विष्वक् देव इत्य् एतयोः सर्वनाम्नश् च टेः अद्रि इत्य् अयम् आदेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे । दिष्वग् अज्चति इति विष्वद्र्यङ् । देवद्र्यङ् । सर्वनाम्नः - तद्र्यङ् । यद्र्यङ् अद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । तत्र यणादेशे कृते उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य (*८,२।४) इत्य् एष स्वरो भवति । विष्वग्देवयोः इति किम् ? अश्वाची । अञ्चतौ इति किम् ? विष्वग्युक् । वप्रत्यये इति किम् ? विष्वगञ्चनम् । वप्रत्ययग्रहणम् अन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम् । तेन अयस्कृतम्, अयस्कारः इत्य् अत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति । छन्दसि स्त्रियां बहुलम् इति वक्तव्यम् । विश्वाई च घृताची च इत्य् अत्र न भवति । कद्रीची इत्य् अत्र तु भवत्य् एव ॥ समः समि
viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati añcatau vapratyayānte uttarapade / diṣvag ajcati iti viṣvadryaṅ / devadryaṅ / sarvanāmnaḥ - tadryaṅ / yadryaṅ adrisaghryorantodāttanipātanaṃ kṛtsvaranivṛttyartham / tatra yaṇādeśe kṛte udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati / viṣvagdevayoḥ iti kim ? aśvācī / añcatau iti kim ? viṣvagyuk / vapratyaye iti kim ? viṣvagañcanam / vapratyayagrahaṇam anyatra dhātugrahaṇe tadādividhipratipattyartham / tena ayaskṛtam, ayaskāraḥ ity atra ataḥ kṛkamikaṃsakumbhapātra iti satvaṃ bhavati / chandasi striyāṃ bahulam iti vaktavyam / viśvāī ca ghṛtācī ca ity atra na bhavati / kadrīcī ity atra tu bhavaty eva // samaḥ sami
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.