Library·Jayaditya & Vamana: Kasikavrtti·6·6.4

Jayaditya & Vamana: Kasikavrtti 6.4

षष्ठाध्यायस्य चतुर्थः पादः । अङ्गस्य

ṣaṣṭhādhyāyasya caturthaḥ pādaḥ / aṅgasya

Sanskrit only: no published translation is held for this verse.

अधिकारो ऽयम् आसप्तमाध्यायपरिसमाप्तेः । यद् इत ऊर्ध्वम् अनुक्रमिष्यामः अङ्गस्य इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - हलः (*६,४।२) - हूतः । जीनः । संवीतः । अङ्गस्य इति किम् ? निरुतम् । दुरुतम् । नामि दीर्घः (*६,४।६) - अग्नीनाम् । वायूनाम् । अङ्गस्य इति किम् ? क्रिमिणां पश्य । पामनां पश्य । अतो भिस ऐस् (*७,१।९) - वृक्षैः । प्लक्षैः । अङ्गस्य इति किम् ? ब्राह्मणभिस्सा । ओदनभिस्सिटा । अङ्गाधिकारः कृतो ऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयति इति तदर्थम् अर्थवद्ग्रहणपरिभाषा नाश्रयितव्या भवति । अङ्गस्य इति सम्बन्धसामान्ये एषा षष्ठी यथायोगं विशेषेषु अवतिष्ठते । अथ वा प्रातिपदिकार्थमात्रम् अविवक्षितविभक्त्यर्थम् अधिक्रियते । तत् उत्तरत्र यथायोगं विपरिणम्यते । ततो ऽकारान्ताद् अङ्गात् भिस ऐस् इत्य् एवम् आद्य् अपि सम्यक् सम्पन्नं भवति ॥ हलः

adhikāro 'yam āsaptamādhyāyaparisamāpteḥ / yad ita ūrdhvam anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam / vakṣyati - halaḥ (*6,4.2) - hūtaḥ / jīnaḥ / saṃvītaḥ / aṅgasya iti kim ? nirutam / durutam / nāmi dīrghaḥ (*6,4.6) - agnīnām / vāyūnām / aṅgasya iti kim ? krimiṇāṃ paśya / pāmanāṃ paśya / ato bhisa ais (*7,1.9) - vṛkṣaiḥ / plakṣaiḥ / aṅgasya iti kim ? brāhmaṇabhissā / odanabhissiṭā / aṅgādhikāraḥ kṛto 'nyārtho nāmi dīrghatvādyapi vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā nāśrayitavyā bhavati / aṅgasya iti sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate / atha vā prātipadikārthamātram avivakṣitavibhaktyartham adhikriyate / tat uttaratra yathāyogaṃ vipariṇamyate / tato 'kārāntād aṅgāt bhisa ais ity evam ādy api samyak sampannaṃ bhavati // halaḥ

Sanskrit only: no published translation is held for this verse.

अङ्गावयवाद् धलो यद् उत्तरं सम्प्रसारणम् तदन्तस्य अङ्गस्य दीर्घो भवति । हूतः । जीनः । संवीतः । हलः इति किम् ? उतः । उतवान् । अङ्गावयवात् इति किम् ? निरुतम् । तदन्तस्य इति किम् ? विद्धः । विचितः । अणः इत्य् एव, तृतीयः । तृतीया इति वा निपातनाद् अत्र दीर्घाभावः । अङ्गग्रहणम् आवर्तयितव्यम् हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च ॥ नामि

aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya aṅgasya dīrgho bhavati / hūtaḥ / jīnaḥ / saṃvītaḥ / halaḥ iti kim ? utaḥ / utavān / aṅgāvayavāt iti kim ? nirutam / tadantasya iti kim ? viddhaḥ / vicitaḥ / aṇaḥ ity eva, tṛtīyaḥ / tṛtīyā iti vā nipātanād atra dīrghābhāvaḥ / aṅgagrahaṇam āvartayitavyam halviśeṣaṇārtham, aṅgakāryapratipattyarthaṃ ca // nāmi

Sanskrit only: no published translation is held for this verse.

न तिसृ-चतसृ

na tisṛ-catasṛ

Sanskrit only: no published translation is held for this verse.

तिसृ चतसृ इत्य् एतयोः नामि दीर्घो न भवति । तिसृणाम् । चतसृणाम् । इदम् एव नामि इति दीर्घप्रतिषेधवचनं ज्ञापकम् अचि र ऋतः (*७,२।१००) इत्य् एतस्मात् पूर्वविप्रतिषेधेन नुडागमो भवति इति ॥ छन्दस्य् उभयथा

tisṛ catasṛ ity etayoḥ nāmi dīrgho na bhavati / tisṛṇām / catasṛṇām / idam eva nāmi iti dīrghapratiṣedhavacanaṃ jñāpakam aci ra ṛtaḥ (*7,2.100) ity etasmāt pūrvavipratiṣedhena nuḍāgamo bhavati iti // chandasy ubhayathā

Sanskrit only: no published translation is held for this verse.

छन्दसि वषये तिसृ-चतस्रोः नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्च । तिसृणां मध्यदिने, तिसृणां मध्यदिने । चतसृणां मध्यदिने, चतसॄणां मध्यदिने ॥ नृ च

chandasi vaṣaye tisṛ-catasroḥ nāmi parataḥ ubhayathā dṛśyate, dīrghaścādīrghaśca / tisṛṇāṃ madhyadine, tisṛṇāṃ madhyadine / catasṛṇāṃ madhyadine, catasṝṇāṃ madhyadine // nṛ ca

Sanskrit only: no published translation is held for this verse.

नृ इत्य् एतस्य नामि परे उभयथा भवति । त्वं नॄणां नृपते, त्वं नृणां नृपते केचिद् अत्र छन्दसि इति न अनुवर्तयन्ति, तेन भाषायाम् अपि विकल्पो भवति ॥ न-उपधायाः

nṛ ity etasya nāmi pare ubhayathā bhavati / tvaṃ nṝṇāṃ nṛpate, tvaṃ nṛṇāṃ nṛpate kecid atra chandasi iti na anuvartayanti, tena bhāṣāyām api vikalpo bhavati // na-upadhāyāḥ

Sanskrit only: no published translation is held for this verse.

नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति । पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम् । नः इति किम् ? चतुर्णाम् । नामि इत्य् एव, चर्माणाम् ॥ सर्वनामस्थाने च असम्बुद्धौ

nāntasya aṅgasya upadhāyāḥ nāmi parato dīrgho bhavati / pañcānām / saptānām / navānām / daśānām / naḥ iti kim ? caturṇām / nāmi ity eva, carmāṇām // sarvanāmasthāne ca asambuddhau

Sanskrit only: no published translation is held for this verse.

सर्वनामस्थाने च परतो ऽसम्बुद्धौ नोपधायाः दीर्घो भवति । राजा, राजानौ, राजानः । राजानम्, राजानौ । सामानि तिष्ठन्ति । सामानि पश्य । सर्वनामस्थाने इति किम् ? राजनि । सामनि । असम्बुद्धौ इति किम् ? हे राजन् । हे तक्षन् ॥ वा षपूर्वस्य निगमे

sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati / rājā, rājānau, rājānaḥ / rājānam, rājānau / sāmāni tiṣṭhanti / sāmāni paśya / sarvanāmasthāne iti kim ? rājani / sāmani / asambuddhau iti kim ? he rājan / he takṣan // vā ṣapūrvasya nigame

Sanskrit only: no published translation is held for this verse.

सान्तमहतः संयोगस्य

sāntamahataḥ saṃyogasya

Sanskrit only: no published translation is held for this verse.

सकारान्तस्य संयोगस्य यो नकारः महतश् च तस्य+उपधायाः दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धौ । श्रेयान्, श्रेयांसौ, श्रेयांसः । श्रेयांसि । पयांसि । यशांसि । महतः स्वल्वपि - महान्, महान्तौ, महान्तः । असम्बुद्धौ इति किम् ? हे श्रेयन् । हे महन् ॥ अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्

sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho bhavati sarvanāmasthāne parataḥ asambuddhau / śreyān, śreyāṃsau, śreyāṃsaḥ / śreyāṃsi / payāṃsi / yaśāṃsi / mahataḥ svalvapi - mahān, mahāntau, mahāntaḥ / asambuddhau iti kim ? he śreyan / he mahan // ap-tṛn-tṛc-svasṛ-naptṛ-neṣṭṛ-tvaṣṭṛ-kṣattṛ-hotṛ-potṛ-praśāstṝṇām

Sanskrit only: no published translation is held for this verse.

अप् इत्य् एतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्तृ क्षत्तृ होतृ पोतृ पशास्तृ इत्य् एतेषां चाङ्गानाम् उपधाया दीर्घो भवति सर्वनामस्थाने परतो ऽसम्बुद्धौ । अप् - आपः । बह्वाम्पि तडागानि इति केचिद् इच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते । नित्यम् अपि च नुममकृत्व दीर्घत्वम् इष्यते । तृन् - कर्तारौ कटान् । वदितारौ जनापवादान् । कर्तारः । तृच् - कर्तारौ कटस्य । कर्तारः । हर्तारौ भारस्य । हर्तारः । स्वसृ - स्वसा, स्वसारौ, स्वसारः । नप्तृ - नप्ता, नप्तारौ, नप्तारः । नेष्टृ - नेष्टा, नेष्टारौ, नेष्टारः । त्वष्टृ - त्वष्टा, त्वष्टारौ, त्वष्टारः । क्षत्तृ - क्षत्ता, क्षत्तारौ, क्षत्तारः । होतृ - होता, होतारौ, होतारः । पोतृ - पोता, पोतारौ, पोतारः । प्रशास्तृ - प्रशास्ता, प्रशास्तारौ, प्रशास्तारः । नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम् । व्युत्पत्तिपक्षे नियमार्थम्, एवम् भूतानाम् अन्येषां सञ्ज्ञाशब्दानां दीर्घो मा भूत् इति । पितरौ, पितरः । मातरौ,मातरः । असम्बुद्धौ इति किम् ? हे कर्तः । हे स्वसः ॥ इन्-हन्-पूष-अर्यम्णां शौ

ap ity etasya, tṛnantasya, tṛjantasya, svasṛ naptṛ neṣṭṛ tvaṣtṛ kṣattṛ hotṛ potṛ paśāstṛ ity eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne parato 'sambuddhau / ap - āpaḥ / bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto na kriyate / nityam api ca numamakṛtva dīrghatvam iṣyate / tṛn - kartārau kaṭān / vaditārau janāpavādān / kartāraḥ / tṛc - kartārau kaṭasya / kartāraḥ / hartārau bhārasya / hartāraḥ / svasṛ - svasā, svasārau, svasāraḥ / naptṛ - naptā, naptārau, naptāraḥ / neṣṭṛ - neṣṭā, neṣṭārau, neṣṭāraḥ / tvaṣṭṛ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ / kṣattṛ - kṣattā, kṣattārau, kṣattāraḥ / hotṛ - hotā, hotārau, hotāraḥ / potṛ - potā, potārau, potāraḥ / praśāstṛ - praśāstā, praśāstārau, praśāstāraḥ / naptrādināṃ grahaṇamavyutpattipakṣe vidhyartham / vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho mā bhūt iti / pitarau, pitaraḥ / mātarau,mātaraḥ / asambuddhau iti kim ? he kartaḥ / he svasaḥ // in-han-pūṣa-aryamṇāṃ śau

Sanskrit only: no published translation is held for this verse.

शौ एव सर्वनामस्थाने दीर्घो भवति न अन्यत्र इति । सर्वस्य+उपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते । यस् तु न उपधालक्षणः स भवत्य् एव । वृत्रहायते । भ्रूणहायते । अथ व अनुवर्तमाने ऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयम् अविशेषेण नियमः । शिशब्दो हि सर्वनामस्थाअं नपुंसकस्य, न च तस्य अन्यत् सर्वनामस्थानम् अस्ति इत्य् अविशेषेण नियमः । तत्र तु नपुंसकस्य इत्य् एतन् न अश्रीयते । तेन अनपुंसकस्य अपि दीर्घो न भवति । सर्वनामस्थानसञ्ज्ञाविधाने तु नपुंसकस्य व्यापारो ऽस्ति इति तत्र नियमः क्रियमणो नपुंसकस्य स्यात् ॥ सौ च

śau eva sarvanāmasthāne dīrgho bhavati na anyatra iti / sarvasya+upadhālakṣaṇasya dīrghasya niyamena nivṛttiḥ kriyate / yas tu na upadhālakṣaṇaḥ sa bhavaty eva / vṛtrahāyate / bhrūṇahāyate / atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe sāmarthyādayam aviśeṣeṇa niyamaḥ / śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, na ca tasya anyat sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ / tatra tu napuṃsakasya ity etan na aśrīyate / tena anapuṃsakasya api dīrgho na bhavati / sarvanāmasthānasañjñāvidhāne tu napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo napuṃsakasya syāt // sau ca

Sanskrit only: no published translation is held for this verse.

