आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति । चौरस्यकुलम् । वृषलस्यकुलम् । आक्रोशे इति किम् ? ब्राह्मनकुलम् । षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यम् अलुग् वक्तव्यः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग् वक्तव्यः । अमुस्यापत्यम् आमुस्यायणः । नडादित्वात् फक् । अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका । मनोज्ञादित्वद् वुञ् । तथा आमुस्यकुलिका इति । देवानाम्प्रिय इत्य् अत्र च षष्ठ्या अलुग् वक्तव्यः । देवानम् प्रियः ॥ शेपपुच्छलङ्कूलेषु शुनः सञ्ज्ञायां अलुग् वक्तव्यः । शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः । दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः । दिवोदासाय गायति ॥ पुत्रे ऽन्यतरस्याम्
ākrośe gamyamāne uttarapade ṣaṣṭhyā alug bhavati / caurasyakulam / vṛṣalasyakulam / ākrośe iti kim ? brāhmanakulam / ṣaṣthīprakarane vāgdikpaśyadbhyo yuktidaṇḍahareṣu yathāsaṅkhyam alug vaktavyaḥ / vācoyuktiḥ / diśodaṇḍaḥ / paśyatoharaḥ // āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi ca alug vaktavyaḥ / amusyāpatyam āmusyāyaṇaḥ / naḍāditvāt phak / amuṣya putrasya bhāvaḥ āmusyaputrikā / manojñāditvad vuñ / tathā āmusyakulikā iti / devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ / devānam priyaḥ // śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ / śunaḥśepaḥ / śunaḥpucchaḥ / śunolāṅgūlaḥ / divaśca dāse ṣaṣṭhyā alug vaktavyaḥ / divodāsāya gāyati // putre 'nyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.