूङ् स्त्रीशब्दः । बहुव्रीहिरयम्, अलुग् निपातनात् पञ्चम्याः । तस्य भासितपुंस्काअदनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति समानाधिकरणे उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते । दर्शनीयभार्यः । शलक्ष्णचूडः । दीर्घजङ्घः । स्त्रिया इति किम् ? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् इति किम् ? खट्वाभार्यः । समानायामाकृतौ इति किम् ? द्रोणीभार्यः । कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्यः इति ? कर्तव्यो ऽत्र यत्नः । अनूङ इति किम् ? ब्रह्मबन्धूभार्यः । समानाधिकरणे इति किम् ? कल्याणा माता कल्यणीमाता । स्त्रियाम् इति किम् ? कल्याणी प्रधानम् एषा कल्याणीप्रधाना इमे । अपूरणी इति किम् ? कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । कल्याणीदशमाः । प्रधानपूरणीग्रहणं कर्तव्यम् । इह मा भूत्, कल्याणीपञ्चमीकः पक्षः इति । अप् पूरणीप्रमाण्योः (*५,४।११६) इत्य् अत्र अपि प्रधानपूरणीग्रहणम् एव इत्य् अप्प्रत्ययो न भवति । अप्रियादिषु इति किम् ? कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्ति । सचिवा । अम्बा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । प्रियादिः । दृढभक्तिः इत्य् एवम् आदिषु स्त्रीपूर्वपदस्य अविवक्षित्वात् सिद्धम् इति समाधेयम् ॥ तसिल्-आदिष्व् आ कृत्वसुचः

bhāṣitaḥ pumān yena samānāyāmākṛtāvekasmin pravṛttinimitte sa bhāṣitapuṃskaḥ śabdaḥ / tadetadevaṃ kathaṃ bhavati ? bhāsitaḥ pumān yasminn arthe pravṛttinimite sa bhāṣitapuṃskaśabdena+ucyate, tasya pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ ūṅo 'bhāvaḥ anūṅ, bhāṣitapuṃskādanūṅ yasmin strīśabde sa bhāṣitapuṃskādanūṅ strīśabdaḥ / bahuvrīhirayam, alug nipātanāt pañcamyāḥ / tasya bhāsitapuṃskāadanūṅaḥ strīśabdasya puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite / darśanīyabhāryaḥ / śalakṣṇacūḍaḥ / dīrghajaṅghaḥ / striyā iti kim ? grāmaṇi brāhmaṇakulaṃ dṛṣṭirasya grāmaṇidṛṣṭiḥ / bhāṣitapuṃskāt iti kim ? khaṭvābhāryaḥ / samānāyāmākṛtau iti kim ? droṇībhāryaḥ / kathaṃ garbhibhāryaḥ, prasūtabhāryaḥ, prajātabhāryaḥ iti ? kartavyo 'tra yatnaḥ / anūṅa iti kim ? brahmabandhūbhāryaḥ / samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā / striyām iti kim ? kalyāṇī pradhānam eṣā kalyāṇīpradhānā ime / apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ tāḥ kalyāṇīpañcamā rātrayaḥ / kalyāṇīdaśamāḥ / pradhānapūraṇīgrahaṇaṃ kartavyam / iha mā bhūt, kalyāṇīpañcamīkaḥ pakṣaḥ iti / ap pūraṇīpramāṇyoḥ (*5,4.116) ity atra api pradhānapūraṇīgrahaṇam eva ity appratyayo na bhavati / apriyādiṣu iti kim ? kalyāṇīpriyaḥ / priyā / manojñā / kalyāṇī / subhagā / durbhagā / bhakti / sacivā / ambā / kāntā / kṣāntā / samā / capalā / duhitā / vāmā / priyādiḥ / dṛḍhabhaktiḥ ity evam ādiṣu strīpūrvapadasya avivakṣitvāt siddham iti samādheyam // tasil-ādiṣv ā kṛtvasucaḥ

Sanskrit only: no published translation is held for this verse.

बह्वीभ्यो देहि । अल्पाभ्यो देहि । बहुशो देहि । अल्पशो देहि । त्वतलोर् गुणवचनस्य पुंवद्भवो वक्तव्यः । पट्व्याः भावः पटुत्वम्, पटुता । गुणवचनस्य इति किम् ? कठ्याः भावः कठित्वम् कठीता । भस्याढे तद्धिते पुंवद्भावो वक्तव्यः । हस्तिनीनां समूहो हास्तिकम् । अढे इति किम् ? श्यैनेयः । रौहिणेयः । कथम् आग्नायी देवता अस्य आग्नेयः स्थालीपाकः इति ? कर्तव्यो ऽत्र यत्नः । ठक्छसोश् च पुंवद्भावो वक्तव्यः । भवत्याः छात्राः भावत्काः । भवदीयाः ॥ क्यङ्-मानिनोश् च

bahvībhyo dehi / alpābhyo dehi / bahuśo dehi / alpaśo dehi / tvatalor guṇavacanasya puṃvadbhavo vaktavyaḥ / paṭvyāḥ bhāvaḥ paṭutvam, paṭutā / guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam kaṭhītā / bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ / hastinīnāṃ samūho hāstikam / aḍhe iti kim ? śyaineyaḥ / rauhiṇeyaḥ / katham āgnāyī devatā asya āgneyaḥ sthālīpākaḥ iti ? kartavyo 'tra yatnaḥ / ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ / bhavatyāḥ chātrāḥ bhāvatkāḥ / bhavadīyāḥ // kyaṅ-māninoś ca

Sanskrit only: no published translation is held for this verse.

क्यङि परतो मानिनि च स्तिर्या भाषितपुंस्काद् अनूङ् पुंवत् भवति । एनी - एतायते । श्येनी-श्येतायते । मानिनि - दर्शनीयमानी अयमस्याः । दर्शनीयमानिनी इयमस्याः । मानिनो ग्रहणम् अस्त्र्यर्थम् असमानाधिकरणार्थं च । इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेण+एव सिद्धम् ॥ न कोपधायाः

kyaṅi parato mānini ca stiryā bhāṣitapuṃskād anūṅ puṃvat bhavati / enī - etāyate / śyenī-śyetāyate / mānini - darśanīyamānī ayamasyāḥ / darśanīyamāninī iyamasyāḥ / mānino grahaṇam astryartham asamānādhikaraṇārthaṃ ca / iha tu darśanīyāmātmānaṃ manyate darśanīyamāninī iti pūrveṇa+eva siddham // na kopadhāyāḥ

Sanskrit only: no published translation is held for this verse.

कोपधायाः स्त्रियाः पुंवद्भावो न भवति । पाचिकाभार्यः । कारिकाभार्यः । मद्रिकाभार्यः । वृजिकाभार्यः । मद्रिकाकल्पा । वृजिकाकल्पा । मद्रिकायते । वृजिकायते । मद्रिकामानिनी । वृजिकामानिनी । वेलिपिकायाः धर्म्यं वैलेपिकम् । कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम् । इह मा भूत्, पाकभार्यः, भेकभार्यः इति ॥ सञ्ज्ञा-पूरण्योश् च

kopadhāyāḥ striyāḥ puṃvadbhāvo na bhavati / pācikābhāryaḥ / kārikābhāryaḥ / madrikābhāryaḥ / vṛjikābhāryaḥ / madrikākalpā / vṛjikākalpā / madrikāyate / vṛjikāyate / madrikāmāninī / vṛjikāmāninī / velipikāyāḥ dharmyaṃ vailepikam / kopadhapratiṣedhe taddhitavugrahaṇaṃ kartavyam / iha mā bhūt, pākabhāryaḥ, bhekabhāryaḥ iti // sañjñā-pūraṇyoś ca

Sanskrit only: no published translation is held for this verse.

वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे

vṛddhinimittasya ca taddhitasyāraktavikāre

Sanskrit only: no published translation is held for this verse.

न इति वर्तते । वृद्धेर् निमित्तं यस्मिन् स वृद्धिनिमित्तः तद्धितः, स यदि रक्ते ऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद् भवति । स्त्रौघ्नीभार्यः । माथुरीभार्यः । स्त्रौघनीपाशा । माथुरीपाशा । सौघनीयते । माथुरीयते । स्त्रौघ्नीमानिनी । माथुरीमानिनीइ । वृद्धिनिमित्तस्य इति किम् ? मध्यमभार्यः । तद्धितस्य इति किम् ? काण्डलावभार्यः । बहुव्रीहिपरिग्रहः कमर्थः ? तावद्भार्यः । यावद्भार्यः । अरक्तविकारे इति किम् ? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायवृहतिकः । लोहस्य विकारो लौहीम् लौही ईषा यस्य रथस्य स लौहेषः । खादिरेषः ॥ स्वाङ्गाच् च+इतो ऽमानिनि

na iti vartate / vṛddher nimittaṃ yasmin sa vṛddhinimittaḥ taddhitaḥ, sa yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya na puṃvad bhavati / straughnībhāryaḥ / māthurībhāryaḥ / straughanīpāśā / māthurīpāśā / saughanīyate / māthurīyate / straughnīmāninī / māthurīmāninīi / vṛddhinimittasya iti kim ? madhyamabhāryaḥ / taddhitasya iti kim ? kāṇḍalāvabhāryaḥ / bahuvrīhiparigrahaḥ kamarthaḥ ? tāvadbhāryaḥ / yāvadbhāryaḥ / araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, kāṣāyī bṛhatikā yasya sa kāṣāyavṛhatikaḥ / lohasya vikāro lauhīm lauhī īṣā yasya rathasya sa lauheṣaḥ / khādireṣaḥ // svāṅgāc ca+ito 'mānini

Sanskrit only: no published translation is held for this verse.

स्वाङ्गाद् उत्तरो य ईकारः तदन्तायाः स्त्रियाः न पुंवद् भवति अमानिनि परतः । दीर्घकेशीभार्यः । श्लक्ष्णकेशीभार्यः । दीर्घकेशीपाशा । श्लक्ष्णकेशीपाशा । दीर्घकेशीयते । श्लक्ष्णकेशीयते । स्वाङ्गात् इति किम् ? पटुभार्यः । ईतः इति किम् ? अकेशभार्यः । अमानिनि इति किम् ? दीर्घकेशमानिनी ॥ जातेश् च

svāṅgād uttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini parataḥ / dīrghakeśībhāryaḥ / ślakṣṇakeśībhāryaḥ / dīrghakeśīpāśā / ślakṣṇakeśīpāśā / dīrghakeśīyate / ślakṣṇakeśīyate / svāṅgāt iti kim ? paṭubhāryaḥ / ītaḥ iti kim ? akeśabhāryaḥ / amānini iti kim ? dīrghakeśamāninī // jāteś ca

Sanskrit only: no published translation is held for this verse.