साव् असम्बुद्धौ परतः इन्हन्पूषर्यम्णाम् उपधाया दीर्घो भवति । दण्डी । वृत्रहा । पूषा । अर्यमा । असम्बुद्धौ इति किम् ? हे दण्डिन् । हे पूषन् । हे अर्यमन् ॥ अत्व्-असन्तस्य च अधातोः

sāv asambuddhau parataḥ inhanpūṣaryamṇām upadhāyā dīrgho bhavati / daṇḍī / vṛtrahā / pūṣā / aryamā / asambuddhau iti kim ? he daṇḍin / he pūṣan / he aryaman // atv-asantasya ca adhātoḥ

Sanskrit only: no published translation is held for this verse.

अतु अस् इत्य् एवम् अन्तस्य अधातोर् उपधायाः सावसम्बुद्धौ परतः दीर्घो भवति । डवतु - भवान् । क्तवतु - कृतवान् । मतुप् - गोमान् । यवमान् । अत्र कृते दीर्घे नुमागमः कर्तव्यः । यदि हि परत्वान् नित्यत्वाच् च नुम् स्यत्, दीर्घस्य निमित्तमतूपधा विहन्येत । असन्तस्य - सुपयाः । सुयशाः । सुश्रोताः । अधातोः इति किम् ? पिण्डं ग्रसते इति पिण्डग्रः । चर्म वस्ते इति चर्मवः । अनर्थको ऽप्य् अस्शब्दो गृह्यते, अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इति । अन्तग्रहणम् उपदेशप्रयोगैकदेशस्य अप्य् अत्वन्तस्य परिग्रहार्थम्, अन्यथा मतुपो ग्रहणम् न स्याद्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्तः इति । असम्बुद्धौ इत्य् एव, हे गोमन् । सुपयः ॥ अनुनासिकस्य क्वि-झलोः क्ङिति

atu as ity evam antasya adhātor upadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati / ḍavatu - bhavān / ktavatu - kṛtavān / matup - gomān / yavamān / atra kṛte dīrghe numāgamaḥ kartavyaḥ / yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta / asantasya - supayāḥ / suyaśāḥ / suśrotāḥ / adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ / carma vaste iti carmavaḥ / anarthako 'py asśabdo gṛhyate, aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti iti / antagrahaṇam upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ iti / asambuddhau ity eva, he goman / supayaḥ // anunāsikasya kvi-jhaloḥ kṅiti

Sanskrit only: no published translation is held for this verse.

अज्-झन-गमां सनि

aj-jhana-gamāṃ sani

Sanskrit only: no published translation is held for this verse.

अजन्तानाम् अङ्गानं हनिगम्योश् च सनि झलादौ परे दीर्घो भवति । अजन्तानाम् - विवीषति । तुष्टूषति । चिकीर्षति । जिहीर्षति । हन् - जिघांसति । गम् - अधिजिगांसते । गमेरिङादेशस्य+इति वक्तव्यम् । इह मा भूत् सञ्जिगंसते वत्सो मात्र इति । स्वर्गं लोकं समजिगांसत् इति छन्दसि यदनिङादेशस्य अपि दीर्घत्वं दृश्यते, तद् अन्येषाम् अपि दृश्यते (*६,३।१३७) इत्य् अनेन भवति । अथ वा इह अज्ग्रहणं न कर्तव्यम् । सनि दीर्घो भवति इत्य् एतावदेव सूत्रं कर्तव्यम् । तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धम् अजन्तस्य दीर्घत्वम् ? तत् क्रियते प्रवृत्तिभेदेन गमेर् अपि विशेषणार्थम्, अजन्तस्य अङ्गस्य दीर्घो भवति, अजादेशस्य गमेः इति । ततो न वक्तव्यम् इदं गमेरिङादेशस्य इति ॥ तनोतेर् विभाषा

ajantānām aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho bhavati / ajantānām - vivīṣati / tuṣṭūṣati / cikīrṣati / jihīrṣati / han - jighāṃsati / gam - adhijigāṃsate / gameriṅādeśasya+iti vaktavyam / iha mā bhūt sañjigaṃsate vatso mātra iti / svargaṃ lokaṃ samajigāṃsat iti chandasi yadaniṅādeśasya api dīrghatvaṃ dṛśyate, tad anyeṣām api dṛśyate (*6,3.137) ity anena bhavati / atha vā iha ajgrahaṇaṃ na kartavyam / sani dīrgho bhavati ity etāvadeva sūtraṃ kartavyam / tatrācā gṛhyamāṇasya viśeṣaṇe sati siddham ajantasya dīrghatvam ? tat kriyate pravṛttibhedena gamer api viśeṣaṇārtham, ajantasya aṅgasya dīrgho bhavati, ajādeśasya gameḥ iti / tato na vaktavyam idaṃ gameriṅādeśasya iti // tanoter vibhāṣā

Sanskrit only: no published translation is held for this verse.

तनोतेर् अङ्गस्य सनि झलादौ विभाषा दीर्घो भवति । तितांसति, तितंसति । झलि इत्य् एव, तितनिषति । सनीवन्तर्ध इत्य् अत्र तनोतेर् उपसङ्ख्यानाद् इडागमो भवति विकल्पेन ॥ क्रमश् च क्त्वि

tanoter aṅgasya sani jhalādau vibhāṣā dīrgho bhavati / titāṃsati, titaṃsati / jhali ity eva, titaniṣati / sanīvantardha ity atra tanoter upasaṅkhyānād iḍāgamo bhavati vikalpena // kramaś ca ktvi

Sanskrit only: no published translation is held for this verse.

क्रम उपधाया विभाषा दिर्घो भवति क्त्वा प्रत्यये झलादौ परतः । क्रन्त्वा, क्रान्त्वा । झलि इत्य् एव, क्रमित्वा । प्रक्रम्य, उपक्रम्य इति बहिरङ्गो ऽपि ल्यबादेशो ऽन्तरङ्गानपि विधीन् बाधते इति पूर्वम् एव दीर्घत्वं न प्रवर्तते ॥ च्च्ः-वोः श्-ऊड्ः-अनुनासिके च

krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ / krantvā, krāntvā / jhali ity eva, kramitvā / prakramya, upakramya iti bahiraṅgo 'pi lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ na pravartate // ccḥ-voḥ ś-ūḍḥ-anunāsike ca

Sanskrit only: no published translation is held for this verse.

असिद्धं बहिरङ्गमन्तरङ्गे इति नाजानन्तर्ये इति प्रतिषिध्यते । झलादौ छस्य - पृष्टः । पृष्टवान् । पृष्ट्वा । वकारस्य - द्यूतः । द्यूतवान् । द्यूत्वा । क्ङिति इत्य् एव, द्युभ्यास् । द्युभिः । केचिद् अत्र क्ङिति इति न अनुवर्तयन्ति । कथं द्युभ्याम्, द्युभिः इति ऊठि कृते ? दिव उत् (*६,१।१३१) इति तपरत्वान् मात्राकालो भविष्यति । छशां षः इत्य् अत्र छग्रहणं न कर्तव्यम् । अनेन+एव हि सर्वत्र शकारो विधीयते । ऊठष्ठित्करणम् एत्यधत्यूठ्सु (*६,१।१८९) इति विशेषणार्थम् । वाह ऊट्ः (*६,४।१३९) इत्य् अयम् अपि ठिदेव ॥ ज्वर-त्वर-स्रिव्य्-अवि-मवाम् उपधायाश् च

asiddhaṃ bahiraṅgamantaraṅge iti nājānantarye iti pratiṣidhyate / jhalādau chasya - pṛṣṭaḥ / pṛṣṭavān / pṛṣṭvā / vakārasya - dyūtaḥ / dyūtavān / dyūtvā / kṅiti ity eva, dyubhyās / dyubhiḥ / kecid atra kṅiti iti na anuvartayanti / kathaṃ dyubhyām, dyubhiḥ iti ūṭhi kṛte ? diva ut (*6,1.131) iti taparatvān mātrākālo bhaviṣyati / chaśāṃ ṣaḥ ity atra chagrahaṇaṃ na kartavyam / anena+eva hi sarvatra śakāro vidhīyate / ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (*6,1.189) iti viśeṣaṇārtham / vāha ūṭḥ (*6,4.139) ity ayam api ṭhideva // jvara-tvara-srivy-avi-mavām upadhāyāś ca

Sanskrit only: no published translation is held for this verse.

ज्वर त्वर स्रिवि अव मव इत्य् एतेषाम् अङ्गानां वकारस्य उपधायाश् च स्थाने ऊट्ः इत्य् अयम् आदेशो भवति क्वौ परतो ऽनुनासिके झलादौ च क्ङिति । जूः, जूरौ, जूरः । जूर्तिः । त्वर - तूः, तूरौ, तूरः । तूर्तिः । स्रिविस्रूः, स्रुवौ, स्रुवः । स्रूतः । स्रूतवान् । स्रूतिः । अव - ऊः, उवौ, उवः । ऊतिः । मव - मूः, मुवौ, मुवः । मूतः । मूतवान् । मूतिः । ज्वरत्वरोपधा वकारात् परा, स्रिव्यवमवां पूर्वा ॥ राल् लोपः

jvara tvara srivi ava mava ity eteṣām aṅgānāṃ vakārasya upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo bhavati kvau parato 'nunāsike jhalādau ca kṅiti / jūḥ, jūrau, jūraḥ / jūrtiḥ / tvara - tūḥ, tūrau, tūraḥ / tūrtiḥ / srivisrūḥ, sruvau, sruvaḥ / srūtaḥ / srūtavān / srūtiḥ / ava - ūḥ, uvau, uvaḥ / ūtiḥ / mava - mūḥ, muvau, muvaḥ / mūtaḥ / mūtavān / mūtiḥ / jvaratvaropadhā vakārāt parā, srivyavamavāṃ pūrvā // rāl lopaḥ

Sanskrit only: no published translation is held for this verse.

रेफादुत्तरयोः छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः । मुर्च्छा - मूः, मुरौ, मुरः । मूर्तः । मूर्तवान् । मूर्तिः । न ध्या-ख्या-पॄ-मूर्छि-मदाम् (*८,२।५७) इति निष्ठानत्वाभावः । हुर्च्छा - हूः, हुरौ, हुरः । हूर्णः । हूर्णवान् । हूर्तिः । राल्लोपे सुतुक्कस्य छस्य अभावात् केवलो गृह्यते । वकारस्य - तुर्वी - तूः, तुरौ, तुरः । तूर्णः । तूर्णवान् । तूर्तिः । धुर्वी - धूः, धुरौ, धुरः । धूर्णः । धूर्णवान् । धूर्तिः ॥ असिद्धवत्र-आ भात्

rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ / murcchā - mūḥ, murau, muraḥ / mūrtaḥ / mūrtavān / mūrtiḥ / na dhyā-khyā-pṝ-mūrchi-madām (*8,2.57) iti niṣṭhānatvābhāvaḥ / hurcchā - hūḥ, hurau, huraḥ / hūrṇaḥ / hūrṇavān / hūrtiḥ / rāllope sutukkasya chasya abhāvāt kevalo gṛhyate / vakārasya - turvī - tūḥ, turau, turaḥ / tūrṇaḥ / tūrṇavān / tūrtiḥ / dhurvī - dhūḥ, dhurau, dhuraḥ / dhūrṇaḥ / dhūrṇavān / dhūrtiḥ // asiddhavatra-ā bhāt

Sanskrit only: no published translation is held for this verse.

किं कारणम् ? एषा हि परिभाषा आभाच्छास्त्रीया । तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणाम् एव असिद्धत्वाद् अन्तरङ्गबहिरङ्गयोः युगपत् समुपस्थापनं न अस्ति इति परिभाष न प्रवर्तते । वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम् । वुग् उवङादेशे - बभूव, बहूवतुः, बव्हूवुः । युट् यणादेशे - उपदिदीये, उपदिदीयाते, उपदेदीयिरे । आभात् इत्य् अयम् अभिविधावाङ् । तेन भाधिकारे ऽप्य् असिद्धवद् भवति ॥ श्नान् नलोपः

kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā / tasyāṃ pravartamānāyāṃ vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām eva asiddhatvād antaraṅgabahiraṅgayoḥ yugapat samupasthāpanaṃ na asti iti paribhāṣa na pravartate / vugyuṭāvuvaṅyaṇoḥ siddhau bhavata iti vaktavyam / vug uvaṅādeśe - babhūva, bahūvatuḥ, bavhūvuḥ / yuṭ yaṇādeśe - upadidīye, upadidīyāte, upadedīyire / ābhāt ity ayam abhividhāvāṅ / tena bhādhikāre 'py asiddhavad bhavati // śnān nalopaḥ

Sanskrit only: no published translation is held for this verse.

