मतौ परतो बह्वचो ऽजिरादिवर्जितस्य दीर्घो भवति सञ्ज्ञायाम् विषये । उदुम्बरावती । मशकावती । वीरणावती । पुष्करावती । अमरावती । नद्यां मतुप् (*४,२।८५) इति मतुप्प्रत्ययः । सञ्ज्ञायाम् (*८,२।११) इति मतोर्वत्वम् । बह्वचः इति किम् ? व्रीहिमती । अनजिरादीनाम् इति किम् ? अजिरवती । खदिरवती । पुलिनवती । हंसकारण्डववती । चक्रवाकवती । सञ्ज्ञायाम् इत्य् एव, वलयवती ॥ शरादीनाम् च
matau parato bahvaco 'jirādivarjitasya dīrgho bhavati sañjñāyām viṣaye / udumbarāvatī / maśakāvatī / vīraṇāvatī / puṣkarāvatī / amarāvatī / nadyāṃ matup (*4,2.85) iti matuppratyayaḥ / sañjñāyām (*8,2.11) iti matorvatvam / bahvacaḥ iti kim ? vrīhimatī / anajirādīnām iti kim ? ajiravatī / khadiravatī / pulinavatī / haṃsakāraṇḍavavatī / cakravākavatī / sañjñāyām ity eva, valayavatī // śarādīnām ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.