जातेश् च स्त्रियाः न पुंवद् भवति अमानिनि परतः । कठीभार्यः । बह्वृचिभार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनि इत्य् एव, कठमानिनी । बह्वृचमानिनीइ । अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न+इष्यते । हस्तिनीनां समूहो हास्तिकम् ॥ पुंवत् कर्मधारय-जातीय-देशीयेषु

jāteś ca striyāḥ na puṃvad bhavati amānini parataḥ / kaṭhībhāryaḥ / bahvṛcibhāryaḥ / kaṭhīpāśā / bahvṛcīpāśā / kaṭhīyate / bahvṛcīyate / amānini ity eva, kaṭhamāninī / bahvṛcamāninīi / ayaṃ pratiṣedha aupasaṅkhyānikasya puṃvadbhāvasya na+iṣyate / hastinīnāṃ samūho hāstikam // puṃvat karmadhāraya-jātīya-deśīyeṣu

Sanskrit only: no published translation is held for this verse.

कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्याः अण्डम् कुक्कुटाण्डम् । मृग्याः पदम् मृगपदम् । मृग्याः क्षीरम् मृगक्षीरम् । काक्याः शावः काकशावः । न वा अस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्त्रीत्वेन विना पूर्वपदार्थो ऽत्र जतिः सामान्येन विवक्षितः । पुंवद्भावात् ह्रस्वत्वम् खिद्घादिषु भवति विप्रतिषेधेन । खित् - कालिम्मन्या । हरिणिम्मन्या । घादि - पट्वितरा । पट्वितमा । पट्विरूपा । पट्विकल्पा । क - पट्विका । मृद्विका । इह इडबिड्, दरद्, पृथु, उशिज् इत्य् एते जनपदशब्दाः क्षत्रियवाचिनः, तत्र तद्राजप्रत्ययस्य स्त्रियमतश्च इति लुकि कृते इडबिड्वृन्दारिका इति विगृह्य समासः क्रियते । ततः पुंवद्भवेन ऐडबिडादयः पुंशब्दाः क्रियन्ते । ऐडबिडवृन्दारिका । औशिजवृन्दारिका ॥ घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः

kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ / kukkuṭyāḥ aṇḍam kukkuṭāṇḍam / mṛgyāḥ padam mṛgapadam / mṛgyāḥ kṣīram mṛgakṣīram / kākyāḥ śāvaḥ kākaśāvaḥ / na vā astrīpūrvapadasya vivakṣitatvāt / strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ / puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena / khit - kālimmanyā / hariṇimmanyā / ghādi - paṭvitarā / paṭvitamā / paṭvirūpā / paṭvikalpā / ka - paṭvikā / mṛdvikā / iha iḍabiḍ, darad, pṛthu, uśij ity ete janapadaśabdāḥ kṣatriyavācinaḥ, tatra tadrājapratyayasya striyamataśca iti luki kṛte iḍabiḍvṛndārikā iti vigṛhya samāsaḥ kriyate / tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ kriyante / aiḍabiḍavṛndārikā / auśijavṛndārikā // gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ

Sanskrit only: no published translation is held for this verse.

घ रूप कोप चेलट् ब्रूव गोत्र मत हत इत्य् एतेषू परतो भाषितपुंस्कत् परो यो ङीप्रत्ययस् तदन्तस्य अनेकाचो ह्रस्वो भवति । घ - ब्राह्मणितरा । ब्राह्मणितमा । रूप - ब्राह्मन्णिरूपा । कल्प - ब्राह्मणिकल्पा । चेलट् - ब्राह्मणिचेली । ब्रुव - ब्राह्मणिब्रुवा । गोत्र - ब्राह्मणिगोत्रा । मत - ब्राह्मणिमता । हत - ब्राह्मणिहता । घरूपकल्पाः प्रत्ययाश्चेलडादीन्य् उत्तरपदानि । ब्रौव इति ब्रवीति इति ब्रुवः पचाद्युअचि, वच्यादेशो गुणश् च निपातनान्न भवति । ङ्यः इति किम् ? दत्तातरा । गुप्तातरा । अनेकचः इति किम् ? नद्याः शेषस्य अन्यतरस्याम् (*६,३।४४) इति वक्ष्यति । भाषितपुंस्काद् इत्य् एव, आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्य अन्यतरस्याम्

gha rūpa kopa celaṭ brūva gotra mata hata ity eteṣū parato bhāṣitapuṃskat paro yo ṅīpratyayas tadantasya anekāco hrasvo bhavati / gha - brāhmaṇitarā / brāhmaṇitamā / rūpa - brāhmanṇirūpā / kalpa - brāhmaṇikalpā / celaṭ - brāhmaṇicelī / bruva - brāhmaṇibruvā / gotra - brāhmaṇigotrā / mata - brāhmaṇimatā / hata - brāhmaṇihatā / gharūpakalpāḥ pratyayāścelaḍādīny uttarapadāni / brauva iti bravīti iti bruvaḥ pacādyuaci, vacyādeśo guṇaś ca nipātanānna bhavati / ṅyaḥ iti kim ? dattātarā / guptātarā / anekacaḥ iti kim ? nadyāḥ śeṣasya anyatarasyām (*6,3.44) iti vakṣyati / bhāṣitapuṃskād ity eva, āmalakītarā / kuvalītarā // nadyāḥ śeṣasya anyatarasyām

Sanskrit only: no published translation is held for this verse.

नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम् । कश् च शेषः ? अङी च या नदी ङ्यन्तं च यद् एकच् । ब्रहमबन्धूतरा, ब्रहमबन्धुतरा । वीरबन्धूतरा । वीरबन्धुतरा । स्त्रितरा, स्त्रीतरा । स्त्रितमा, स्त्रीतमा । कृन्नद्याः प्रतिषेधो वक्तव्यः । लक्ष्मीतरा । तन्त्रीतरा ॥ उग्-इतश् च

nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām / kaś ca śeṣaḥ ? aṅī ca yā nadī ṅyantaṃ ca yad ekac / brahamabandhūtarā, brahamabandhutarā / vīrabandhūtarā / vīrabandhutarā / stritarā, strītarā / stritamā, strītamā / kṛnnadyāḥ pratiṣedho vaktavyaḥ / lakṣmītarā / tantrītarā // ug-itaś ca

Sanskrit only: no published translation is held for this verse.

आन्महतः समानाधिकरनजातीययोः

ānmahataḥ samānādhikaranajātīyayoḥ

Sanskrit only: no published translation is held for this verse.

समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परतो महतः आकारादेशो भवति । महादेवः । महाब्राह्मणः । महाबाहुः । महाबलः । जातीये - महाजातीयः । समानाधिकरणजातीययोः इति किम् ? महतः पुत्रः महत्पुत्रः । लक्षणोक्तत्वाद् एव अत्र न भविष्यति इति चेद् बहुव्रीहाव् अपि न स्याद् महाबाहुः इति । तदर्थं समानाधिकरणग्रहणं वक्तव्यम् । अमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमाः इत्य् अत्र गौणत्वान् महदर्थस्य न भवत्यात्वम् । महदात्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थम् । महत्याः घासः महाघासः । महत्याः करः महाकरः । महत्याः विशिष्टः महाविशिष्टः । अष्टनः कपाले हविष्य् उपसङ्ख्यानम् । अष्टकपालं चरुं निर्वपेत् । हविषि इति किम् ? अष्टकपालं ब्राह्मणस्य । गवि च युक्ते ऽष्टन उपसङ्ख्यानं कर्तव्यम् । अष्टागवेन शकटेन । युक्ते इति किम् ? अष्टगवं ब्राह्मणस्य तपरकरणं विस्पष्टार्थम् ॥ द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीह्य्-अशीत्योः

samānādhikaraṇe uttarapade jātīye ca pratyaye parato mahataḥ ākārādeśo bhavati / mahādevaḥ / mahābrāhmaṇaḥ / mahābāhuḥ / mahābalaḥ / jātīye - mahājātīyaḥ / samānādhikaraṇajātīyayoḥ iti kim ? mahataḥ putraḥ mahatputraḥ / lakṣaṇoktatvād eva atra na bhaviṣyati iti ced bahuvrīhāv api na syād mahābāhuḥ iti / tadarthaṃ samānādhikaraṇagrahaṇaṃ vaktavyam / amahān mahān sampanno mahadbhūtaścandramāḥ ity atra gauṇatvān mahadarthasya na bhavatyātvam / mahadātve ghāsakaraviśiṣṭeṣu upasaṅkhyānaṃ puṃvadvacanaṃ ca asamānādhikaraṇārtham / mahatyāḥ ghāsaḥ mahāghāsaḥ / mahatyāḥ karaḥ mahākaraḥ / mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ / aṣṭanaḥ kapāle haviṣy upasaṅkhyānam / aṣṭakapālaṃ caruṃ nirvapet / haviṣi iti kim ? aṣṭakapālaṃ brāhmaṇasya / gavi ca yukte 'ṣṭana upasaṅkhyānaṃ kartavyam / aṣṭāgavena śakaṭena / yukte iti kim ? aṣṭagavaṃ brāhmaṇasya taparakaraṇaṃ vispaṣṭārtham // dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ

Sanskrit only: no published translation is held for this verse.

द्वि अष्टन् इत्य् एतयोः आकारादेशो भवति सङ्ख्यायाम् उत्तरपदे अबहुव्रीह्यशीत्योः । द्वादश । द्वाविंशतिः । द्वात्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । द्व्यष्टनः इति किम् ? पञ्चदश । सङ्ख्यायाम् इति किम् ? द्वैमातुरः । आष्टमातुरः । अबहुव्रीह्यशित्योः इति किम् ? द्वित्राः । त्रिदशाः । द्व्यशीतिः । प्राक् शताद् इति वक्तव्यम् । इह मा भूत्, द्विशतम् । द्विसहस्रम् । अश्टशतम् । अष्टसहस्रम् ॥ त्रेस् त्रयः

dvi aṣṭan ity etayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ / dvādaśa / dvāviṃśatiḥ / dvātriṃśat / aṣṭādaśa / aṣṭāviṃśatiḥ / aṣṭātriṃśat / dvyaṣṭanaḥ iti kim ? pañcadaśa / saṅkhyāyām iti kim ? dvaimāturaḥ / āṣṭamāturaḥ / abahuvrīhyaśityoḥ iti kim ? dvitrāḥ / tridaśāḥ / dvyaśītiḥ / prāk śatād iti vaktavyam / iha mā bhūt, dviśatam / dvisahasram / aśṭaśatam / aṣṭasahasram // tres trayaḥ

Sanskrit only: no published translation is held for this verse.

विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्

vibhāṣā catvāriṃśatprabhṛtau sarveṣām

Sanskrit only: no published translation is held for this verse.

चत्वारिंशत्प्रभृतौ संख्यायाम् उत्तरपदे ऽबहुव्रीह्यशीत्योः सर्वेषाम् द्वि अष्टन् त्रि इत्य् एतेषां यद् उक्तं तद्विभाष भवति । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । त्रिपञ्चाशत्, त्रयःपञ्चाशत् । अष्टपञ्चाशत्, अष्टापञ्चाशत् । प्राक्शतात् इत्य् एव, द्विशतम् । अष्टशतम् । त्रिशतम् ॥ हृदयस्य हृल् लेख-यद्-अण्-लासेषु

catvāriṃśatprabhṛtau saṃkhyāyām uttarapade 'bahuvrīhyaśītyoḥ sarveṣām dvi aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa bhavati / dvicatvāriṃśat, dvācatvāriṃśat / tripañcāśat, trayaḥpañcāśat / aṣṭapañcāśat, aṣṭāpañcāśat / prākśatāt ity eva, dviśatam / aṣṭaśatam / triśatam // hṛdayasya hṛl lekha-yad-aṇ-lāseṣu

Sanskrit only: no published translation is held for this verse.

हृदयस्य हृत् इत्य् अयम् आदेशो भवति लेख यत् अण् लास इत्य् एतेषु परतः । हृदयं लिखति इति हृल्लेखः । यत् - हृदयस्य प्रियम् हृद्यम् । अण् - हृदयस्य इदं हार्दम् । लास - हृदयस्य लासः हृल्लासः । लेख इति अणन्तस्य ग्रहणम् इष्यते । घञि तु हृदयस्य लेखो हृदयलेखः । एतद् एव लेखग्रहणं ज्ञापकम्, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणस्य ॥ वा शोक-ष्यञ्-रोगेषु

hṛdayasya hṛt ity ayam ādeśo bhavati lekha yat aṇ lāsa ity eteṣu parataḥ / hṛdayaṃ likhati iti hṛllekhaḥ / yat - hṛdayasya priyam hṛdyam / aṇ - hṛdayasya idaṃ hārdam / lāsa - hṛdayasya lāsaḥ hṛllāsaḥ / lekha iti aṇantasya grahaṇam iṣyate / ghañi tu hṛdayasya lekho hṛdayalekhaḥ / etad eva lekhagrahaṇaṃ jñāpakam, uttarapadādhikāre pratyayagrahaṇe tadantagrahaṇasya // vā śoka-ṣyañ-rogeṣu

Sanskrit only: no published translation is held for this verse.

शोक स्यञ् रोग इत्य् एतेषु परतः हृदयस्य वा हृदादेशो भवति । हृच्छोकः, हृदयशोकः । ष्यञ् - सौहार्द्यम्, सौहृदयम् । ब्राह्मणादित्वात् ष्यञ् । हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (*७,३।१९) इत्य् उभयपदवृद्धिः । रोगे - हृद्रोगः, हृदयरोगः । हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरम् अस्ति, तेन+एव सिद्धे विकल्पविधानं प्रपञ्चार्थम् ॥ पादस्य पद-आज्य्-आति-ग-उपहतेसु

śoka syañ roga ity eteṣu parataḥ hṛdayasya vā hṛdādeśo bhavati / hṛcchokaḥ, hṛdayaśokaḥ / ṣyañ - sauhārdyam, sauhṛdayam / brāhmaṇāditvāt ṣyañ / hṛdādeśapakṣe hṛdbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavṛddhiḥ / roge - hṛdrogaḥ, hṛdayarogaḥ / hṛdayaśabdena samānārtho hṛcchabdaḥ prakṛtyantaram asti, tena+eva siddhe vikalpavidhānaṃ prapañcārtham // pādasya pada-ājy-āti-ga-upahatesu

Sanskrit only: no published translation is held for this verse.

पादस्य पद इत्य् अयम् आदेशो भवति आजि आति ग उपहत इत्य् एतेषु उत्तरपदेषु । पादाभ्यम् अजति इति पदाजिः । पादाभ्याम् अतति इति पदातिः । अज्यतिभ्यां, पादे च इत्य् औणादिकः इण् प्रत्ययः । तत्र अजेर् वीभवो न भवति अत एव निपातनात् । पादाभ्यां गच्छति इति पदगः । पादेन+उपहतः पदोपहतः । पादशब्दो वृषादित्वाद् आद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि (*६,२।४८) इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति । पदाजिः, पदातिः, पदग इत्य् एतेषु कृत्स्वरेण समासस्य+एव अन्तोदात्तत्वम् ॥ पद् यत्य् अतदर्थे

pādasya pada ity ayam ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu / pādābhyam ajati iti padājiḥ / pādābhyām atati iti padātiḥ / ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ / tatra ajer vībhavo na bhavati ata eva nipātanāt / pādābhyāṃ gacchati iti padagaḥ / pādena+upahataḥ padopahataḥ / pādaśabdo vṛṣāditvād ādyudāttaḥ, tasya sthāne padādeśaḥ upadeśe eva antodātto nipātyate, tena padopahataḥ iti tṛtīyā karmaṇi (*6,2.48) iti pūrvapadaprakṛtisvaratvena antodāttatvaṃ bhavati / padājiḥ, padātiḥ, padaga ity eteṣu kṛtsvareṇa samāsasya+eva antodāttatvam // pad yaty atadarthe

Sanskrit only: no published translation is held for this verse.

हिम-काषि-हतिसु च

hima-kāṣi-hatisu ca

Sanskrit only: no published translation is held for this verse.

हिम काषिन् हति इत्य् एतेषु पादशब्दस्य पद् इत्य् अयम् आदेशो भवति । हिम - पद्धिमम् । काषिन् - अथ पत्काषिणो यन्ति । हति - पद्धतिः ॥ ऋचः शे

hima kāṣin hati ity eteṣu pādaśabdasya pad ity ayam ādeśo bhavati / hima - paddhimam / kāṣin - atha patkāṣiṇo yanti / hati - paddhatiḥ // ṛcaḥ śe

Sanskrit only: no published translation is held for this verse.

ऋक्षम्बन्धिनः पादशब्दस्य शे परतः पद् इत्य् अयम् आदेशो भवति । पच्छो गायत्रीं शंसति । पादं पादं शंसति इति सङ्ख्यैकवचनाच् च वीप्सायाम् (*५,४।४३) इति शस् प्रत्ययः । ऋचः इति किम् ? पादशः कार्षापणं ददाति इति ॥ वा घोषमिश्रशब्देषु

ṛkṣambandhinaḥ pādaśabdasya śe parataḥ pad ity ayam ādeśo bhavati / paccho gāyatrīṃ śaṃsati / pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām (*5,4.43) iti śas pratyayaḥ / ṛcaḥ iti kim ? pādaśaḥ kārṣāpaṇaṃ dadāti iti // vā ghoṣamiśraśabdeṣu

Sanskrit only: no published translation is held for this verse.

घोष मिश्र शब्द इत्य् एतेषु च+उत्तरपदेषु पादस्य वा पद् इत्य् अयम् आदेशो भवति । पद्घोषः, पादघोषः । पन्मिश्रः, पादमिश्रः । पच्छब्दः, पादशब्दः । निष्के च+इति वक्तव्यम् । पन्निष्कः, पादनिष्कः ॥ उदकस्य+उदः सञ्ज्ञायाम्

ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu pādasya vā pad ity ayam ādeśo bhavati / padghoṣaḥ, pādaghoṣaḥ / panmiśraḥ, pādamiśraḥ / pacchabdaḥ, pādaśabdaḥ / niṣke ca+iti vaktavyam / panniṣkaḥ, pādaniṣkaḥ // udakasya+udaḥ sañjñāyām

Sanskrit only: no published translation is held for this verse.

उदकशब्दस्य सञ्ज्ञायां विषये उद इत्य् अयम् आदेशो भवति उत्तरपदे परतः । उदमेघो नाम यस्य औदमेधिः पुत्रः । उदवाहो नाम यस्य औदवहिः पुत्रः । सञ्ज्ञायाम् इति किम् ? उदकगिरिः । सञ्जायाम् उत्तरपदस्य्९अ उ)दकशब्दस्य+उदादेशो भवति इति वक्तव्यम् । लोहितोदः । नीलोदः । क्षीरोदः ॥ पेषम्-वास-वाहन-धिषु च

udakaśabdasya sañjñāyāṃ viṣaye uda ity ayam ādeśo bhavati uttarapade parataḥ / udamegho nāma yasya audamedhiḥ putraḥ / udavāho nāma yasya audavahiḥ putraḥ / sañjñāyām iti kim ? udakagiriḥ / sañjāyām uttarapadasy9a u)dakaśabdasya+udādeśo bhavati iti vaktavyam / lohitodaḥ / nīlodaḥ / kṣīrodaḥ // peṣam-vāsa-vāhana-dhiṣu ca

Sanskrit only: no published translation is held for this verse.

पेषं वास वाहन धि इत्य् एतेषु च+उत्तरपदेसु उदकस्य उद इत्य् अयम् आदेशो भवति । उदपेषं पिनष्टि । स्नेहने पिषः (*३,४।३८) इति णमुल् । वास - उदकस्य वासः उदवासः । वाहन - उदकस्य वाहनः उदवाहनः । उदकं धीयते ऽस्मिन् इति उदधिः ॥ एकहल्-आदौ पूरयितव्ये ऽन्यतरस्याम्

peṣaṃ vāsa vāhana dhi ity eteṣu ca+uttarapadesu udakasya uda ity ayam ādeśo bhavati / udapeṣaṃ pinaṣṭi / snehane piṣaḥ (*3,4.38) iti ṇamul / vāsa - udakasya vāsaḥ udavāsaḥ / vāhana - udakasya vāhanaḥ udavāhanaḥ / udakaṃ dhīyate 'smin iti udadhiḥ // ekahal-ādau pūrayitavye 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

मन्थ-ओदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहेषु च

mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheṣu ca

Sanskrit only: no published translation is held for this verse.

मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्य् एतेषु उत्तरपदेसु उदकस्य उद इत्य् अयम् आदेशो भवति अन्यतरस्याम् । उदकेन मन्थः उदमन्थः, उदकमन्थः । ओदन - उदकेन ओदनः उदौदनः, उदकौदनः । सक्तु - उदकेन सक्तुः उदसक्तुः, उदकसक्तुः । बिन्दु - उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः । वज्र - उदकस्य वज्रः उदवज्रः, उदकवज्रः । भार - उदकं विभर्ति इति उदभारः, उदकभारः । हार - उदकं हरति इति उदहारः, उदकहारः । वीवध - उदकस्य वीवधः उदवीवधः, उदकवीवधः । गाह - उदकं गाहते इति उदगाहः, उदकगाहः ॥ इको ह्रस्वो ऽङ्यो गालवस्य

mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ity eteṣu uttarapadesu udakasya uda ity ayam ādeśo bhavati anyatarasyām / udakena manthaḥ udamanthaḥ, udakamanthaḥ / odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ / saktu - udakena saktuḥ udasaktuḥ, udakasaktuḥ / bindu - udakasya binduḥ udabinduḥ, udakabinduḥ / vajra - udakasya vajraḥ udavajraḥ, udakavajraḥ / bhāra - udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ / hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ / vīvadha - udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ / gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ // iko hrasvo 'ṅyo gālavasya

Sanskrit only: no published translation is held for this verse.

इगन्तस्य अङ्यन्तस्य उत्तरपदे ह्रस्वः भवति गालवस्य आचर्यस्य मतेन अन्यतरस्याम् । ग्रामणिपुत्रः ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः, ब्रह्यबन्धूपुत्रः । इकः इति किम् ? खट्वापादः । मालापादः । अङ्यः इति किम् ? गार्गीपुत्रः । वात्सीपुत्रः । गालवग्रहणं पुजार्थम् । अन्यतरस्याम् इति हि वर्तते । व्य्वस्थितविभषा च+इयम् । तेन+इह न भवति, कारीषगन्धीपुत्रः इति । इयङुवङ्भाविनाम् अव्ययानां च न भवति । श्रीकुलम् । भ्रूकुलम् । काण्दीभूतम् । वृषलीभूतम् । भ्रूकुंसादीनां तु भवत्य् एव । भ्रुकुंसः । भ्रुकुटिः । अपर आह । भ्रुकुंसादीनाम् अकारो भवति इति वक्तव्यम् । भ्रकुंसः । भ्रकुटिः ॥ एक तद्धिते च

igantasya aṅyantasya uttarapade hrasvaḥ bhavati gālavasya ācaryasya matena anyatarasyām / grāmaṇiputraḥ grāmaṇīputraḥ / brahmabandhuputraḥ, brahyabandhūputraḥ / ikaḥ iti kim ? khaṭvāpādaḥ / mālāpādaḥ / aṅyaḥ iti kim ? gārgīputraḥ / vātsīputraḥ / gālavagrahaṇaṃ pujārtham / anyatarasyām iti hi vartate / vyvasthitavibhaṣā ca+iyam / tena+iha na bhavati, kārīṣagandhīputraḥ iti / iyaṅuvaṅbhāvinām avyayānāṃ ca na bhavati / śrīkulam / bhrūkulam / kāṇdībhūtam / vṛṣalībhūtam / bhrūkuṃsādīnāṃ tu bhavaty eva / bhrukuṃsaḥ / bhrukuṭiḥ / apara āha / bhrukuṃsādīnām akāro bhavati iti vaktavyam / bhrakuṃsaḥ / bhrakuṭiḥ // eka taddhite ca

Sanskrit only: no published translation is held for this verse.

एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति । एकस्या आगतम् एकरूप्यम् । एकमयम् । एकस्य भावः एकत्वम् । एकता । उत्तरपदे - एकस्याः क्षीरम् एकक्षीरम् । एकदुग्धम् । लिङ्गविशिष्टस्य ग्रहणम् एकशब्दह्रस्वत्वं प्रयोजयति । अचा हि गृह्यमाणम् अत्र विशेष्यते, न पुनर् अच् गृह्यमाणेन इति ॥ ङ्यापोः सञ्ज्ञाछन्दसोर् बहुलम्

ekaśabdasya taddhite uttarapade hrasvo bhavati / ekasyā āgatam ekarūpyam / ekamayam / ekasya bhāvaḥ ekatvam / ekatā / uttarapade - ekasyāḥ kṣīram ekakṣīram / ekadugdham / liṅgaviśiṣṭasya grahaṇam ekaśabdahrasvatvaṃ prayojayati / acā hi gṛhyamāṇam atra viśeṣyate, na punar ac gṛhyamāṇena iti // ṅyāpoḥ sañjñāchandasor bahulam

Sanskrit only: no published translation is held for this verse.

त्वे च

tve ca

Sanskrit only: no published translation is held for this verse.

त्वप्रत्यये परतो ङ्यापोः बहुलं ह्रस्वो भवति । तदजाया भावः अजत्वम्, अजात्वम् । तद्रोहिण्या भावः रोहिणित्वम्, रोहिणीत्वम् । सञ्ज्ञायाम् असम्भवाच् छन्दस्य् एव+उदाहरणानि भवन्ति ॥ इष्टका-इषीका-मालानां चिततूलभारिषु

tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati / tadajāyā bhāvaḥ ajatvam, ajātvam / tadrohiṇyā bhāvaḥ rohiṇitvam, rohiṇītvam / sañjñāyām asambhavāc chandasy eva+udāharaṇāni bhavanti // iṣṭakā-iṣīkā-mālānāṃ citatūlabhāriṣu

Sanskrit only: no published translation is held for this verse.

इष्टकेषीकामालानां चित तूल भारिन् इत्य् एतेषु उत्तरपदेषु यथासङ्ख्यं ह्रस्वो भवति । इष्टकचितम् । इषीकतूलम् । मालभारिणी कन्या । इष्तकादिभ्यस् तदन्तस्य अपि ग्रहणं भवति । पक्वेष्टकचितम् । मुञ्जेषीकतूलम् । उत्पलमालभारिणी कन्या ॥ खित्य् अनव्ययस्य

iṣṭakeṣīkāmālānāṃ cita tūla bhārin ity eteṣu uttarapadeṣu yathāsaṅkhyaṃ hrasvo bhavati / iṣṭakacitam / iṣīkatūlam / mālabhāriṇī kanyā / iṣtakādibhyas tadantasya api grahaṇaṃ bhavati / pakveṣṭakacitam / muñjeṣīkatūlam / utpalamālabhāriṇī kanyā // khity anavyayasya

Sanskrit only: no published translation is held for this verse.

खिदन्ते उत्तरपदे ऽनव्ययस्य ह्रस्वो भवति । कालिंमन्या । हरिणिम्मन्या । मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनम् अनर्थकं स्यात् । अनव्ययस्य इति किम् ? दोषामन्यमहः । दिवामन्या रात्रिः । अनव्ययस्य इत्य् एतद् एव ज्ञापकम् इह खिदन्तग्रहणस्य ॥ अरुर्-द्विषद्-अजन्तस्य मुम्

khidante uttarapade 'navyayasya hrasvo bhavati / kāliṃmanyā / hariṇimmanyā / mumā hrasvo na bādhyate, anyathā hi hrasvaśāsanam anarthakaṃ syāt / anavyayasya iti kim ? doṣāmanyamahaḥ / divāmanyā rātriḥ / anavyayasya ity etad eva jñāpakam iha khidantagrahaṇasya // arur-dviṣad-ajantasya mum

Sanskrit only: no published translation is held for this verse.

अरुस् द्विषत् इत्य् एतयोर् अजनतानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य । अरुन्तुदः । द्विषन्तपः । अजन्तानाम् - कालिम्मन्या । अरुर्द्विषदजन्तस्य इति किम् ? विद्वन्मन्यः । अनव्ययस्य इत्य् एव, दोषामन्यमहः । दिवामन्या रात्रिः । अन्तग्रहणं किम् ? कृताजन्तकार्यप्रतिपत्त्यर्थम् । अतो ह्रस्वे कृते मुम् भवति ॥ इच एकाचो ऽम्प्रत्ययवच् च

arus dviṣat ity etayor ajanatānāṃ ca khidanta uttarapade mumāgamo bhavati anavyayasya / aruntudaḥ / dviṣantapaḥ / ajantānām - kālimmanyā / arurdviṣadajantasya iti kim ? vidvanmanyaḥ / anavyayasya ity eva, doṣāmanyamahaḥ / divāmanyā rātriḥ / antagrahaṇaṃ kim ? kṛtājantakāryapratipattyartham / ato hrasve kṛte mum bhavati // ica ekāco 'mpratyayavac ca

Sanskrit only: no published translation is held for this verse.

इजन्तस्य एकाचः खिदन्ते उत्तरपदे अमागमो भवति, अम्प्रत्ययवच् च द्वितीयैकवचनवच् च स भवति । अम् इति हि द्विर् आवर्तते । गाम्मन्यः । स्त्रीम्मन्यः, स्त्रियम्मन्यः । श्रियम्मन्यः । भ्रुवम्मन्यः । अम्प्रत्ययवच् च इत्य् अतिदेशात् आत्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति । इचः इति किम् ? त्वङमन्यः । एकाचः इति किम् ? लेखाभ्रुम्मन्याः । अथेह कथं भवितव्यम्, श्रियम् आत्मानं ब्राह्मणकुलं मन्यते इत्य् उपक्रम्य श्रिमन्यम् इति भवितव्यम् इति भाष्ये व्यवस्थितम् ? तत्र+इदं भाष्यकारस्य दर्शनम्, अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम् । तत्र स्वमोर् नपुंसकात् (*७,१।२३) इत्य् अमो लुग् भवति ॥ वाचंयम-पुरन्दरौ च

ijantasya ekācaḥ khidante uttarapade amāgamo bhavati, ampratyayavac ca dvitīyaikavacanavac ca sa bhavati / am iti hi dvir āvartate / gāmmanyaḥ / strīmmanyaḥ, striyammanyaḥ / śriyammanyaḥ / bhruvammanyaḥ / ampratyayavac ca ity atideśāt ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti / icaḥ iti kim ? tvaṅamanyaḥ / ekācaḥ iti kim ? lekhābhrummanyāḥ / atheha kathaṃ bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? tatra+idaṃ bhāṣyakārasya darśanam, atra viṣaye parityaktasvaliṅgaḥ śrīśabdo brāhmaṇakule vartate, yathā praṣṭhādayaḥ striyām / tatra svamor napuṃsakāt (*7,1.23) ity amo lug bhavati // vācaṃyama-purandarau ca

Sanskrit only: no published translation is held for this verse.