श्नात् इति श्नमयमुत्सृष्टमकारो गृह्यते । तत उत्तरस्य नकारस्य लोपो भवति । अनक्ति । भनक्ति । हिनस्ति । शकारवतो ग्रहणम् किम् ? यज्ञानाम् । यत्नानाम् । सुपि च (*७,३।१०२) इति परत्वात् कृते ऽपि दीर्घत्वे स्थानिवद्भवात् नलोपः स्याद् एव । विश्नानाम्, प्रश्नानाम् इत्य् अत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य+एव इत्य् एवं न भवति ॥ अनिदितां हल उपधायाः क्ङिति

śnāt iti śnamayamutsṛṣṭamakāro gṛhyate / tata uttarasya nakārasya lopo bhavati / anakti / bhanakti / hinasti / śakāravato grahaṇam kim ? yajñānām / yatnānām / supi ca (*7,3.102) iti paratvāt kṛte 'pi dīrghatve sthānivadbhavāt nalopaḥ syād eva / viśnānām, praśnānām ity atra lakṣaṇapratipadoktayoḥ pratipadoktasya+eva ity evaṃ na bhavati // aniditāṃ hala upadhāyāḥ kṅiti

Sanskrit only: no published translation is held for this verse.

दंश-सञ्ज-स्वञ्जाम् शपि

daṃśa-sañja-svañjām śapi

Sanskrit only: no published translation is held for this verse.

दंश सञ्ज ष्वञ्ज इत्य् एतेषाम् अङ्गानां शपि परत उपधाया नकारस्य लोपो भवति । दशति । सजति । परिष्वजते ॥ रञ्जेश् च

daṃśa sañja ṣvañja ity eteṣām aṅgānāṃ śapi parata upadhāyā nakārasya lopo bhavati / daśati / sajati / pariṣvajate // rañjeś ca

Sanskrit only: no published translation is held for this verse.

रञ्जेश् च शपि परतः उपधायाः नकारस्य लोपो भवति । रजति, रजतः, रजन्ति । पृथग्योगकरनम् उत्तरार्थम् ॥ घञि च भावकरनयोः

rañjeś ca śapi parataḥ upadhāyāḥ nakārasya lopo bhavati / rajati, rajataḥ, rajanti / pṛthagyogakaranam uttarārtham // ghañi ca bhāvakaranayoḥ

Sanskrit only: no published translation is held for this verse.

भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति । भावे - आश्चर्यो रागः । विचित्रो रागः । करणे - रज्यते अनेन इति रागः । भावकरणयोः इति किम् ? रजन्ति तस्मिन्न् इति रङ्गः ॥ स्यदो जवे

bhāvakaranavācini ghañi parato rañjeḥ upadhāyā nakārasya lopo bhavati / bhāve - āścaryo rāgaḥ / vicitro rāgaḥ / karaṇe - rajyate anena iti rāgaḥ / bhāvakaraṇayoḥ iti kim ? rajanti tasminn iti raṅgaḥ // syado jave

Sanskrit only: no published translation is held for this verse.

जवे ऽभिधेये स्यदः इति घञि निपात्यते । स्यन्देर् नलोपो वृद्ध्यभावश् च । इक्प्रकरणात् न धातुलोपः इति प्रतिषेधो न अस्ति । गोस्यदः । अश्वस्यदः । जव इति किम् ? तैलस्यन्दः । घृतस्यन्दः ॥ अवोद-एद्ः-ओद्म-प्रश्रथ-हिमश्रथाः

jave 'bhidheye syadaḥ iti ghañi nipātyate / syander nalopo vṛddhyabhāvaś ca / ikprakaraṇāt na dhātulopaḥ iti pratiṣedho na asti / gosyadaḥ / aśvasyadaḥ / java iti kim ? tailasyandaḥ / ghṛtasyandaḥ // avoda-edḥ-odma-praśratha-himaśrathāḥ

Sanskrit only: no published translation is held for this verse.

अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्य् एते निपात्यन्ते । अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते । एध इति इन्धेर् घञि नलोपो गुणश् च निपात्यते । न धातुलोप आर्धधातुके (*१,१।४) इति हि प्रतिषेधः स्यात् । ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश् च निपात्यते । प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश् च निपात्यते । हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनम् ॥ न अञ्चेः पूजायाम्

avoda edha odma praśratha himaśratha ity ete nipātyante / avoda iti underavapūrvasya ghañi nalopo nipātyate / edha iti indher ghañi nalopo guṇaś ca nipātyate / na dhātulopa ārdhadhātuke (*1,1.4) iti hi pratiṣedhaḥ syāt / odma iti underauṇādike manpratyaye nalopo guṇaś ca nipātyate / praśratha iti prapūrvasya śrantherghañi nalopo vṛddhyabhavaś ca nipātyate / himaśratha iti himapūrvasya śrantheḥ ghañyeva nipātanam // na añceḥ pūjāyām

Sanskrit only: no published translation is held for this verse.

क्त्वि स्कन्दि-स्यन्दोः

ktvi skandi-syandoḥ

Sanskrit only: no published translation is held for this verse.

क्त्वाप्रयये परतः स्कन्द स्यन्द इत्य् एतयोर् नकारलोपो न भवति । स्कन्त्वा । स्यन्त्वा । स्यन्देरूदित्वात् पक्षे इडागमः । स्यन्दित्वा । तत्र यदा इडागमः तदा न क्त्वा सेट् (*१,२।१८) इति कित्त्वप्रतिषेधाद् एव नलोपाभावः ॥ जान्त-नशां विभाषा

ktvāprayaye parataḥ skanda syanda ity etayor nakāralopo na bhavati / skantvā / syantvā / syanderūditvāt pakṣe iḍāgamaḥ / syanditvā / tatra yadā iḍāgamaḥ tadā na ktvā seṭ (*1,2.18) iti kittvapratiṣedhād eva nalopābhāvaḥ // jānta-naśāṃ vibhāṣā

Sanskrit only: no published translation is held for this verse.

जान्तानाम् अङ्गानां नशेश् च क्त्वाप्रत्यये परतः विभाषा नकारलोपो न भवति । रङ्क्त्वा, रक्त्वा । भङ्क्त्वा, भक्त्वा । नश - नंष्ट्वा, नष्ट्वा । इट्पक्षे नशित्वा ॥ भञ्जेश् च चिणि

jāntānām aṅgānāṃ naśeś ca ktvāpratyaye parataḥ vibhāṣā nakāralopo na bhavati / raṅktvā, raktvā / bhaṅktvā, bhaktvā / naśa - naṃṣṭvā, naṣṭvā / iṭpakṣe naśitvā // bhañjeś ca ciṇi

Sanskrit only: no published translation is held for this verse.

भञ्जेश् च चिणि परतो विभाषा नकारलोपो भवति । अभाजि, अभञ्जि । अप्राप्तो ऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते ॥ शास इदङ्हलोः

bhañjeś ca ciṇi parato vibhāṣā nakāralopo bhavati / abhāji, abhañji / aprāpto 'yaṃ nalopaḥ pakṣe vidhīyate, tato na iti na anuvartate // śāsa idaṅhaloḥ

Sanskrit only: no published translation is held for this verse.

शा हौ

śā hau

Sanskrit only: no published translation is held for this verse.

शासो हौ परतः शा इत्य् अयम् आदेशो भवति । अनुशाधि । प्रशाधि । उपधायाः इति निवृत्तम्, ततः शासः इति स्थानेयोगा षष्ठी भवति । क्ङति एतद् अपि निवृत्तम् । तेन यदा वा छन्दसि (*३,४।८८) इति पित्त्वं हिशब्दस्य तदा अप्य् आदेशो भवत्य् एव । शाधि इत्य् आद्युदात्तम् अपि छन्दसि दृश्यते ॥ हन्तेर्जः

śāso hau parataḥ śā ity ayam ādeśo bhavati / anuśādhi / praśādhi / upadhāyāḥ iti nivṛttam, tataḥ śāsaḥ iti sthāneyogā ṣaṣṭhī bhavati / kṅati etad api nivṛttam / tena yadā vā chandasi (*3,4.88) iti pittvaṃ hiśabdasya tadā apy ādeśo bhavaty eva / śādhi ity ādyudāttam api chandasi dṛśyate // hanterjaḥ

Sanskrit only: no published translation is held for this verse.

हन्तेर्धातोः जः इत्य् अयम् आदेशो भवति हौ परत । जहि शत्रून् ॥ अनुदात्त-उपदेश-वनति-तनोत्य्-आदीनाम् अनुनासिकलोपो झलि क्ङिति

hanterdhātoḥ jaḥ ity ayam ādeśo bhavati hau parata / jahi śatrūn // anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kṅiti

Sanskrit only: no published translation is held for this verse.

रमु - रत्वा । रतः । रतवान् । रतिः । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः । वनति - वतिः । क्तिनो रूपम् एतत् । क्तिचि तु न क्तिचि दीर्घश्च (*६,४।३९) इति भवति । अन्यत्र झलादाविटा भवितव्यम् । तनोत्यादयः - ततः । ततवान् । सनोतेरात्वं वक्ष्यति । क्षणु - क्षतः । क्षतवान् । ऋणु - ऋतः । ऋतवान् । तृणु - तृतः । तृतवान् । घृणु - घृतः । घृतवान् । वनु - वतः । वतवान् । मनु - मतः । मतवान् । ङिति - अतत । अतथाः । अनुदात्तोपदेशवनतितनोत्यादीनाम् इति किम् ? शान्तः । शान्तवान् । तान्तः । तान्तवान् । दान्तः । दान्तवान् । अनुनासिकस्य इति किम् ? पक्वः । पक्ववान् । झलि इति किम् ? गम्यते । रम्यते । क्ङिति इति किम् ? यन्ता । यन्तव्यम् । उपदेशग्रहणं किम् ? इह वयथा स्यात्, गतिः । इह च मा भूत्, शान्तः, शान्तवान् इति ॥ वा ल्यपि

ramu - ratvā / rataḥ / ratavān / ratiḥ / anudāttopadeśā anunāsikāntā yamiraminamigamihanimanyatayaḥ / vanati - vatiḥ / ktino rūpam etat / ktici tu na ktici dīrghaśca (*6,4.39) iti bhavati / anyatra jhalādāviṭā bhavitavyam / tanotyādayaḥ - tataḥ / tatavān / sanoterātvaṃ vakṣyati / kṣaṇu - kṣataḥ / kṣatavān / ṛṇu - ṛtaḥ / ṛtavān / tṛṇu - tṛtaḥ / tṛtavān / ghṛṇu - ghṛtaḥ / ghṛtavān / vanu - vataḥ / vatavān / manu - mataḥ / matavān / ṅiti - atata / atathāḥ / anudāttopadeśavanatitanotyādīnām iti kim ? śāntaḥ / śāntavān / tāntaḥ / tāntavān / dāntaḥ / dāntavān / anunāsikasya iti kim ? pakvaḥ / pakvavān / jhali iti kim ? gamyate / ramyate / kṅiti iti kim ? yantā / yantavyam / upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ / iha ca mā bhūt, śāntaḥ, śāntavān iti // vā lyapi

Sanskrit only: no published translation is held for this verse.

ल्यपि परतः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः वा भवति । व्यवस्थितविभाषा च+इयम्, तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यम् एव लोपः । प्रयत्य, प्रयम्य । प्ररत्य, प्ररम्य । प्रणत्य, प्रणम्य । आगत्य, आगम्य । आहत्य । प्रमत्य । प्रवत्य । प्रक्षत्य ॥ न क्तिचि दीर्घश् च

lyapi parataḥ anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ vā bhavati / vyavasthitavibhāṣā ca+iyam, tena makārāntānāṃ vikalpo bhavati, anyatra nityam eva lopaḥ / prayatya, prayamya / praratya, praramya / praṇatya, praṇamya / āgatya, āgamya / āhatya / pramatya / pravatya / prakṣatya // na ktici dīrghaś ca

Sanskrit only: no published translation is held for this verse.

गमः क्वौ

gamaḥ kvau

Sanskrit only: no published translation is held for this verse.

गमः क्वौ परतः अनुनासिकलोपो भवति । अङ्गगत् । कलिङ्गगत् । अध्वगतो हरयः । गमादीनाम् इति वक्तव्यम् । इह अपि यथा स्यात्, संयत् । परीतत् । ऊ च गमादीनाम् इति वक्तव्यम् । अग्रेगूः । अग्रेभ्रूः ॥ विड्-वनोर् अनुनासिकस्य आत्

gamaḥ kvau parataḥ anunāsikalopo bhavati / aṅgagat / kaliṅgagat / adhvagato harayaḥ / gamādīnām iti vaktavyam / iha api yathā syāt, saṃyat / parītat / ū ca gamādīnām iti vaktavyam / agregūḥ / agrebhrūḥ // viḍ-vanor anunāsikasya āt

Sanskrit only: no published translation is held for this verse.

विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति । अब्जा गोजा ऋतजा अद्रिजा । गोषा इन्दो नृषा असि । कूपखाः । शतखाः । सहस्रखाः । दधिक्राः । अग्रेगा उन्नेतॄणाम् । जन-सन-खन-क्रम-गमो विट् (*३,२।६७) इति विट् प्रत्ययः । सनोतेर् अनः (*८,३।१०८) इति षत्वम् गोषा इन्दो नृषा असि इत्य् अत्र । वन - विजावा । अग्रेजावा । अन्येभ्यो ऽपि दृश्यन्ते (*४,३।७५) इति वनिप् प्रत्ययः । अनुनासिकस्य इति वर्तमाने पुनर् अनुनासिकग्रहणम् अनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनाम् एव स्यात् ॥ जन-सन-खनां सञ्-झलोः

viṭi vani ca pratyaye parataḥ anunāsikāntasya aṅgasya ākāra ādeśo bhavati / abjā gojā ṛtajā adrijā / goṣā indo nṛṣā asi / kūpakhāḥ / śatakhāḥ / sahasrakhāḥ / dadhikrāḥ / agregā unnetṝṇām / jana-sana-khana-krama-gamo viṭ (*3,2.67) iti viṭ pratyayaḥ / sanoter anaḥ (*8,3.108) iti ṣatvam goṣā indo nṛṣā asi ity atra / vana - vijāvā / agrejāvā / anyebhyo 'pi dṛśyante (*4,3.75) iti vanip pratyayaḥ / anunāsikasya iti vartamāne punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām eva syāt // jana-sana-khanāṃ sañ-jhaloḥ

Sanskrit only: no published translation is held for this verse.

ये विभाषा

ye vibhāṣā

Sanskrit only: no published translation is held for this verse.

यकारादौ क्ङिति प्रत्यये परतो जनसनखनाम् आकार आदेशो भवति विभाषा । जायते, जन्यते । जाजायते, जञ्जन्यते । सायते, सन्यते । सासायते, संसन्यते । खायते, खन्यते । चाखायते, चङ्खन्यते । जनेः श्यनि ज्ञा-जनोर् जा (*७,३।७९) इति नित्यं जादेशो भवति ॥ तनोतेर्यकि

yakārādau kṅiti pratyaye parato janasanakhanām ākāra ādeśo bhavati vibhāṣā / jāyate, janyate / jājāyate, jañjanyate / sāyate, sanyate / sāsāyate, saṃsanyate / khāyate, khanyate / cākhāyate, caṅkhanyate / janeḥ śyani jñā-janor jā (*7,3.79) iti nityaṃ jādeśo bhavati // tanoteryaki

Sanskrit only: no published translation is held for this verse.

तनोतेः यकि परतो विभाषा आकार आदेशो भवति । तायते, तन्यते । यकि इति किम् ? तन्तन्यते ॥ सनः क्तिचि लोपश् च अस्य अन्यतरस्याम्

tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati / tāyate, tanyate / yaki iti kim ? tantanyate // sanaḥ ktici lopaś ca asya anyatarasyām

Sanskrit only: no published translation is held for this verse.

सनोतेर् अङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति, लोपश् च अस्य अन्यतरस्याम् । सातिः, सन्तिः, सतिः । अन्यतरस्यांग्रहणम् विस्पष्टार्थम्, येसम्बद्धं हि विभाषाग्रहणम् इति निवृत्तम् इत्य् आशङ्क्येत ॥ आर्धधातुके

sanoter aṅgasya ktici pratyaye parata ākāra ādeśo bhavati, lopaś ca asya anyatarasyām / sātiḥ, santiḥ, satiḥ / anyatarasyāṃgrahaṇam vispaṣṭārtham, yesambaddhaṃ hi vibhāṣāgrahaṇam iti nivṛttam ity āśaṅkyeta // ārdhadhātuke

Sanskrit only: no published translation is held for this verse.

स्यसिच्सीयुट्तासिषु भावकर्मणोर् उपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च (*६,४।६२) । कारिषीष्ट । हारिषीष्ट । आर्धधातुके इति किम् ? क्रियेत । ह्रियेत यगन्तस्य अजन्तत्वाच् चिण्वद्भावे सति वृद्धिः स्यात्, ततश् च युक् प्रसज्येत । अतो लोपो यलोपश् च णिलोपश् च प्रयोजनम् । आल्लोप ईत्वम् एत्वम् च चिण्वद्भवश् च सीयुटि ॥ भ्रस्जो र-उपधयो रम् अन्यतरस्याम्

syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca (*6,4.62) / kāriṣīṣṭa / hāriṣīṣṭa / ārdhadhātuke iti kim ? kriyeta / hriyeta yagantasya ajantatvāc ciṇvadbhāve sati vṛddhiḥ syāt, tataś ca yuk prasajyeta / ato lopo yalopaś ca ṇilopaś ca prayojanam / āllopa ītvam etvam ca ciṇvadbhavaś ca sīyuṭi // bhrasjo ra-upadhayo ram anyatarasyām

Sanskrit only: no published translation is held for this verse.

भ्रस्जो रेफस्य उपधायाश् च रम् अन्यतरस्यां भवति । रोपधयोः इति स्थानषष्ठीनिर्देशात् उपधा रेफश् च निवर्तेते । मित्त्वाच् च अयम् अचो ऽन्त्यात्परो भवति । भ्रष्टा, भर्ष्टा । भ्रष्टुम्, भर्ष्टुम् । भ्रष्टव्यम्, भर्ष्टव्यम् । भ्रजजनम्, भ्र्जनम् । भृष्टः, भृष्टवान् इत्य् अत्र पूर्वविप्रतिषेधेन सम्प्रसारणं भवति । उपदेशे इत्य् एव, बरीभृज्यते ॥ अतो लोपः

bhrasjo rephasya upadhāyāś ca ram anyatarasyāṃ bhavati / ropadhayoḥ iti sthānaṣaṣṭhīnirdeśāt upadhā rephaś ca nivartete / mittvāc ca ayam aco 'ntyātparo bhavati / bhraṣṭā, bharṣṭā / bhraṣṭum, bharṣṭum / bhraṣṭavyam, bharṣṭavyam / bhrajajanam, bhrjanam / bhṛṣṭaḥ, bhṛṣṭavān ity atra pūrvavipratiṣedhena samprasāraṇaṃ bhavati / upadeśe ity eva, barībhṛjyate // ato lopaḥ

Sanskrit only: no published translation is held for this verse.

अकारान्तस्य आर्धधातुके लोपो भवति । चिकीर्षिता । चिकीर्षितुम् । चिकीर्षितव्यम् । धिनुतः । कृणुतः । अतः इति किम् ? चेता । स्तोता । तपरकरणं किम् ? याता । वाता । आर्धाधातुके इति किम् ? वृक्षत्वम् । वृक्षता । वृद्धिदीर्घाभ्याम् अतो लोपः पूर्वविप्रतिषेधेन । चिकीर्षकः । जिहीर्षकः । चिकीर्ष्यते । जिहीर्ष्यते ॥ यस्य हलः

akārāntasya ārdhadhātuke lopo bhavati / cikīrṣitā / cikīrṣitum / cikīrṣitavyam / dhinutaḥ / kṛṇutaḥ / ataḥ iti kim ? cetā / stotā / taparakaraṇaṃ kim ? yātā / vātā / ārdhādhātuke iti kim ? vṛkṣatvam / vṛkṣatā / vṛddhidīrghābhyām ato lopaḥ pūrvavipratiṣedhena / cikīrṣakaḥ / jihīrṣakaḥ / cikīrṣyate / jihīrṣyate // yasya halaḥ

Sanskrit only: no published translation is held for this verse.

हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति । बेभिदिता । बेभिदितुम् । बेभिदितव्यम् । यस्य इति सङ्घातग्रहणम् एतत् । तत्र अलो ऽन्त्यस्य (*१,१।५२) इत्य् एतन् न भवति, अतो लोपः (*६,४।४८) इति यकारो ऽनेन लुप्यते । सङ्घातग्रहणम् किम् ? ईर्ष्यिता । मव्यिता । हलः इति किम् ? लोलूयिता । पोपूयिता ॥ क्यस्य विभाषा

hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati / bebhiditā / bebhiditum / bebhiditavyam / yasya iti saṅghātagrahaṇam etat / tatra alo 'ntyasya (*1,1.52) ity etan na bhavati, ato lopaḥ (*6,4.48) iti yakāro 'nena lupyate / saṅghātagrahaṇam kim ? īrṣyitā / mavyitā / halaḥ iti kim ? lolūyitā / popūyitā // kyasya vibhāṣā

Sanskrit only: no published translation is held for this verse.

क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके । समिध्यिता, समिधिता । दृषद्यिता, दृषदिता । समिधमात्मनः इच्छति, समिधम् इव आत्मानम् आचरति इति वा क्यच्क्यङौ यथायोगम् कर्तव्यौ ॥ णेर् अनिटि

kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke / samidhyitā, samidhitā / dṛṣadyitā, dṛṣaditā / samidhamātmanaḥ icchati, samidham iva ātmānam ācarati iti vā kyackyaṅau yathāyogam kartavyau // ṇer aniṭi

Sanskrit only: no published translation is held for this verse.

निष्ठायां सेटि

niṣṭhāyāṃ seṭi

Sanskrit only: no published translation is held for this verse.

निष्ठायां सेटि परतो णेर्लोपो भवति । कारितम् । हारितम् । गणितम् । लक्षितम् । सेटि इति किम् ? संज्ञपितः पशुः । सेड्ग्रहणसामर्थ्याद् इह पूर्वेण अपि न भवति । सनीवन्तर्ध (*७,२।४९) इति ज्ञपेरिटि विकल्पिते यस्य विभाषा (*७,२।१५) इति निष्ठायां प्रतिषेधः । अथ पुनः एकाचः इति तत्र अनुवर्तते, तदा नित्यम् अत्र भवितव्यम् एव इडागमेन इति सेड्ग्रहणम् अनर्थकम् ? तत् क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात् । अकृते हि तत्र णिलोपे सति कारितम् इत्य् अत्र एकाच उपदेशे ऽनुदात्तात् (*७,२।१०) इति इटः प्रतिषेधः प्रसज्येत ॥ जनिता मन्त्रे

niṣṭhāyāṃ seṭi parato ṇerlopo bhavati / kāritam / hāritam / gaṇitam / lakṣitam / seṭi iti kim ? saṃjñapitaḥ paśuḥ / seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati / sanīvantardha (*7,2.49) iti jñaperiṭi vikalpite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedhaḥ / atha punaḥ ekācaḥ iti tatra anuvartate, tadā nityam atra bhavitavyam eva iḍāgamena iti seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, iḍāgame kṛte ṇilopo yathā syāt / akṛte hi tatra ṇilope sati kāritam ity atra ekāca upadeśe 'nudāttāt (*7,2.10) iti iṭaḥ pratiṣedhaḥ prasajyeta // janitā mantre

Sanskrit only: no published translation is held for this verse.

जनिता इति मन्त्रविषये इडादौ णिलोपो निपात्यते । यो नः पिता जनिता । मन्त्रे इति किम् ? जनयिता ॥ शमिता यज्ञे

janitā iti mantraviṣaye iḍādau ṇilopo nipātyate / yo naḥ pitā janitā / mantre iti kim ? janayitā // śamitā yajñe

Sanskrit only: no published translation is held for this verse.

यज्ञकर्मणि शमिता इति इडादौ तृचि णिलोपो निपात्यते । शृतं हविः शमितः । तृचि सम्बुद्ध्यन्तम् एतत् । यज्ञे इति किम् ? शृतं हविः शमयितः ॥ अय् आम्-अन्त-आल्व्-आय्य-इत्न्व्-इष्णुषु

yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate / śṛtaṃ haviḥ śamitaḥ / tṛci sambuddhyantam etat / yajñe iti kim ? śṛtaṃ haviḥ śamayitaḥ // ay ām-anta-ālv-āyya-itnv-iṣṇuṣu

Sanskrit only: no published translation is held for this verse.

आम् अन्त आलु आय्य इत्नु इष्णु इत्य् एतेषु परतः णेः अयादेशो भवति । कारयञ्चकार । हारयाज्चकार । अन्त - गण्डयन्तः । मण्डयन्तः । आलु - स्पृहयालुः । गृहयालुः । आय्य - स्पृहयाय्यः । गृहयाय्यः । इत्नु - स्तनयित्नुः । इष्णु - पोषयिष्णुः । पारयिष्णवः । न इति वक्तव्ये अयादेशवचनम् उत्तरार्थम् ॥ ल्यपि लघुपूर्वात्

ām anta ālu āyya itnu iṣṇu ity eteṣu parataḥ ṇeḥ ayādeśo bhavati / kārayañcakāra / hārayājcakāra / anta - gaṇḍayantaḥ / maṇḍayantaḥ / ālu - spṛhayāluḥ / gṛhayāluḥ / āyya - spṛhayāyyaḥ / gṛhayāyyaḥ / itnu - stanayitnuḥ / iṣṇu - poṣayiṣṇuḥ / pārayiṣṇavaḥ / na iti vaktavye ayādeśavacanam uttarārtham // lyapi laghupūrvāt

Sanskrit only: no published translation is held for this verse.

