अर्वन् इत्य् एतस्य अङ्गस्य तृ इत्य् अयम् आदेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति । अर्वन्तौ । अर्वन्तः । अर्वन्तम्, अर्वतौ, अर्वतः । अर्वता, अर्वद्भ्याम्, अर्वद्भिः । अर्वती । आर्वतम् । असौ इति किम् ? अर्वा । अनञः इति किम् ? अनर्वाणौ । अनर्वाणः । अनर्वाणं वृषभं मन्द्रजिह्वम् ॥ मघवा बहुलम्
arvan ity etasya aṅgasya tṛ ity ayam ādeśo bhavati, suścet tataḥ paro na bhavati, sa ca naña uttaro na bhavati / arvantau / arvantaḥ / arvantam, arvatau, arvataḥ / arvatā, arvadbhyām, arvadbhiḥ / arvatī / ārvatam / asau iti kim ? arvā / anañaḥ iti kim ? anarvāṇau / anarvāṇaḥ / anarvāṇaṃ vṛṣabhaṃ mandrajihvam // maghavā bahulam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.