कारे सत्य-अगदस्य

kāre satya-agadasya

Sanskrit only: no published translation is held for this verse.

श्येन-तिलस्य पाते ञे

śyena-tilasya pāte ñe

Sanskrit only: no published translation is held for this verse.

श्येन तिल इत्य् एतयोः पातशब्दे उत्तरपदे ञप्रत्यये परे मुमागमो भवति । श्येनपातो ऽस्यां क्रीडायाम् श्यैनम्पाता । तैलम्पाता । ञे इति किम् ? श्येनपातः ॥ रात्रेः कृति विभाषा

śyena tila ity etayoḥ pātaśabde uttarapade ñapratyaye pare mumāgamo bhavati / śyenapāto 'syāṃ krīḍāyām śyainampātā / tailampātā / ñe iti kim ? śyenapātaḥ // rātreḥ kṛti vibhāṣā

Sanskrit only: no published translation is held for this verse.

रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति । रात्रिञ्चरः, रात्रिचरः । रात्रिमटः, रात्र्यटः । अप्राप्तविभाषा इयम् । खिति हि नित्यं मुम् भवति । रत्रिम्मन्यः ॥ नलोपो नञः

rātreḥ kṛdanta uttarapade vibhāṣā mumāgamo bhavati / rātriñcaraḥ, rātricaraḥ / rātrimaṭaḥ, rātryaṭaḥ / aprāptavibhāṣā iyam / khiti hi nityaṃ mum bhavati / ratrimmanyaḥ // nalopo nañaḥ

Sanskrit only: no published translation is held for this verse.

नञो नकारस्य लोपो भवति उत्तरपदे । अब्राह्मणः । अवृषलः । असुरापः । असोमपः । नञो नलोपे ऽवक्षेपे तिङ्य् उपसङ्ख्यानं कर्तव्यम् । अपचसि त्वं जाल्म । अकरोषि त्वं जाल्म ॥ तस्मान् नुड् अचि

naño nakārasya lopo bhavati uttarapade / abrāhmaṇaḥ / avṛṣalaḥ / asurāpaḥ / asomapaḥ / naño nalope 'vakṣepe tiṅy upasaṅkhyānaṃ kartavyam / apacasi tvaṃ jālma / akaroṣi tvaṃ jālma // tasmān nuḍ aci

Sanskrit only: no published translation is held for this verse.

तस्माल् लुप्तनकारान् नञः नुडागमो भवति अजादव् उत्तरपदे । अनजः । अनश्वः । तस्मात् इति किम् ? नञ एव हि स्यात् । पूर्वान्ते हि ङमो ह्रस्वाद् अचि ङ्मुण् नित्यम् (*८,३।३२) इति प्राप्नोति ॥ नभ्राण्-नपान्-नवेदा-नासत्या-नमुचि-नकुल-नख-नपुंसक-नक्षत्र-नक्र-नाकेषु प्रकृत्या

tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādav uttarapade / anajaḥ / anaśvaḥ / tasmāt iti kim ? naña eva hi syāt / pūrvānte hi ṅamo hrasvād aci ṅmuṇ nityam (*8,3.32) iti prāpnoti // nabhrāṇ-napān-navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu prakṛtyā

Sanskrit only: no published translation is held for this verse.

एकादिश् च+एकस्य च आदुक्

ekādiś ca+ekasya ca āduk

Sanskrit only: no published translation is held for this verse.

एकादिश् च नञ् प्रकृत्या भवति, एकशब्दस्य च आदुक् आगमो भवति । एकेन न विंशतिः कान्नविंशतिः । एकान्नत्रिंशत् । तृतीया इति योगविभागात् समासः । पूर्वान्तो ऽयम् आदुक् क्रियते पदान्तलक्षणो ऽत्र अनुनासिको विकल्पेन यथा स्यात् इति ॥ नगो ऽप्राणिष्व् अन्यतरस्याम्

ekādiś ca nañ prakṛtyā bhavati, ekaśabdasya ca āduk āgamo bhavati / ekena na viṃśatiḥ kānnaviṃśatiḥ / ekānnatriṃśat / tṛtīyā iti yogavibhāgāt samāsaḥ / pūrvānto 'yam āduk kriyate padāntalakṣaṇo 'tra anunāsiko vikalpena yathā syāt iti // nago 'prāṇiṣv anyatarasyām

Sanskrit only: no published translation is held for this verse.

नञ् प्रकृत्या भवति अन्यतरस्याम् । नगा वृक्षाः, अगा वृक्षाः । नगाः पर्वताः, अगाः पर्वताः । न गच्छन्ति इति नगाः । गमेर्डप्रत्ययः । अप्राणिषु इति किम् ? अगो वृषलः शीतेन ॥ सहस्य सः सञ्ज्ञायाम्

nañ prakṛtyā bhavati anyatarasyām / nagā vṛkṣāḥ, agā vṛkṣāḥ / nagāḥ parvatāḥ, agāḥ parvatāḥ / na gacchanti iti nagāḥ / gamerḍapratyayaḥ / aprāṇiṣu iti kim ? ago vṛṣalaḥ śītena // sahasya saḥ sañjñāyām

Sanskrit only: no published translation is held for this verse.

सहशब्दस्य स इत्य् अयम् आदेशो भवति सञ्ज्ञायां विषये । साश्वत्थम् । सपलाशम् । सशिंशपम् । सञ्ज्ञायाम् इति किम् ? सहयुध्वा । सहकृत्वा । सादेश उदात्तो निपात्यते । उदात्तानुदात्तवतो हि सहशब्दस्य अन्तर्यतः स्वरितः स्यात् । सनिपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते । अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव, सेष्टि, सपशुबन्धम् इति ॥ ग्रन्थान्त-अधिके च

sahaśabdasya sa ity ayam ādeśo bhavati sañjñāyāṃ viṣaye / sāśvattham / sapalāśam / saśiṃśapam / sañjñāyām iti kim ? sahayudhvā / sahakṛtvā / sādeśa udātto nipātyate / udāttānudāttavato hi sahaśabdasya antaryataḥ svaritaḥ syāt / sanipātanasvaraḥ pūrvapadaprakṛtisvaratvaṃ yatra tatra upayujyate / anyatra samāsāntodāttatvena bādhyata eva, seṣṭi, sapaśubandham iti // granthānta-adhike ca

Sanskrit only: no published translation is held for this verse.

ग्रन्थान्ते अधिके च वर्तमानस्य सहशब्दस्य स इत्य् अयम् आदेशो भवति । सकलं ज्यौतिषमधीते । समुहूर्तम् । ससङ्ग्रहं व्याकरणम् अधीयते । कलान्तं, महूर्तान्तं, सङ्ग्रहान्तम् इति अन्तवचने इत्य् अव्ययीभावः समासः । तत्र अव्ययीभावे चाकाले इति कालवाचिन्य् उत्तरपदे समासो न प्राप्नोति इत्य् अयम् आरम्भः । अधिके - सद्रोणा खारी । समाषः कार्षापणः । सकाकिणीको माषः ॥ द्वितीये च अनुपाख्ये

granthānte adhike ca vartamānasya sahaśabdasya sa ity ayam ādeśo bhavati / sakalaṃ jyautiṣamadhīte / samuhūrtam / sasaṅgrahaṃ vyākaraṇam adhīyate / kalāntaṃ, mahūrtāntaṃ, saṅgrahāntam iti antavacane ity avyayībhāvaḥ samāsaḥ / tatra avyayībhāve cākāle iti kālavāciny uttarapade samāso na prāpnoti ity ayam ārambhaḥ / adhike - sadroṇā khārī / samāṣaḥ kārṣāpaṇaḥ / sakākiṇīko māṣaḥ // dvitīye ca anupākhye

Sanskrit only: no published translation is held for this verse.

द्वयोः सहयुक्तयोर् अप्रधानो यः स द्वितीयः । उपाख्यायते प्रत्यक्षत उपलभ्यते यः स उपाख्यः । उपाख्यादन्यः अनुपाख्यः अनुमेयः । तस्मिन् द्वितीये ऽनुपाख्ये सहस्य स इत्य् अयम् आदेशो भवति । साग्निः कपोतः । सपिशाचा वात्या । सराक्षसीका शाला । अग्न्यादयः साक्षाद् अनुपलभ्यमानाः कपोतादिभिर् अनुमीयमानाः अनुपाख्या भवन्ति ॥ अव्ययीभावे चाकाले

dvayoḥ sahayuktayor apradhāno yaḥ sa dvitīyaḥ / upākhyāyate pratyakṣata upalabhyate yaḥ sa upākhyaḥ / upākhyādanyaḥ anupākhyaḥ anumeyaḥ / tasmin dvitīye 'nupākhye sahasya sa ity ayam ādeśo bhavati / sāgniḥ kapotaḥ / sapiśācā vātyā / sarākṣasīkā śālā / agnyādayaḥ sākṣād anupalabhyamānāḥ kapotādibhir anumīyamānāḥ anupākhyā bhavanti // avyayībhāve cākāle

Sanskrit only: no published translation is held for this verse.

वा+उपसर्जनस्य

vā+upasarjanasya

Sanskrit only: no published translation is held for this verse.

उपसर्जनसर्वावयवः समासः उपसर्जनम् । यस्य सर्वे ऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर् गृह्यते । तदवयवस्य सहशब्दस्य वा स इत्य् अयम् आदेशो भवति । सपुत्रः, सहपुत्रः । सच्छात्रः, सहच्छात्रः । उपसर्जनस्य इति किम् ? सहयुध्वा । सहकृत्वा । सहकृत्वप्रियः, प्रियसहकृत्वा इति इह बहुव्रीहौ यद् उत्तरपदं तत् परः सहशब्दो न भवति इति सभावो न भवति ॥ प्रकृत्या आशिष्य् अगो-वत्स-हलेषु

upasarjanasarvāvayavaḥ samāsaḥ upasarjanam / yasya sarve 'vayavā upasarjanībhūtāḥ sa sarvopasarjano bahuvrīhir gṛhyate / tadavayavasya sahaśabdasya vā sa ity ayam ādeśo bhavati / saputraḥ, sahaputraḥ / sacchātraḥ, sahacchātraḥ / upasarjanasya iti kim ? sahayudhvā / sahakṛtvā / sahakṛtvapriyaḥ, priyasahakṛtvā iti iha bahuvrīhau yad uttarapadaṃ tat paraḥ sahaśabdo na bhavati iti sabhāvo na bhavati // prakṛtyā āśiṣy ago-vatsa-haleṣu

Sanskrit only: no published translation is held for this verse.