ल्यपि परतो लघुपूर्वाद् वर्णाद् उत्तरस्य णेः अयादेशो भवति । प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दम्य्य गतः । प्रबेभिदय्य गतः । प्रगणय्य गतः । ह्रस्वयलोपाल् लोपानाम् असिद्धत्वं न भवति असमानाश्रयत्वात्, ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति । लघुपूर्वात् इति किम् ? प्रपात्य गतः ॥ विभाषा+आपः

lyapi parato laghupūrvād varṇād uttarasya ṇeḥ ayādeśo bhavati / praṇamayya, pratamayya, pradamayya, praśamayya, sandamyya gataḥ / prabebhidayya gataḥ / pragaṇayya gataḥ / hrasvayalopāl lopānām asiddhatvaṃ na bhavati asamānāśrayatvāt, hrasvādayo hi ṇau, lyapi ṇerayādeśo bhavati / laghupūrvāt iti kim ? prapātya gataḥ // vibhāṣā+āpaḥ

Sanskrit only: no published translation is held for this verse.

यु-प्लुवोर् दीर्घश् छन्दसि

yu-pluvor dīrghaś chandasi

Sanskrit only: no published translation is held for this verse.

यु प्लु इत्य् एतयोर् ल्यपि परतः छन्दसि विषये दीर्घो भवति । दान्त्यनुपूर्वं वियूय । यत्रा यो दक्षिणा परिप्लूय । छन्दसि इति किम् ? संयुत्य । आप्लुत्य ॥ क्षियः

yu plu ity etayor lyapi parataḥ chandasi viṣaye dīrgho bhavati / dāntyanupūrvaṃ viyūya / yatrā yo dakṣiṇā pariplūya / chandasi iti kim ? saṃyutya / āplutya // kṣiyaḥ

Sanskrit only: no published translation is held for this verse.

क्षियश् च दीर्घो भवति ल्यपि परतः । प्रक्षीय ॥ नष्ठायाम् अण्यदर्थे

kṣiyaś ca dīrgho bhavati lyapi parataḥ / prakṣīya // naṣṭhāyām aṇyadarthe

Sanskrit only: no published translation is held for this verse.

ण्यतः कृत्यस्य अर्थो भावकर्मणी, ताभ्याम् अन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति । आक्षीणः । प्रक्षीणः । परिक्षीणः । अकर्मकत्वात् क्षियः कर्तरि क्तः । प्रक्षीणम् इदम् देवदत्तस्य इति क्तो ऽधिकरणे च ध्रौव्य-गति। प्रत्यवसानार्थेभ्यः (*३,४।७६) इत्य् अधिकरणे क्तः । अण्यदर्थे इति किम् ? अक्षितमसि मा मेक्षेष्ठाः । क्षितम् इति भावे दीर्घाभावात् क्षियो दीर्घात् (*८,२।४६) इति निष्ठानत्वम् अपि न भवति ॥ वा+आक्रोश-दैन्ययोः

ṇyataḥ kṛtyasya artho bhāvakarmaṇī, tābhyām anyatra yā niṣṭhā tasyāṃ kṣiyo dīrgho bhavati / ākṣīṇaḥ / prakṣīṇaḥ / parikṣīṇaḥ / akarmakatvāt kṣiyaḥ kartari ktaḥ / prakṣīṇam idam devadattasya iti kto 'dhikaraṇe ca dhrauvya-gati. pratyavasānārthebhyaḥ (*3,4.76) ity adhikaraṇe ktaḥ / aṇyadarthe iti kim ? akṣitamasi mā mekṣeṣṭhāḥ / kṣitam iti bhāve dīrghābhāvāt kṣiyo dīrghāt (*8,2.46) iti niṣṭhānatvam api na bhavati // vā+ākrośa-dainyayoḥ

Sanskrit only: no published translation is held for this verse.

आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायाम् अण्यदर्थे वा दीर्घो भवति । क्षितायुरेधि, क्षीणायुरेधि । दैन्ये - क्षितकः, क्षीणकः । क्षितो ऽयं तपस्वी, क्षीणो ऽयं तपस्वी ॥ स्य-सिच्-सीयुट्-तासिषु भाव-कर्मणोर् उपदेशे ऽज्-झन-ग्रह-दृशां वा चिण्वद्-इट् च

ākrośe gamyamāne dainye ca kṣiyo niṣṭhāyām aṇyadarthe vā dīrgho bhavati / kṣitāyuredhi, kṣīṇāyuredhi / dainye - kṣitakaḥ, kṣīṇakaḥ / kṣito 'yaṃ tapasvī, kṣīṇo 'yaṃ tapasvī // sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dṛśāṃ vā ciṇvad-iṭ ca

Sanskrit only: no published translation is held for this verse.

दायिष्यते, दास्यते । अदायिष्यत, अदास्यत । शामिष्यते, शमिश्यते, शमयिस्यते । अशामिष्यत, अशमिष्यत अशमयिष्यत । हन् - घानिष्यते, हनिष्यते । अघानिष्यत, अहनिष्यत । ग्रः - ग्राहिष्यते, ग्रहीष्यते । अग्राहिष्यत, अग्रहीष्यत । ग्रहो ऽलिटि दीर्घः (*७,२।३७) इति प्रकृतस्य इटो दीर्घत्वम् । दृश् - दर्शिष्यते, द्रक्ष्यते । अदर्शिष्यत, अद्रक्ष्यत । सिचि अजन्तानाम् - अचायिषाताम्, अचेषाताम् । अदायिषाताम्, अदिषाताम् । अशामिषातम्, अशमिषातम्, अशमयिषाताम् । हन् - अघानिषाताम्, अवधिषाताम्, अहसाताम् । ग्रः - अग्राहिषाताम्, अग्रहीषाताम् । दृश् - अदर्शिषाताम्, अदृक्षाताम् । सीयुटि अजन्तानाम् - चायिषीष्त, चेषीष्ट । दायिषीष्ट, दासीष्ट । शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट । हन् - घानिषीष्ट, वधिषीष्ट । ग्रः - ग्राहिषीष्ट, ग्रहीषीष्ट । दृश् - दर्शिषीष्ट, दृक्षीष्ट । तासावजन्तानाम् - चायिता, चेता । दायिता, दाता । शामिता, शमिता, शमयित । हन् - घानिता, हन्ता । ग्रः - ग्राहिता, ग्रहीता । दृश् - दर्शिता, द्रष्टा । स्यसिच्सीयुट्तासिषु इति किम् ? चेतव्यम् । दातव्यम् । भावकर्मणोः इति किम् ? चेष्यति । दास्यति । उपदेशे इति किम् ? कारिष्यते इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति । अज्झनग्रहदृशाम् इति किम् ? पठिष्यते । अङ्गाधिकारविहितं कार्यम् इह अतिदिश्यते, तेन हनिणिङामादेशा न भवन्ति । हनिष्यते, घानिष्यते । एष्यते, आयिष्यते । अध्येष्यते, अध्यायिष्यते । हनो वध लिङि (*२,४।४२), लुङि च (*२,४।४३), इणो गा लुङि (*२,४।४५), विभाषा लुङ्लृङोः (*२,४।५०) इत्य् एते विधयो न भवन्ति ॥ दीङो युडचि क्ङिति

dāyiṣyate, dāsyate / adāyiṣyata, adāsyata / śāmiṣyate, śamiśyate, śamayisyate / aśāmiṣyata, aśamiṣyata aśamayiṣyata / han - ghāniṣyate, haniṣyate / aghāniṣyata, ahaniṣyata / graḥ - grāhiṣyate, grahīṣyate / agrāhiṣyata, agrahīṣyata / graho 'liṭi dīrghaḥ (*7,2.37) iti prakṛtasya iṭo dīrghatvam / dṛś - darśiṣyate, drakṣyate / adarśiṣyata, adrakṣyata / sici ajantānām - acāyiṣātām, aceṣātām / adāyiṣātām, adiṣātām / aśāmiṣātam, aśamiṣātam, aśamayiṣātām / han - aghāniṣātām, avadhiṣātām, ahasātām / graḥ - agrāhiṣātām, agrahīṣātām / dṛś - adarśiṣātām, adṛkṣātām / sīyuṭi ajantānām - cāyiṣīṣta, ceṣīṣṭa / dāyiṣīṣṭa, dāsīṣṭa / śāmiṣīṣṭa, śamiṣīṣṭa, śamayiṣīṣṭa / han - ghāniṣīṣṭa, vadhiṣīṣṭa / graḥ - grāhiṣīṣṭa, grahīṣīṣṭa / dṛś - darśiṣīṣṭa, dṛkṣīṣṭa / tāsāvajantānām - cāyitā, cetā / dāyitā, dātā / śāmitā, śamitā, śamayita / han - ghānitā, hantā / graḥ - grāhitā, grahītā / dṛś - darśitā, draṣṭā / syasicsīyuṭtāsiṣu iti kim ? cetavyam / dātavyam / bhāvakarmaṇoḥ iti kim ? ceṣyati / dāsyati / upadeśe iti kim ? kāriṣyate iti guṇe kṛte raparatve ca na prāpnoti, upadeśagrahaṇād bhavati / ajjhanagrahadṛśām iti kim ? paṭhiṣyate / aṅgādhikāravihitaṃ kāryam iha atidiśyate, tena haniṇiṅāmādeśā na bhavanti / haniṣyate, ghāniṣyate / eṣyate, āyiṣyate / adhyeṣyate, adhyāyiṣyate / hano vadha liṅi (*2,4.42), luṅi ca (*2,4.43), iṇo gā luṅi (*2,4.45), vibhāṣā luṅlṛṅoḥ (*2,4.50) ity ete vidhayo na bhavanti // dīṅo yuḍaci kṅiti

Sanskrit only: no published translation is held for this verse.

दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः । उपदिदीये, उपदिदीयाते, उपदिदीयिरे । दीङः इति पञ्चमीनिर्देशाद् अजादेर् युडागमो भवति । विधानसामर्थ्याच् च एर् अनेक-अचो ऽसंयोगपूर्वस्य (*६,४।८२) इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति । अचि इति किम् ? उपदेदीयते । क्ङिति इति किम् ? उपदानम् ॥ आतो लोप इटि च

dīṅo yuḍāgamo bhavati ajādau kṅiti pratyaye parataḥ / upadidīye, upadidīyāte, upadidīyire / dīṅaḥ iti pañcamīnirdeśād ajāder yuḍāgamo bhavati / vidhānasāmarthyāc ca er aneka-aco 'saṃyogapūrvasya (*6,4.82) iti yaṇādeśe kartavye tasya siddhatvaṃ na bhavati / aci iti kim ? upadedīyate / kṅiti iti kim ? upadānam // āto lopa iṭi ca

Sanskrit only: no published translation is held for this verse.

ईद्यति

īdyati

Sanskrit only: no published translation is held for this verse.

ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः । देयम् । धेयम् । हेयम् । स्तेयम् ॥ घु-मा-स्था-गा-पा-जहाति-सा हलि

īkāraḥ ādeśo bhavati ākārantasya aṅgasya yati parataḥ / deyam / dheyam / heyam / steyam // ghu-mā-sthā-gā-pā-jahāti-sā hali

Sanskrit only: no published translation is held for this verse.

घुसञ्ज्ञाकानाम् अङ्गानां, मा स्था गा पा जहाति सा इत्य् एतेषां हलादौ क्ङिति प्रत्यये परतः ईकारादेशो भवति । दीयते । धीयते । देदीयते । देधीयते । मीयते । मेमीयते । स्थीयते । तेष्ट्ःईयते । गीयते । जेगीयते । अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । पीयते । पेपीयते । पातेर् इह ग्रहणं न अस्ति, लुग्विकरणत्वात् । पायते इत्य् एव तस्य भवति । हीयते । जेहीयते । जहातेर् इह निर्देशात् जिहातेर् ग्रहणं न भवति । हायते । षो ऽन्तकर्मणि । अवसीयते । अवसेसीयते । हलि इति किम् ? ददतुः । ददुः । आतो लोपाद्धि परत्वाद् ईत्वम् स्यात् । एतद् एव हल्ग्रहणं ज्ञापकम् अस्मिन् प्रकरणे विप्रतिषेधेन असिद्धत्वं भवति । क्ङिति इत्य् एव, दाता । धाता ॥ एर् लिङि

ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo bhavati / dīyate / dhīyate / dedīyate / dedhīyate / mīyate / memīyate / sthīyate / teṣṭḥīyate / gīyate / jegīyate / adhyagīṣṭa, adhyagīṣātām, adhyagīṣata / pīyate / pepīyate / pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt / pāyate ity eva tasya bhavati / hīyate / jehīyate / jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati / hāyate / ṣo 'ntakarmaṇi / avasīyate / avasesīyate / hali iti kim ? dadatuḥ / daduḥ / āto lopāddhi paratvād ītvam syāt / etad eva halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati / kṅiti ity eva, dātā / dhātā // er liṅi

Sanskrit only: no published translation is held for this verse.

घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति । देयात् । धेया । मेयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसेयात् । क्ङिति इत्य् एव, दासीष्ट । धासीष्ट ॥ वा ऽन्यस्य संयोग-आदेः

ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati / deyāt / dheyā / meyāt / stheyāt / geyāt / peyāt / heyāt / avaseyāt / kṅiti ity eva, dāsīṣṭa / dhāsīṣṭa // vā 'nyasya saṃyoga-ādeḥ

Sanskrit only: no published translation is held for this verse.

घ्वादिभ्यः अन्यस्य संयोगादेर् आकारान्तस्य वा एकारादेशो भवति लिङि परतः । ग्लेयात्, ग्लायात् । म्लेयात्, म्लायात् । अन्यस्य इति किम् ? स्थेयात् । संयोगादेः इति किम् ? यायात् । क्ङिति इत्य् एव, ग्लासिष्ट । अङ्गस्य इत्य् एव, निर्वायात् ॥ न ल्यपि

ghvādibhyaḥ anyasya saṃyogāder ākārāntasya vā ekārādeśo bhavati liṅi parataḥ / gleyāt, glāyāt / mleyāt, mlāyāt / anyasya iti kim ? stheyāt / saṃyogādeḥ iti kim ? yāyāt / kṅiti ity eva, glāsiṣṭa / aṅgasya ity eva, nirvāyāt // na lyapi

Sanskrit only: no published translation is held for this verse.

ल्यपि प्रत्यये परतः घुमास्थागापाजहातिसां यदुक्तं तन्न । प्रदाय । प्रधाय । प्रमाय । प्रस्थाय । प्रगाय । प्रपाय । प्रहाय । अवसाय ॥ मयतेर् इद्-अन्यतरस्याम्

lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna / pradāya / pradhāya / pramāya / prasthāya / pragāya / prapāya / prahāya / avasāya // mayater id-anyatarasyām

Sanskrit only: no published translation is held for this verse.

लुङ्-लङ्-लृङ्-क्ष्व् अड्-उदात्तः

luṅ-laṅ-lṛṅ-kṣv aḍ-udāttaḥ

Sanskrit only: no published translation is held for this verse.

लुङ् लङ् लृङ् इत्य् एतेषु परतो ऽङ्गस्य अडागमो भवति, उदात्तश् च स भवति । लुङ् - अकार्षीत् । अहार्षीत् । लङ् - अकरोत् । अहरत् । लृङ् - अकरिष्यत् । अहरिष्यत् ॥ आड् अज्-आदीनाम्

luṅ laṅ lṛṅ ity eteṣu parato 'ṅgasya aḍāgamo bhavati, udāttaś ca sa bhavati / luṅ - akārṣīt / ahārṣīt / laṅ - akarot / aharat / lṛṅ - akariṣyat / ahariṣyat // āḍ aj-ādīnām

Sanskrit only: no published translation is held for this verse.

आडागमो भवति अजादीनां लुङ्-लङ्-लृङ्-क्षु परतः, उदात्तश् च स भवति । ऐक्षिष्ट । ऐहिष्ट । औब्जीत् । औम्भीत् । लङ् - ऐक्षत । ऐहत । औब्जत् । औम्भत् । लृङ् - ऐक्षिष्यत । ऐहिष्यत । औब्जिष्यत् । औम्भिष्यत् । इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायाम् अडागमाद् अन्तरङ्गत्वाल् लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वाद् अडागमं बाधते । शब्दान्तरप्राप्तेर् अडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति । ननु शब्दान्तराद् इति विकरणो ऽनित्यः ? विकरणे कृते सम्प्रसारणम् अडागमान् नित्यत्वाद् एव भवति, सम्प्रसारणे च कृते ऽजाद्यङ्गं जातम् इति आडजादीनाम् इत्य् आडागमः ॥ छन्दस्य् अपि दृश्यते

āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lṛṅ-kṣu parataḥ, udāttaś ca sa bhavati / aikṣiṣṭa / aihiṣṭa / aubjīt / aumbhīt / laṅ - aikṣata / aihata / aubjat / aumbhat / lṛṅ - aikṣiṣyata / aihiṣyata / aubjiṣyat / aumbhiṣyat / iha aijyata, aupyata, auhyata iti laṅi kṛte lāvasthāyām aḍāgamād antaraṅgatvāl lādeśaḥ kriyate, tatra kṛte vikaraṇo nityatvād aḍāgamaṃ bādhate / śabdāntaraprāpter aḍāgamasya anityatvam, kṛte hi vikaraṇāntasya aṅgasya tena bhavitavyam, akṛte tu dhātumātrasya śabdāntarasya prāpnuvan vidhiranityo bhavati / nanu śabdāntarād iti vikaraṇo 'nityaḥ ? vikaraṇe kṛte samprasāraṇam aḍāgamān nityatvād eva bhavati, samprasāraṇe ca kṛte 'jādyaṅgaṃ jātam iti āḍajādīnām ity āḍāgamaḥ // chandasy api dṛśyate

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये आडागमो दृश्यते । यत्र हि विहितः ततो ऽन्यत्र अपि दृश्यते । आङजादीनाम् (*६,४।७२) इत्य् उक्तम्, अनजादीनाम् अपि दृश्यते । सुरुचो वेन आवः । आनक् । आयुनक् । आवः इति वृञो लुङि मन्त्रे घसह्वर इति लेर्लुकि कृते च भवति । तथा आनक् इति नशेः । आयुनक् इति युजेर् लङि ॥ न माङ्योगे

chandasi viṣaye āḍāgamo dṛśyate / yatra hi vihitaḥ tato 'nyatra api dṛśyate / āṅajādīnām (*6,4.72) ity uktam, anajādīnām api dṛśyate / suruco vena āvaḥ / ānak / āyunak / āvaḥ iti vṛño luṅi mantre ghasahvara iti lerluki kṛte ca bhavati / tathā ānak iti naśeḥ / āyunak iti yujer laṅi // na māṅyoge

Sanskrit only: no published translation is held for this verse.

माङ्योगे लुङ्लङ्लृङ्क्षु यद् उक्तं तन् न भवति । मा भवान् कार्षीत् । मा भवान् हार्षीत् । मा स्म करोत् । मा स्म हरत् । मा भवानीहिष्ट । मा भवानीक्षिष्ट । मा स्म भवानीहत । मा स्म भवानीक्षत ॥ बहुलं छन्दस्य् अमाङ्योगे ऽपि

māṅyoge luṅlaṅlṛṅkṣu yad uktaṃ tan na bhavati / mā bhavān kārṣīt / mā bhavān hārṣīt / mā sma karot / mā sma harat / mā bhavānīhiṣṭa / mā bhavānīkṣiṣṭa / mā sma bhavānīhata / mā sma bhavānīkṣata // bahulaṃ chandasy amāṅyoge 'pi

Sanskrit only: no published translation is held for this verse.

इरयो रे

irayo re

Sanskrit only: no published translation is held for this verse.

इरे इत्य् एतस्य छदसि विषये बहुलं रे इत्य् अयम् आदेशो भवति । गर्भं प्रथमं दध्र आपः । या ऽस्य परिदध्रे । धाञो रेभावस्य असिद्धत्वाद् आतो लोपो भवति । न च भवति । परमाया धियो ऽग्निकर्माणि चक्रिरे । अत्र रेशब्दस्य सेट्ॐ धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थम् इरयोः इत्य् अयं द्विवचननिर्देशः ॥ अचि श्नु-धातु-भ्रुवां य्-वोर् इयङ्-उवङौ

ire ity etasya chadasi viṣaye bahulaṃ re ity ayam ādeśo bhavati / garbhaṃ prathamaṃ dadhra āpaḥ / yā 'sya paridadhre / dhāño rebhāvasya asiddhatvād āto lopo bhavati / na ca bhavati / paramāyā dhiyo 'gnikarmāṇi cakrire / atra reśabdasya seṭoṃ dhātūnāmiṭi kṛte punā rebhāvaḥ kriyate, tadartham irayoḥ ity ayaṃ dvivacananirdeśaḥ // aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau

Sanskrit only: no published translation is held for this verse.

श्नुप्रत्ययान्तस्य अङ्गस्य धातोः इवर्ण-उवर्णान्तस्य भ्रु इत्य् एतस्य इयङ् उवङ् इत्य् एताव् आदेशौ भवतो ऽजादौ प्रत्यये परतः । आप्नुवन्ति । राध्नुवन्ति । शक्नुवन्ति । धातोः - चिक्षियतुः । चिक्षियुः । लुलुवतुः । लुलुवुः । नियौ । नियः । लुवौ । लुवः । भ्रुवौ । भ्रुवः । अचि इति किम् ? आप्नुयात् । शक्नुयात् । साध्नुयात् । श्नुधातुभ्रुवाम् इति किम् ? लक्ष्म्यौ । वध्वै । य्वोः इति किम् ? चक्रतुः । चक्रुः । इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । चयनम् । चायकः । लवनम् । लावकः । इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलम् उपसङ्ख्यानं कर्तव्यम् । तन्वं पुषेम । तनुवं पुषेम । विष्वं पुषेम । विषुवं पुषेम । स्वर्गो लोकः । सुवर्गो लोकः । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥ अभ्यासस्य असवर्णे

śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye parataḥ / āpnuvanti / rādhnuvanti / śaknuvanti / dhātoḥ - cikṣiyatuḥ / cikṣiyuḥ / luluvatuḥ / luluvuḥ / niyau / niyaḥ / luvau / luvaḥ / bhruvau / bhruvaḥ / aci iti kim ? āpnuyāt / śaknuyāt / sādhnuyāt / śnudhātubhruvām iti kim ? lakṣmyau / vadhvai / yvoḥ iti kim ? cakratuḥ / cakruḥ / iyaṅuvaṅbhyāṃ guṇavṛddhī bhavato vipratiṣedhena / cayanam / cāyakaḥ / lavanam / lāvakaḥ / iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam / tanvaṃ puṣema / tanuvaṃ puṣema / viṣvaṃ puṣema / viṣuvaṃ puṣema / svargo lokaḥ / suvargo lokaḥ / tryambakaṃ yajāmahe / triyambakaṃ yajāmahe // abhyāsasya asavarṇe

Sanskrit only: no published translation is held for this verse.

अभ्यासस्य इवर्णोवर्णान्तस्य अवसर्णे ऽचि परतः इयङ् उवङ् इत्य् एताव् आदेशौ भवतः । इयेष । उवोष । इयर्ति । असवर्णे इति किम् ? ईषतुः । ईषुः । ऊषतुः । ऊषुः । अचि इत्य् एव, इयाज । उवाप ॥ स्त्रियाः

abhyāsasya ivarṇovarṇāntasya avasarṇe 'ci parataḥ iyaṅ uvaṅ ity etāv ādeśau bhavataḥ / iyeṣa / uvoṣa / iyarti / asavarṇe iti kim ? īṣatuḥ / īṣuḥ / ūṣatuḥ / ūṣuḥ / aci ity eva, iyāja / uvāpa // striyāḥ

Sanskrit only: no published translation is held for this verse.

स्त्री इत्य् एतस्य अजादौ प्रत्यये परतः इयङ् आदेशो भवति । स्त्री, स्त्रियौ, स्त्रियः । स्त्रीणाम् इत्य् अत्र परत्वानुडागमः । पृथग्योगकरणम् उत्तरार्थम् ॥ वा ऽंशसोः

strī ity etasya ajādau pratyaye parataḥ iyaṅ ādeśo bhavati / strī, striyau, striyaḥ / strīṇām ity atra paratvānuḍāgamaḥ / pṛthagyogakaraṇam uttarārtham // vā 'ṃśasoḥ

Sanskrit only: no published translation is held for this verse.

इणो यण्

iṇo yaṇ

Sanskrit only: no published translation is held for this verse.

इणो ऽङ्गस्य यणादेशो भवति अचि परतः । यन्ति । यन्तु । आयन् । इयङादेशापवदो ऽयम् । मध्ये ऽपवदाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते । अयनम् । आयकः ॥ एर् अनेकाचो ऽसम्योगपूर्वस्य

iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ / yanti / yantu / āyan / iyaṅādeśāpavado 'yam / madhye 'pavadāḥ pūrvān vidhīn bādhante iti guṇavṛddhibhyāṃ paratvādayaṃ bādhyate / ayanam / āyakaḥ // er anekāco 'samyogapūrvasya

Sanskrit only: no published translation is held for this verse.

धातोः इति वर्तते, तेन संयोगो विशेष्यते । धातोर् अवयवः संयोगः पूर्वो यस्माद् इवर्णान भवति असावसंयोगपूर्वः, तदन्तस्य अङ्गस्य अनेकाचो ऽचि परतो यणादेशो भवति । निन्यतुः । निन्युः । उन्न्यौ । उन्न्यः । ग्रामण्यौ । ग्रामण्यः । एः इति किम् ? असंयोगपूर्वग्रहणम् इवर्णविशेषणं यथा स्यात्, अङ्गविशेषणं मा भूत् इति । लुलुवतुः, लुलुवुः इत्य् एतत् तु ओः सुपि (*६,४।८३) इति नियमादपि सिध्यति । अनेकाचः इति किम् ? नियौ । नियः । असंयोगपूर्वस्य इति किम् ? यवक्रियौ । यवक्रियः । धातुना संयोगविशेषणम् किम् ? इह अपि स्याद् उन्न्यौ, उन्न्यः इति । गतिकारकाभ्याम् अन्यपूर्वस्य नेष्यते, परमनियौ, परमनियः इति ॥ ओः सुपि

dhātoḥ iti vartate, tena saṃyogo viśeṣyate / dhātor avayavaḥ saṃyogaḥ pūrvo yasmād ivarṇāna bhavati asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco 'ci parato yaṇādeśo bhavati / ninyatuḥ / ninyuḥ / unnyau / unnyaḥ / grāmaṇyau / grāmaṇyaḥ / eḥ iti kim ? asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, aṅgaviśeṣaṇaṃ mā bhūt iti / luluvatuḥ, luluvuḥ ity etat tu oḥ supi (*6,4.83) iti niyamādapi sidhyati / anekācaḥ iti kim ? niyau / niyaḥ / asaṃyogapūrvasya iti kim ? yavakriyau / yavakriyaḥ / dhātunā saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ iti / gatikārakābhyām anyapūrvasya neṣyate, paramaniyau, paramaniyaḥ iti // oḥ supi

Sanskrit only: no published translation is held for this verse.

धात्व् अवयवः संयोगः पूर्वो यस्माद् उवर्णान् न भवति, तदन्तस्य अङ्गस्य अनेकाचः अजादौ सुपि परतो यणादेशो भवति । खलप्वौ । खलप्वः । शतस्वौ । शतस्वः । सकृल्ल्वौ । सकृल्ल्वः । सुपि इति किम् ? लुलुवतुः । लुलुवुः । अनेकाचः इत्य् एव, लुवौ । लुवः । असंयोगपूर्वस्य इत्य् एव, कटप्रुवौ । कटप्रुवः । गतिकारकाभ्याम् अन्यपूर्वस्य न+इष्यते, परमलुवौ । परमलुवः ॥ वर्षाभ्वश् च

dhātv avayavaḥ saṃyogaḥ pūrvo yasmād uvarṇān na bhavati, tadantasya aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati / khalapvau / khalapvaḥ / śatasvau / śatasvaḥ / sakṛllvau / sakṛllvaḥ / supi iti kim ? luluvatuḥ / luluvuḥ / anekācaḥ ity eva, luvau / luvaḥ / asaṃyogapūrvasya ity eva, kaṭapruvau / kaṭapruvaḥ / gatikārakābhyām anyapūrvasya na+iṣyate, paramaluvau / paramaluvaḥ // varṣābhvaś ca

Sanskrit only: no published translation is held for this verse.

वर्षाभू इत्य् एतस्य अजादौ सुपि परतो यणादेशो भवति । वर्षाभ्वौ । वर्षाभ्वः । पुनर्भ्वश्चेति वक्तव्यम् । पुनर्भ्वौ । पुनर्भवः । कारापूर्वस्यापीष्यते । काराभ्वौ । काराभ्वः ॥ न भूसुधियोः

varṣābhū ity etasya ajādau supi parato yaṇādeśo bhavati / varṣābhvau / varṣābhvaḥ / punarbhvaśceti vaktavyam / punarbhvau / punarbhavaḥ / kārāpūrvasyāpīṣyate / kārābhvau / kārābhvaḥ // na bhūsudhiyoḥ

Sanskrit only: no published translation is held for this verse.

भू सुधी इत्य् एतयोर् यणादेशो न भवति । प्रतिभुवौ । प्रतिभुवः । सुधियौ । सुधियः ॥ छन्दस्य् उभयथा

bhū sudhī ity etayor yaṇādeśo na bhavati / pratibhuvau / pratibhuvaḥ / sudhiyau / sudhiyaḥ // chandasy ubhayathā

Sanskrit only: no published translation is held for this verse.

हुश्नुवोः सार्वधातुके

huśnuvoḥ sārvadhātuke

Sanskrit only: no published translation is held for this verse.

हु इत्य् एतस्य अङ्गस्य श्नुप्रत्ययान्तस्य अनेकाचः असंयोगपूर्वस्य अजादौ सार्वधातुके परतो यणादेशो भवति । जुह्वति । जुह्वतु । जुह्वत् । सुन्वन्ति । सुन्वन्तु । असुन्वन् । हुश्नुवोः इति किम् ? योयुवति । रोरुवति । इदम् एव हुश्नुग्रहणं ज्ञापकं भाषायाम् अपि यङ्लुगस्ति इति । छन्दसि छन्दस्य् उभयथा (*६,४।८६) इत्य् आर्धधातुकत्वाद् एव यणादेशस्य अप्रसङ्गः । नच यङ्लुगन्तादयत् प्रत्युदाहरणम् उवर्णान्तम् अनेकाच् असंयोगपूर्वं सार्वधातुके विद्यते । सार्वधातुके इति किम् ? जुहुवतुः । जुहुवुः । असंयोगपूर्वस्य इत्य् एव, आप्नुवन्ति । राध्नुवन्ति ॥ भुवो वुग् लुङ्लिटोः

hu ity etasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati / juhvati / juhvatu / juhvat / sunvanti / sunvantu / asunvan / huśnuvoḥ iti kim ? yoyuvati / roruvati / idam eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti / chandasi chandasy ubhayathā (*6,4.86) ity ārdhadhātukatvād eva yaṇādeśasya aprasaṅgaḥ / naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ sārvadhātuke vidyate / sārvadhātuke iti kim ? juhuvatuḥ / juhuvuḥ / asaṃyogapūrvasya ity eva, āpnuvanti / rādhnuvanti // bhuvo vug luṅliṭoḥ

Sanskrit only: no published translation is held for this verse.

भुवो वुगागमो भवति लुङि लिटि च अजादौ परतः । अभूवन् । अभूवम् लिट् - बभूव, बभूवतुः, बभवुः ॥ ऊद् उपधाया गोहः

bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ / abhūvan / abhūvam liṭ - babhūva, babhūvatuḥ, babhavuḥ // ūd upadhāyā gohaḥ

Sanskrit only: no published translation is held for this verse.

गोहो ऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः । निगूहति । निगूहकः । साधुनिगूही । निगूहंनिगूहम् । निगूहन्ति । गूहो वर्तते । उपधायाः इति किम् ? अलः अन्त्यस्य मा भूत् । गोहः इति विकृतग्रहणं विषयार्थम् । यत्र अस्य+एतद् रूपं तत्र+एव यथा स्यात् । इह मा भूत्, निजुगुहतुः । निजुगुहुः । अयादेशप्रतिषेधार्थं च केचिद् इच्छन्ति । निगूह्य गतः इत्य् ऊत्वस्य असिद्धत्वाद् ल्यपि लघुपूर्वाद् इति णेरयादेशः स्यात् । व्याश्रयत्वाद् एव असिद्धत्वम् अत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति । अचि इत्य् एव, निगोढा । निगोढुम् ॥ दोषो णौ

goho 'ṅgasya upadhāyā ūkārādeśo bhavati ajādau pratyaye parataḥ / nigūhati / nigūhakaḥ / sādhunigūhī / nigūhaṃnigūham / nigūhanti / gūho vartate / upadhāyāḥ iti kim ? alaḥ antyasya mā bhūt / gohaḥ iti vikṛtagrahaṇaṃ viṣayārtham / yatra asya+etad rūpaṃ tatra+eva yathā syāt / iha mā bhūt, nijuguhatuḥ / nijuguhuḥ / ayādeśapratiṣedhārthaṃ ca kecid icchanti / nigūhya gataḥ ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ syāt / vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti / aci ity eva, nigoḍhā / nigoḍhum // doṣo ṇau

Sanskrit only: no published translation is held for this verse.

दोषः उपधाया ऊकारः आदेशो भवति णौ परतः । दूषयति, दुषयतः, दूषयन्ति । विकृतग्रहणम् प्रक्रमाभेदार्थम् । पूर्वत्र हि गोहः इत्य् उक्तम् । णौ इति किम् ? दोषो वर्तते ॥ वा चित्तविरागे

doṣaḥ upadhāyā ūkāraḥ ādeśo bhavati ṇau parataḥ / dūṣayati, duṣayataḥ, dūṣayanti / vikṛtagrahaṇam prakramābhedārtham / pūrvatra hi gohaḥ ity uktam / ṇau iti kim ? doṣo vartate // vā cittavirāge

Sanskrit only: no published translation is held for this verse.

मितां ह्रस्वः

mitāṃ hrasvaḥ

Sanskrit only: no published translation is held for this verse.

मितो धातवः घटादयो मितः इत्य् एवम् आदयो ये प्रतिपादिताः, तेषाम् उपधाया ह्रस्वो भवति णौ परतः । घटयति । व्यथयति । जनयति । रजयति । शमयति । ज्ञपयति । केचिद् अत्र वा इत्य् अनुवर्तयन्ति । सा च व्यवस्थितविभाषा । तेन उत्क्रामयति, सङ्क्रामयति इत्य् एवम् आदि सिद्धं भवति ॥ चिण्-णमुलोर् दीर्घो ऽन्यतरस्याम्

mito dhātavaḥ ghaṭādayo mitaḥ ity evam ādayo ye pratipāditāḥ, teṣām upadhāyā hrasvo bhavati ṇau parataḥ / ghaṭayati / vyathayati / janayati / rajayati / śamayati / jñapayati / kecid atra vā ity anuvartayanti / sā ca vyavasthitavibhāṣā / tena utkrāmayati, saṅkrāmayati ity evam ādi siddhaṃ bhavati // ciṇ-ṇamulor dīrgho 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

चिण्परे णमुल्परे च णौ परतः मिताम् अङ्गानाम् उपधायाः दीर्घो भवति अन्यतरस्यां । अशमि, अशामि । अतमि, अतामि । शमंशमम्, शामंशामम् । तमन्तमम्, तामन्तामम् । दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते ? न+एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात् । णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत् । शयमन्तं प्रयुक्तवान् । अशमि, अशामि । शमंशमम्, शामंशामम् । शंशमयतेः - अशंशमि, अशंशामि । शंशमंशंशमम्, शंशामंशंशामम् । यो ऽसौ णौ णिर्लुप्यते, यश् च यङ्कारः, तयोर् दिर्घविधौ आदेशो न स्थानिवद् भवति इति अस्थानिवद्भावात् दीर्घः सिद्धो भवति । ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात् । णिण्यन्ते यङ्ण्यन्ते त्व् असिद्धिरेव । व्याश्रयत्वाद् असिद्धत्वम् अपि न अस्ति । णौ हि णियङोर् लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम् ॥ खचि ह्रस्वः

ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ / aśami, aśāmi / atami, atāmi / śamaṃśamam, śāmaṃśāmam / tamantamam, tāmantāmam / dīrghagrahaṇaṃ kiṃ, na hrasvavikalpa eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo na syāt / ṇilopasya sthānivadbhāvād dīrghavidhau tvajādeśo na sthānivat / śayamantaṃ prayuktavān / aśami, aśāmi / śamaṃśamam, śāmaṃśāmam / śaṃśamayateḥ - aśaṃśami, aśaṃśāmi / śaṃśamaṃśaṃśamam, śaṃśāmaṃśaṃśāmam / yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau ādeśo na sthānivad bhavati iti asthānivadbhāvāt dīrghaḥ siddho bhavati / hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt / ṇiṇyante yaṅṇyante tv asiddhireva / vyāśrayatvād asiddhatvam api na asti / ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya dīrghatvam // khaci hrasvaḥ

Sanskrit only: no published translation is held for this verse.

खच्परे णौ परतो ह्रस्वो भवति अङ्गस्य उपधायाः । द्विषन्तपः । परन्तपः । पुरंदरः ॥ ह्लादो निष्ठायाम्

khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ / dviṣantapaḥ / parantapaḥ / puraṃdaraḥ // hlādo niṣṭhāyām

Sanskrit only: no published translation is held for this verse.

ह्लादो ऽङ्गस्य उपधायाः ह्रस्वो भवति निष्ठायां परतः । प्रह्लन्नः । प्रह्लन्नवान् । निष्ठायाम् इति किम् ? प्रह्लादयति । ह्लादः इति योगविभागः क्रियते, क्तिन्यपि यथा स्तात्, प्रह्लत्तिः इति ॥ छादेर् घे ऽद्व्य्-उपसर्गस्य

hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ / prahlannaḥ / prahlannavān / niṣṭhāyām iti kim ? prahlādayati / hlādaḥ iti yogavibhāgaḥ kriyate, ktinyapi yathā stāt, prahlattiḥ iti // chāder ghe 'dvy-upasargasya

Sanskrit only: no published translation is held for this verse.