प्रकृत्या सहशब्दो भवति आशिषि विषये अगोवत्सहलेषु । स्वस्ति देवत्ताय सहपुत्राय सहच्छात्राय सहामात्याय । अगोवत्सहलेषु इति किम् ? स्वस्ति भवते सहगवे, सगवे । सहवत्साय, सवत्साय । सहहलाय, सहलाय । वोपसर्जनस्य (*६,३।८२) इति पक्षे भवत्य् एव सह्बावः ॥ समानस्य छन्दस्य् अपूर्ध-प्रभृत्य्-उदर्केषु

prakṛtyā sahaśabdo bhavati āśiṣi viṣaye agovatsahaleṣu / svasti devattāya sahaputrāya sahacchātrāya sahāmātyāya / agovatsahaleṣu iti kim ? svasti bhavate sahagave, sagave / sahavatsāya, savatsāya / sahahalāya, sahalāya / vopasarjanasya (*6,3.82) iti pakṣe bhavaty eva sahbāvaḥ // samānasya chandasy apūrdha-prabhṛty-udarkeṣu

Sanskrit only: no published translation is held for this verse.

स इति वर्तते । समानस्य स इत्य् अयम् आदेशो भवति छन्दसि विषये मूर्धन् प्रभृति उदकम् इत्य् एतानि उत्तरपदानि वर्जयित्वा । अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्यः । समानो गर्भः सगर्भः, तत्र भवः सगर्थ्यः । सगर्भसयूथसनुताद् यत् (*४,४।११४) इति यत्प्रत्ययः । अमूर्धप्रभृत्युदर्केषु इति किम् ? समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते । तेन सपक्षः, साधर्म्यम्, सजातीयः इत्य् एवम् आदयः सिद्धाः भवन्ति ॥ ज्योतिर्-जनपद-रात्रि-नाभि-नाम-गोत्र-रूप-स्थान-वर्ण-वर्यो-वचन-बन्धुषु

sa iti vartate / samānasya sa ity ayam ādeśo bhavati chandasi viṣaye mūrdhan prabhṛti udakam ity etāni uttarapadāni varjayitvā / anubhrātā sagarbhyaḥ / anusakhā sayūthyaḥ / yo naḥ sanutyaḥ / samāno garbhaḥ sagarbhaḥ, tatra bhavaḥ sagarthyaḥ / sagarbhasayūthasanutād yat (*4,4.114) iti yatpratyayaḥ / amūrdhaprabhṛtyudarkeṣu iti kim ? samānamūrdhā / samānaprabhṛtayaḥ / samānodarkāḥ / samānasya iti yogavibhāga iṣṭaprasiddhyarthaḥ kriyate / tena sapakṣaḥ, sādharmyam, sajātīyaḥ ity evam ādayaḥ siddhāḥ bhavanti // jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu

Sanskrit only: no published translation is held for this verse.

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्य् एतेषु उत्तरपदेषु समानस्य स इत्य् अयम् आदेशो भवति । सज्योतिः । सजनपदः । सरात्रिः । सनाभिः । सनामा । सगोत्रः । सरूपः । सस्थानः सवर्णः । सवयाः । सवचनः । सबन्धुः ॥ चरणे ब्रह्मचारिणि

jyotis janapada rātri nābhi nāman gotra rūpa sthāna varṇa vayas vacana bandhu ity eteṣu uttarapadeṣu samānasya sa ity ayam ādeśo bhavati / sajyotiḥ / sajanapadaḥ / sarātriḥ / sanābhiḥ / sanāmā / sagotraḥ / sarūpaḥ / sasthānaḥ savarṇaḥ / savayāḥ / savacanaḥ / sabandhuḥ // caraṇe brahmacāriṇi

Sanskrit only: no published translation is held for this verse.

चरणे गम्यमाने ब्रह्मचारिणि उत्तरपदे समानस्य स इत्य् अयम् आदेशो भवति । समानो ब्रह्मचारी सब्रहमचारी । ब्रह्म वेदः, तदध्ययनार्थं यद् व्रतं तद् अपि ब्रह्म, तच् चरति इति ब्रहमचारी । समानः तस्य+एव ब्रह्मणेः समानत्वद् इत्य् अयम् अर्थो भवति । समाने ब्रह्मणि व्रतचरी सब्रह्मचरी इति ॥ तीर्थे ये

caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ity ayam ādeśo bhavati / samāno brahmacārī sabrahamacārī / brahma vedaḥ, tadadhyayanārthaṃ yad vrataṃ tad api brahma, tac carati iti brahamacārī / samānaḥ tasya+eva brahmaṇeḥ samānatvad ity ayam artho bhavati / samāne brahmaṇi vratacarī sabrahmacarī iti // tīrthe ye

Sanskrit only: no published translation is held for this verse.

विभाषा+उदरे

vibhāṣā+udare

Sanskrit only: no published translation is held for this verse.

उदरशब्दे उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्य् अयम् आदेशो भवति । सोदर्यः, समानोदर्यः । समानोदरे शयित ओ च+उदात्तः (*४,४।१०८) इति यत् ॥ दृग्-दृश-वतुषु

udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa ity ayam ādeśo bhavati / sodaryaḥ, samānodaryaḥ / samānodare śayita o ca+udāttaḥ (*4,4.108) iti yat // dṛg-dṛśa-vatuṣu

Sanskrit only: no published translation is held for this verse.

दृक् दृश वतु इत्य् एतेषु परतः समानस्य स इत्य् अयम् आदेशो भवति । सदृक् । सदृशः । त्यदादिषु दृशो ऽनालोचने कञ्च (*३,२।६०) इत्य् अत्र समानान्ययोश्चेति वक्तव्यम् इति कञ्क्विनौ प्रत्ययौ क्रियेते । दृक्षे चेति वक्तव्यम् । सदृक्षः । दृशेः क्षप्रत्ययो ऽपि तत्र+एव वक्तव्यः । वतुग्रहणम् उत्तरार्थम् ॥ इदं किमोर् ईश्की

dṛk dṛśa vatu ity eteṣu parataḥ samānasya sa ity ayam ādeśo bhavati / sadṛk / sadṛśaḥ / tyadādiṣu dṛśo 'nālocane kañca (*3,2.60) ity atra samānānyayośceti vaktavyam iti kañkvinau pratyayau kriyete / dṛkṣe ceti vaktavyam / sadṛkṣaḥ / dṛśeḥ kṣapratyayo 'pi tatra+eva vaktavyaḥ / vatugrahaṇam uttarārtham // idaṃ kimor īśkī

Sanskrit only: no published translation is held for this verse.

इदं किम् इत्य् एतयोर् ईश् की इत्य् एतौ यथासङ्ख्यम् आदेशौ भवतो दृग्दृशवतुषु । ईदृक् । ईदृशः । इयान् । कीदृक् । कीदृशः । कियान् । किमिंदंभ्यां वो घः (*५,२।४०) इति वतुप् । दृक्षे चेति वक्तव्यम् । ईदृक्षः । कीदृक्षः ॥ आ सर्वनाम्नः

idaṃ kim ity etayor īś kī ity etau yathāsaṅkhyam ādeśau bhavato dṛgdṛśavatuṣu / īdṛk / īdṛśaḥ / iyān / kīdṛk / kīdṛśaḥ / kiyān / kimiṃdaṃbhyāṃ vo ghaḥ (*5,2.40) iti vatup / dṛkṣe ceti vaktavyam / īdṛkṣaḥ / kīdṛkṣaḥ // ā sarvanāmnaḥ

Sanskrit only: no published translation is held for this verse.

विष्वग्-देवयोश् च टेर् अद्र्य् अञ्चतौ वप्रत्यये

viṣvag-devayoś ca ṭer adry añcatau vapratyaye

Sanskrit only: no published translation is held for this verse.

विष्वक् देव इत्य् एतयोः सर्वनाम्नश् च टेः अद्रि इत्य् अयम् आदेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे । दिष्वग् अज्चति इति विष्वद्र्यङ् । देवद्र्यङ् । सर्वनाम्नः - तद्र्यङ् । यद्र्यङ् अद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । तत्र यणादेशे कृते उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य (*८,२।४) इत्य् एष स्वरो भवति । विष्वग्देवयोः इति किम् ? अश्वाची । अञ्चतौ इति किम् ? विष्वग्युक् । वप्रत्यये इति किम् ? विष्वगञ्चनम् । वप्रत्ययग्रहणम् अन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम् । तेन अयस्कृतम्, अयस्कारः इत्य् अत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति । छन्दसि स्त्रियां बहुलम् इति वक्तव्यम् । विश्वाई च घृताची च इत्य् अत्र न भवति । कद्रीची इत्य् अत्र तु भवत्य् एव ॥ समः समि

viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati añcatau vapratyayānte uttarapade / diṣvag ajcati iti viṣvadryaṅ / devadryaṅ / sarvanāmnaḥ - tadryaṅ / yadryaṅ adrisaghryorantodāttanipātanaṃ kṛtsvaranivṛttyartham / tatra yaṇādeśe kṛte udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati / viṣvagdevayoḥ iti kim ? aśvācī / añcatau iti kim ? viṣvagyuk / vapratyaye iti kim ? viṣvagañcanam / vapratyayagrahaṇam anyatra dhātugrahaṇe tadādividhipratipattyartham / tena ayaskṛtam, ayaskāraḥ ity atra ataḥ kṛkamikaṃsakumbhapātra iti satvaṃ bhavati / chandasi striyāṃ bahulam iti vaktavyam / viśvāī ca ghṛtācī ca ity atra na bhavati / kadrīcī ity atra tu bhavaty eva // samaḥ sami

Sanskrit only: no published translation is held for this verse.

सम् इत्य् एतस्य समि इत्य् अयम् आदेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे । सम्यक्, सम्यञ्चौ, सम्यञ्चः ॥ तिरसस् तिर्य् अलोपे

sam ity etasya sami ity ayam ādeśo bhavati añcatau vapratyayante uttarapade / samyak, samyañcau, samyañcaḥ // tirasas tiry alope

Sanskrit only: no published translation is held for this verse.

तिरस् इत्य् एतस्य तिरि इत्य् अयम् आदेशो भवति अञ्चाउ वप्रत्ययान्ते उत्तरपदे ऽलोपे, यदा अस्य लोपो न भवति । तिर्यक्, तिर्यञ्चौ, तिर्यञ्चः । अलोपे इति किम् ? तिरश्चा । तिरश्चे । अचः इत्य् अकारलोपः ॥ सहस्य सध्रिः

tiras ity etasya tiri ity ayam ādeśo bhavati añcāu vapratyayānte uttarapade 'lope, yadā asya lopo na bhavati / tiryak, tiryañcau, tiryañcaḥ / alope iti kim ? tiraścā / tiraśce / acaḥ ity akāralopaḥ // sahasya sadhriḥ

Sanskrit only: no published translation is held for this verse.

सह इत्य् एतस्य सघ्रिः इत्य् अयम् आदेशो भवति अञ्चतौ वप्रत्यान्ते उत्तरपदे । सघ्र्यङ् सघ्र्यज्चौ, सघ्र्यञ्चः । सघ्रीचः । सघ्रीचा ॥ सध माद-स्थयोश् छन्दसि

saha ity etasya saghriḥ ity ayam ādeśo bhavati añcatau vapratyānte uttarapade / saghryaṅ saghryajcau, saghryañcaḥ / saghrīcaḥ / saghrīcā // sadha māda-sthayoś chandasi

Sanskrit only: no published translation is held for this verse.

द्व्य्-अन्तर्-उपसर्गेभ्यो ऽप ईत्

dvy-antar-upasargebhyo 'pa īt

Sanskrit only: no published translation is held for this verse.

ऊद् अनोर् देशे

ūd anor deśe

Sanskrit only: no published translation is held for this verse.

अनोर् उत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने । अनूपो देशः । देशे इति किम् ? अन्वीपम् । दीर्घोच्चारणम् अवग्रहार्थम्, अनु ऊपः अनूपः इति ॥ अषष्थ्य्-अतृतीयास्थस्य अनयस्य दुग् आशीर्-आशा-आस्था-आस्थित-उत्सुक-ऊति-कारक-राग-च्छेषु

anor uttarasya apaḥ ūkārādeśo bhavati deśābhidhāne / anūpo deśaḥ / deśe iti kim ? anvīpam / dīrghoccāraṇam avagrahārtham, anu ūpaḥ anūpaḥ iti // aṣaṣthy-atṛtīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti-kāraka-rāga-ccheṣu

Sanskrit only: no published translation is held for this verse.

अषष्थीस्थस्य अतृतीयास्थस्य च अन्यशब्दस्य दुगागमो भवति आशिस् आशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्य् एतेषु परतः । अन्या आशीः अन्यदाशीः । अन्या आशा अन्यदाशा । अन्या आस्था अन्यदास्था । अन्य आस्थितः अन्यदास्थितः । अन्य उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यदूतिः । अन्यः कारकः अन्यत्कारकः । अन्यः रागः अन्यद्रागः । अन्यस्मिन् भवः अन्यदीयः । गहादिष्व् अन्यशब्दो द्रष्टव्यः । अषष्ठ्यतृतीयास्थस्य इति किम् ? अन्यस्य आशीः अन्याशीः । अन्येन आस्थितः अन्यास्थितः । दुगागमो ऽविशेषेण वक्तव्यः कारकच्छयोः । षष्ठीतृतीययोर् नेष्ट आशीरादिषु सप्तसु ॥ अन्यस्य कारकम् अन्यत्कारकम् । अन्यस्य इदम् अन्यदीयम् । अस्य च द्विर्नञ्ग्रहणं लिङ्गम् ॥ अर्थे विभाषा

aṣaṣthīsthasya atṛtīyāsthasya ca anyaśabdasya dugāgamo bhavati āśis āśā āsthā āsthita utsuka ūti kāraka rāga cha ity eteṣu parataḥ / anyā āśīḥ anyadāśīḥ / anyā āśā anyadāśā / anyā āsthā anyadāsthā / anya āsthitaḥ anyadāsthitaḥ / anya utsukaḥ anyadutsukaḥ / anyā ūtiḥ anyadūtiḥ / anyaḥ kārakaḥ anyatkārakaḥ / anyaḥ rāgaḥ anyadrāgaḥ / anyasmin bhavaḥ anyadīyaḥ / gahādiṣv anyaśabdo draṣṭavyaḥ / aṣaṣṭhyatṛtīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ / anyena āsthitaḥ anyāsthitaḥ / dugāgamo 'viśeṣeṇa vaktavyaḥ kārakacchayoḥ / ṣaṣṭhītṛtīyayor neṣṭa āśīrādiṣu saptasu // anyasya kārakam anyatkārakam / anyasya idam anyadīyam / asya ca dvirnañgrahaṇaṃ liṅgam // arthe vibhāṣā

Sanskrit only: no published translation is held for this verse.

अर्थशदे उत्तरपदे अन्यस्य विभाषा दुगागमो भवति । अन्यदर्थः, अन्यार्थः ॥ कोः कत् तत्पुरुषे ऽचि

arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati / anyadarthaḥ, anyārthaḥ // koḥ kat tatpuruṣe 'ci

Sanskrit only: no published translation is held for this verse.

रथ-वदयोश् च

ratha-vadayoś ca

Sanskrit only: no published translation is held for this verse.

रथ वद इत्य् एतयोश् च+उत्तरपदयोः कोः कत् इत्य् अयम् आदेशो भवति । कद्रथः । कद्वदः ॥ दृणे च जातौ

ratha vada ity etayoś ca+uttarapadayoḥ koḥ kat ity ayam ādeśo bhavati / kadrathaḥ / kadvadaḥ // dṛṇe ca jātau

Sanskrit only: no published translation is held for this verse.

दृणशब्दे उत्तरपदे जाताव् अभिधेयायां कोः कत् इत्य् आदेशो भवति । कत्तृणा नाम जातिः । जातौ इति किम् ? कुत्सितानि तृणानि कुतृणानि ॥ का पथ्य्-अक्षयोः

dṛṇaśabde uttarapade jātāv abhidheyāyāṃ koḥ kat ity ādeśo bhavati / kattṛṇā nāma jātiḥ / jātau iti kim ? kutsitāni tṛṇāni kutṛṇāni // kā pathy-akṣayoḥ

Sanskrit only: no published translation is held for this verse.

पथिन् अक्ष इत्य् एतयोर् उत्तरपदयोः कोः का इत्य् अयम् आदेशो भवति । कापथः । काक्षः ॥ ईषदर्थे च

pathin akṣa ity etayor uttarapadayoḥ koḥ kā ity ayam ādeśo bhavati / kāpathaḥ / kākṣaḥ // īṣadarthe ca

Sanskrit only: no published translation is held for this verse.

ईषदर्थे वर्तमानस्य कोः का इत्य् अयम् आदेशो भवति । कामधुरम् । कालवणम् । अजादाव् अपि परत्वात् कादेश एव भवति । काम्लम् । कोष्णम् ॥ विभाषा पुरुषे

īṣadarthe vartamānasya koḥ kā ity ayam ādeśo bhavati / kāmadhuram / kālavaṇam / ajādāv api paratvāt kādeśa eva bhavati / kāmlam / koṣṇam // vibhāṣā puruṣe

Sanskrit only: no published translation is held for this verse.

पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्य् अयम् आदेशो भवति । कापुरुषः, कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति । ईषत् पुरुषः कापुरुषः ॥ कवञ्चोष्णे

puruṣaśabde uttarapade vibhāṣā koḥ kā ity ayam ādeśo bhavati / kāpuruṣaḥ, kupuruṣaḥ / aprāptavibhāṣeyam / īṣadarthe tu pūrvavipratiṣedhena nityaṃ kā bhavati / īṣat puruṣaḥ kāpuruṣaḥ // kavañcoṣṇe

Sanskrit only: no published translation is held for this verse.

उष्णशब्दे उत्तरपदे कोः कवम् इत्य् अयम् आदेशो भवति, का च विभाषा । कवोष्णम्, कोष्णम्, कदुष्णम् ॥ पथि च च्छन्दसि

uṣṇaśabde uttarapade koḥ kavam ity ayam ādeśo bhavati, kā ca vibhāṣā / kavoṣṇam, koṣṇam, kaduṣṇam // pathi ca cchandasi

Sanskrit only: no published translation is held for this verse.

पृषोदर-आदीनि यथोपदिष्टम्

pṛṣodara-ādīni yathopadiṣṭam

Sanskrit only: no published translation is held for this verse.

स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम् । जाय एहि सुवो रोहाव । पीवोपवसनादीनां च लोपो वक्तव्यः । पीवोपवसनानाम् । पयोपवसनानाम् । वर्णागमो वर्णविपर्ययश् च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ सङ्ख्या-वि-साय-पूर्वस्य अह्नस्य अहन्न् अन्यतरस्यां ङौ

svaro rohatau chandasyutvaṃ vaktavyam / jāya ehi suvo rohāva / pīvopavasanādīnāṃ ca lopo vaktavyaḥ / pīvopavasanānām / payopavasanānām / varṇāgamo varṇaviparyayaś ca dvau cāparau varṇavikāranāśau / dhātostadarthātiśayena yogastaducyate pañcavidhaṃ niruktam // saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau

Sanskrit only: no published translation is held for this verse.

सङ्ख्या वि साय इत्य् एवंपूर्वस्य अह्नशब्दस्य स्थाने अहन् इत्य् अयम् आदेशो भवत्य् अन्यतरस्यां ङौ परतः । द्वयोर् अह्नोर् भवः द्व्यह्नः । त्र्यह्नः । द्व्यह्नि, द्व्यहनि । त्र्यह्नि, त्र्यहनि । द्व्यह्ने । त्र्यह्ने । व्यपगतमहः व्यह्नः । व्यह्नि, व्यहनि, व्यह्ने । सायमह्नः सायाह्नः । सायाह्नि, सायाहनि, सायाह्ने । एकदेशिसमासः पूर्वादिभ्यो ऽन्यस्य अपि भवति इत्य् एतद् एव विसायपूर्वस्य अह्नस्य ग्रहणं ज्ञापकम् । तेन मध्यमह्नः मध्याह्नः इत्य् अपि भवति । सङ्ख्याविसायपूर्वस्य इति किम् ? पूर्वाह्णे । अपराह्णे ॥ ढ्रलोपे पूर्वस्य दीर्घो ऽणः

saṅkhyā vi sāya ity evaṃpūrvasya ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ ṅau parataḥ / dvayor ahnor bhavaḥ dvyahnaḥ / tryahnaḥ / dvyahni, dvyahani / tryahni, tryahani / dvyahne / tryahne / vyapagatamahaḥ vyahnaḥ / vyahni, vyahani, vyahne / sāyamahnaḥ sāyāhnaḥ / sāyāhni, sāyāhani, sāyāhne / ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ity etad eva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam / tena madhyamahnaḥ madhyāhnaḥ ity api bhavati / saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe / aparāhṇe // ḍhralope pūrvasya dīrgho 'ṇaḥ

Sanskrit only: no published translation is held for this verse.

ढकाररेफयोः लोपः यस्मिन् स ढ्रलोपः, तत्र पूर्वस्य अणः दीर्घो भवति । लीढम् । मीढम् । उपगूढम् । मूढः । रलोपे - नीरक्तम् । अग्नीरथः । इन्दूरथः । पुना रक्तं वासः । प्राता राजक्रयः । पूर्वग्रहणम् अनुत्तरपदे ऽपि पूर्वमात्रस्य दीर्घार्थम् । अणः इति किम् ? आतृढम् । आवृढम् ॥ सहि-वहोर् ओद् अवर्णस्य

ḍhakārarephayoḥ lopaḥ yasmin sa ḍhralopaḥ, tatra pūrvasya aṇaḥ dīrgho bhavati / līḍham / mīḍham / upagūḍham / mūḍhaḥ / ralope - nīraktam / agnīrathaḥ / indūrathaḥ / punā raktaṃ vāsaḥ / prātā rājakrayaḥ / pūrvagrahaṇam anuttarapade 'pi pūrvamātrasya dīrghārtham / aṇaḥ iti kim ? ātṛḍham / āvṛḍham // sahi-vahor od avarṇasya

Sanskrit only: no published translation is held for this verse.

सहि वहि इत्य् एतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे । सोढा । सोढुम् । सोढव्यम् । वोढा । वोढुम् । वोढव्यम् । अवर्णस्य इति किम् ? ऊढः । ऊढवान् । वर्णग्रहणं किम् ? कृतायाम् अपि वृद्धौ यथा स्यात् । उदवोढाम् । उदवोढम् । तादपि परः तपरः, तपरत्वाद् आकारस्य ग्रहणं न स्यात् ॥ साढ्यै साढ्वा साढ+इति निगमे

sahi vahi ity etayoḥ avarṇasya okāra ādeśo bhavati ḍhralope / soḍhā / soḍhum / soḍhavyam / voḍhā / voḍhum / voḍhavyam / avarṇasya iti kim ? ūḍhaḥ / ūḍhavān / varṇagrahaṇaṃ kim ? kṛtāyām api vṛddhau yathā syāt / udavoḍhām / udavoḍham / tādapi paraḥ taparaḥ, taparatvād ākārasya grahaṇaṃ na syāt // sāḍhyai sāḍhvā sāḍha+iti nigame

Sanskrit only: no published translation is held for this verse.

संहितायाम्

saṃhitāyām

Sanskrit only: no published translation is held for this verse.

संहितायाम् इत्य् अयम् अधिकारः । यद् इति ऊर्ध्वम् अनुक्रमिष्यामः संहितायाम् इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - द्व्यचो ऽतस् तिङः (*६,३।१३५) इति । विद्मा हि त्वा गोपतिं शूर गोनाम् । संहितायाम् इति किम् ? विद्म, हि, त्वा, गोपतिं, शूर, गोनाम् ॥ कर्णे लक्षणस्य अविष्ट-अष्ट-पञ्च-मणि-भिन्न-च्छिन्न-च्छिद्र-स्रुव-स्वस्तिकस्य

saṃhitāyām ity ayam adhikāraḥ / yad iti ūrdhvam anukramiṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam / vakṣyati - dvyaco 'tas tiṅaḥ (*6,3.135) iti / vidmā hi tvā gopatiṃ śūra gonām / saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, śūra, gonām // karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva-svastikasya

Sanskrit only: no published translation is held for this verse.

कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्य् एतान् वर्जयित्वा । दात्राकर्णः । द्विगुणाकर्णः । त्रिगुणाकर्णः । द्व्यङ्गुलाकर्णः । अङ्गुलाकर्णः । यत् पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तद् इह लक्षणं गृह्यते । लक्षणस्य इति किम् ? शोभनकर्णः । अविष्टादीनाम् इति किम् ? विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥ नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु क्वौ

karṇaśabde uttarapade lakṣaṇavācino dīrgho bhavati viṣṭa aṣṭan pañcan maṇi bhinna chinna chidra sruva svastika ity etān varjayitvā / dātrākarṇaḥ / dviguṇākarṇaḥ / triguṇākarṇaḥ / dvyaṅgulākarṇaḥ / aṅgulākarṇaḥ / yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ dātrākārādi kriyate tad iha lakṣaṇaṃ gṛhyate / lakṣaṇasya iti kim ? śobhanakarṇaḥ / aviṣṭādīnām iti kim ? viṣṭakarṇaḥ / aṣṭakarṇaḥ / pañcakarṇaḥ / maṇikarṇaḥ / bhinnakarṇaḥ / chinnakarṇaḥ / chidrakarṇaḥ / sruvakarṇaḥ / svastikakarṇaḥ // nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-taniṣu kvau

Sanskrit only: no published translation is held for this verse.

नहि वृति वृषि व्यधि रुचि सहि तनि इत्य् एतेषु क्विप्रत्ययान्तेषु उत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये । नहि - उपानत् । परीणत् । वृति - नीवृत् । उपावृत् । वृषि - प्रावृट् । उपावृट् । व्याधि - मर्मावित् । दृदयावित् । श्ववित् । रुचि - नीरुक् । अभिरुक् । सहि - ऋतीषट् । तनि - तरीतत् । गमः क्वौ (*६,४।४०) इति गमदीनम् इष्यते । ततः तनोतेर् अप्य् अनुनासिकलोपः । क्वौ इति किम् ? परिणहनम् ॥ वन-गिर्योः सज्ञायां कोटर-किंशुलुकादीनाम्

nahi vṛti vṛṣi vyadhi ruci sahi tani ity eteṣu kvipratyayānteṣu uttarapadeṣu pūrvapadasya dīrgho bhavati saṃhitāyāṃ viṣaye / nahi - upānat / parīṇat / vṛti - nīvṛt / upāvṛt / vṛṣi - prāvṛṭ / upāvṛṭ / vyādhi - marmāvit / dṛdayāvit / śvavit / ruci - nīruk / abhiruk / sahi - ṛtīṣaṭ / tani - tarītat / gamaḥ kvau (*6,4.40) iti gamadīnam iṣyate / tataḥ tanoter apy anunāsikalopaḥ / kvau iti kim ? pariṇahanam // vana-giryoḥ sajñāyāṃ koṭara-kiṃśulukādīnām

Sanskrit only: no published translation is held for this verse.

वन गिरि इत्य् एतयोर् उत्तरपदयोर् यथासङ्ख्यं कोटरदीनाम् किंशुलुकादीनां च दीर्घो भवति सज्ञायां विषये । वने कोटरादीनाम् - कोटरवणम् । मिश्रकावणम् । सिघ्रकावणम् । सारिकावणम् । गिरौ किंशुलुकादीनाम् - किंशुलुकागिरिः । अञ्जनागिरिः । कोटरकिंशुलुकादीनाम् इति किम् ? असिपत्रवनम् । कृष्णगिरिः । कोटर । मिश्रक । पुरक । सिघ्रक । सारिक । कोटरादिः । किंशुलुक । शाल्वक । अञ्जन । भञ्जन । लोहित । कुक्कुट् । किंशुलुकादिः ॥ वले

vana giri ity etayor uttarapadayor yathāsaṅkhyaṃ koṭaradīnām kiṃśulukādīnāṃ ca dīrgho bhavati sajñāyāṃ viṣaye / vane koṭarādīnām - koṭaravaṇam / miśrakāvaṇam / sighrakāvaṇam / sārikāvaṇam / girau kiṃśulukādīnām - kiṃśulukāgiriḥ / añjanāgiriḥ / koṭarakiṃśulukādīnām iti kim ? asipatravanam / kṛṣṇagiriḥ / koṭara / miśraka / puraka / sighraka / sārika / koṭarādiḥ / kiṃśuluka / śālvaka / añjana / bhañjana / lohita / kukkuṭ / kiṃśulukādiḥ // vale

Sanskrit only: no published translation is held for this verse.

मतौ बह्वचो ऽनजिरादीनाम्

matau bahvaco 'najirādīnām

Sanskrit only: no published translation is held for this verse.

मतौ परतो बह्वचो ऽजिरादिवर्जितस्य दीर्घो भवति सञ्ज्ञायाम् विषये । उदुम्बरावती । मशकावती । वीरणावती । पुष्करावती । अमरावती । नद्यां मतुप् (*४,२।८५) इति मतुप्प्रत्ययः । सञ्ज्ञायाम् (*८,२।११) इति मतोर्वत्वम् । बह्वचः इति किम् ? व्रीहिमती । अनजिरादीनाम् इति किम् ? अजिरवती । खदिरवती । पुलिनवती । हंसकारण्डववती । चक्रवाकवती । सञ्ज्ञायाम् इत्य् एव, वलयवती ॥ शरादीनाम् च

matau parato bahvaco 'jirādivarjitasya dīrgho bhavati sañjñāyām viṣaye / udumbarāvatī / maśakāvatī / vīraṇāvatī / puṣkarāvatī / amarāvatī / nadyāṃ matup (*4,2.85) iti matuppratyayaḥ / sañjñāyām (*8,2.11) iti matorvatvam / bahvacaḥ iti kim ? vrīhimatī / anajirādīnām iti kim ? ajiravatī / khadiravatī / pulinavatī / haṃsakāraṇḍavavatī / cakravākavatī / sañjñāyām ity eva, valayavatī // śarādīnām ca

Sanskrit only: no published translation is held for this verse.