इस्-मन्-त्रन्-क्विषु च

is-man-tran-kviṣu ca

Sanskrit only: no published translation is held for this verse.

इस् मन् त्रन् क्वि इत्य् एतेषु परतः छादेः उपधायाः ह्रस्वो भवति । छदिः । छद्म । छन्त्त्रम् । धामच्छत् । उपच्छत् ॥ गम-हन-जन-खन-घसां लोपः क्ङित्य् अनङि

is man tran kvi ity eteṣu parataḥ chādeḥ upadhāyāḥ hrasvo bhavati / chadiḥ / chadma / chanttram / dhāmacchat / upacchat // gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi

Sanskrit only: no published translation is held for this verse.

गम हन जन खा घस इत्य् एतेषाम् अङ्गानाम् उपधाया लोपो भवत्य् अजादौ प्रत्यये क्ङिति अनङि परतः । जग्मतुः । जग्मुः । जघ्नतुः । जघ्नुः । जज्ञे, जज्ञाते, जज्ञिरे । चख्नतुः । चख्नुः । जक्षतुः । जक्षुः । अक्षन् पितरो ऽमोमदन्त पितरः । क्ङिति इति किम् ? गमनम् । हननम् । अनङि इति किम् ? अगमत् । अघसत् । अचि इत्य् एव, गम्यते । हन्यते ॥ तनि-पत्योश् छन्दसि

gama hana jana khā ghasa ity eteṣām aṅgānām upadhāyā lopo bhavaty ajādau pratyaye kṅiti anaṅi parataḥ / jagmatuḥ / jagmuḥ / jaghnatuḥ / jaghnuḥ / jajñe, jajñāte, jajñire / cakhnatuḥ / cakhnuḥ / jakṣatuḥ / jakṣuḥ / akṣan pitaro 'momadanta pitaraḥ / kṅiti iti kim ? gamanam / hananam / anaṅi iti kim ? agamat / aghasat / aci ity eva, gamyate / hanyate // tani-patyoś chandasi

Sanskrit only: no published translation is held for this verse.

तनि पति इत्य् एतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः । वितत्निरे कवयः । शकुना इव पप्तिम । छन्दसि इति किम् ? वितेनिरे । पेतिम ॥ घसि-भसोर् हलि च

tani pati ity etayoḥ chandasi viṣaye upadhāyā lopo bhavati ajādau kṅiti pratyaye parataḥ / vitatnire kavayaḥ / śakunā iva paptima / chandasi iti kim ? vitenire / petima // ghasi-bhasor hali ca

Sanskrit only: no published translation is held for this verse.

घसि भस इत्य् एतयोः छन्दसि उपधाया लोपो भवति लहादौ अजादौ च क्गिति प्रत्यये परतः । सग्धिश् च मे सपीतिश् च मे । बब्धाम् ते हरी धानाः । सग्धिः इति अदेः क्तिनि बहुलं छन्दसि इति घस्लादेशे उपधायाः लोपे च कृते झलो झलि (*८,२।२६) इति सकारलोपः । धत्वं तकारस्य, जश्त्वं घकारस्य । ततः समाना ग्धिः सग्धिः इति समासे कृते समानस्य सभावः । बब्धाम् इति भसेर् लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि । द्विर्वचनात् परत्वान् नित्यत्वाच् च उपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते । अजादौ - बप्सति । क्ङिति इत्य् एव, अंशून् बभस्ति ॥ हु-झल्भ्यो हेर् धिः

ghasi bhasa ity etayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ / sagdhiś ca me sapītiś ca me / babdhām te harī dhānāḥ / sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe upadhāyāḥ lope ca kṛte jhalo jhali (*8,2.26) iti sakāralopaḥ / dhatvaṃ takārasya, jaśtvaṃ ghakārasya / tataḥ samānā gdhiḥ sagdhiḥ iti samāse kṛte samānasya sabhāvaḥ / babdhām iti bhaser loṭi tāmi ślau dvirvacane kṛte upadhālopasalopadhatvajaśtvāni kartavyāni / dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na kriyate / ajādau - bapsati / kṅiti ity eva, aṃśūn babhasti // hu-jhalbhyo her dhiḥ

Sanskrit only: no published translation is held for this verse.

श्रु-शृणु-पॄ-कृ-वृभ्यश् छन्दसि

śru-śṛṇu-pṝ-kṛ-vṛbhyaś chandasi

Sanskrit only: no published translation is held for this verse.

श्रु शृणु पॄ कृ वृ इत्य् एतेभ्य उत्तरस्य हेः धिरादेशो हवति छन्दसि विषये । श्रुधी हवमिन्द्र । शृणुधी गिरः । पूर्धि । उरु णस्कृधि । अपा वृधि । शृणुधि इत्य् अत्र धिभावविधानसामार्थ्याद् उतश् च प्रत्ययात् इति हेर्लुक् न भवति । अन्येषाम् अपि दृश्यते इति दीर्घत्वम् । अतो ऽन्यत्र व्यत्ययो बहुलम् इति शप्, तस्य बहुलं छन्दसि इति लुक् ॥ अङितश् च

śru śṛṇu pṝ kṛ vṛ ity etebhya uttarasya heḥ dhirādeśo havati chandasi viṣaye / śrudhī havamindra / śṛṇudhī giraḥ / pūrdhi / uru ṇaskṛdhi / apā vṛdhi / śṛṇudhi ity atra dhibhāvavidhānasāmārthyād utaś ca pratyayāt iti herluk na bhavati / anyeṣām api dṛśyate iti dīrghatvam / ato 'nyatra vyatyayo bahulam iti śap, tasya bahulaṃ chandasi iti luk // aṅitaś ca

Sanskrit only: no published translation is held for this verse.

अङितश् च हेर्धिरादेशो भवति । वा छन्दसि इति पित्वेनास्य अङित्त्वम् । सोमं रारन्द्ः । असमभ्यं तद्धर्यश्व प्रयन्धि । युयोध्यस्मज्जुहुराणमेनः । अङितः इति किम् ? ह्वयं प्रीणीहि । रारन्धि इति रमेर्व्यत्ययेन परस्मैपदम् , शपः श्लु, अभ्यासदीर्घत्वं छान्दसत्वात् । मलोपाभावस् तु अङित्त्वाद् एव । प्रयन्धि इति यमेः शपो लुक् । युयोधि इति यौतेः शपः श्लुः ॥ चिणो लुक्

aṅitaś ca herdhirādeśo bhavati / vā chandasi iti pitvenāsya aṅittvam / somaṃ rārandḥ / asamabhyaṃ taddharyaśva prayandhi / yuyodhyasmajjuhurāṇamenaḥ / aṅitaḥ iti kim ? hvayaṃ prīṇīhi / rārandhi iti ramervyatyayena parasmaipadam , śapaḥ ślu, abhyāsadīrghatvaṃ chāndasatvāt / malopābhāvas tu aṅittvād eva / prayandhi iti yameḥ śapo luk / yuyodhi iti yauteḥ śapaḥ śluḥ // ciṇo luk

Sanskrit only: no published translation is held for this verse.

चिण उत्तरस्य प्रत्ययस्य लुग् भवति । अकारि । अहारि । अलावि । अपाचि । अकारितराम्, अहारितमाम् इत्य् अत्र तलोपस्य असिद्धत्वात् तरप्तमपोर् न लुग् भवति । चिणो लुक् इत्य् एतद् विषयभेदाद् भिद्यते ॥ अतो हेः

ciṇa uttarasya pratyayasya lug bhavati / akāri / ahāri / alāvi / apāci / akāritarām, ahāritamām ity atra talopasya asiddhatvāt taraptamapor na lug bhavati / ciṇo luk ity etad viṣayabhedād bhidyate // ato heḥ

Sanskrit only: no published translation is held for this verse.

अकारान्ताद् अङ्गाद् उत्तरस्य हेः लुग् भवति । पच । पठ । गच्छ । धाब । अतः इति किम् ? युहि । रुहि । तपरकरणं किम् ? लुनीहि । पुनीहि । ईत्वस्य असिद्धत्वाद् अकार एव भवति ॥ उतश् च प्रत्ययाद् असंयोगपूर्वात्

akārāntād aṅgād uttarasya heḥ lug bhavati / paca / paṭha / gaccha / dhāba / ataḥ iti kim ? yuhi / ruhi / taparakaraṇaṃ kim ? lunīhi / punīhi / ītvasya asiddhatvād akāra eva bhavati // utaś ca pratyayād asaṃyogapūrvāt

Sanskrit only: no published translation is held for this verse.

लोपश् च अस्य अन्यतरस्यां ंवोः

lopaś ca asya anyatarasyāṃ ṃvoḥ

Sanskrit only: no published translation is held for this verse.

यो ऽयम् उकारो ऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्य अन्यतरस्यां लोपो भवति वकारम् अकारादौ प्रत्यये परतः । सुन्वः, सुनुवः । सुन्मः, सुनुमः । तन्वः, तनुवः । तन्मः, अनुमः । प्रत्ययस्य इत्य् एव, युवः । युमः । असंयोगपूर्वस्य इत्य् एव, शक्नुवः । शक्नुमः । लुक् इति वर्तमाने लोपग्रहणम् अन्त्यलोपार्थम् ॥ नित्यं करोतेः

yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati vakāram akārādau pratyaye parataḥ / sunvaḥ, sunuvaḥ / sunmaḥ, sunumaḥ / tanvaḥ, tanuvaḥ / tanmaḥ, anumaḥ / pratyayasya ity eva, yuvaḥ / yumaḥ / asaṃyogapūrvasya ity eva, śaknuvaḥ / śaknumaḥ / luk iti vartamāne lopagrahaṇam antyalopārtham // nityaṃ karoteḥ

Sanskrit only: no published translation is held for this verse.

करोतेः उत्तरस्य उकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतः नित्यं लोपो भवति । कुर्वः । कुर्मः । उकारलोपस्य दीर्घविधौ अस्थानिवद्भावाद् हलि च (*८,२।७७) इति दीर्घत्वं प्राप्तम्, न भकुर्छुराम् (*८,२।७१) इति प्रतिषिध्यते ॥ ये च

karoteḥ uttarasya ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo bhavati / kurvaḥ / kurmaḥ / ukāralopasya dīrghavidhau asthānivadbhāvād hali ca (*8,2.77) iti dīrghatvaṃ prāptam, na bhakurchurām (*8,2.71) iti pratiṣidhyate // ye ca

Sanskrit only: no published translation is held for this verse.

यकारादौच प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति । कुर्यात्, कुर्याताम्, कुर्युः ॥ अत उत् सार्वधातुके

yakārādauca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityaṃ lopo bhavati / kuryāt, kuryātām, kuryuḥ // ata ut sārvadhātuke

Sanskrit only: no published translation is held for this verse.

उकारप्रत्ययान्तस्य करोतेः अकारस्य स्थाने उकारः आदेशो भवति सार्वधातुके क्ङिति परतः । कुरुतः । कुर्वन्ति । सार्वधातुकग्रहणं किम् ? भूतपूर्वे ऽपि सार्वधातुके यथा स्यात्, कुरु । तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम् । क्ङिति इत्य् एव, करोति । करोषि । करोमि ॥ श्नसोरल्लोपः

ukārapratyayāntasya karoteḥ akārasya sthāne ukāraḥ ādeśo bhavati sārvadhātuke kṅiti parataḥ / kurutaḥ / kurvanti / sārvadhātukagrahaṇaṃ kim ? bhūtapūrve 'pi sārvadhātuke yathā syāt, kuru / taparakaraṇaṃ laghūpadhasya guṇanivṛttyartham / kṅiti ity eva, karoti / karoṣi / karomi // śnasorallopaḥ

Sanskrit only: no published translation is held for this verse.

श्नस्य अस्तेश् च अकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । रुन्धः । रुन्धन्ति । भिन्तः । भिन्दन्ति । अस्तेः - स्तः । सन्ति । क्ङिति इत्य् एव - भिनत्ति । अस्ति । श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिसु द्रष्टव्यम् ॥ श्ना-अभ्यस् तयोर् आतः

śnasya asteś ca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ / rundhaḥ / rundhanti / bhintaḥ / bhindanti / asteḥ - staḥ / santi / kṅiti ity eva - bhinatti / asti / śnasoḥ iti ākārasya pararūpatvaṃ śakandhvādisu draṣṭavyam // śnā-abhyas tayor ātaḥ

Sanskrit only: no published translation is held for this verse.

ई हल्यधोः

ī halyadhoḥ

Sanskrit only: no published translation is held for this verse.

श्नान्तानाम् अङ्गानाम् अभ्यस्तानां च घुवर्जितानाम् आतः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः । लुनीतः । पुनीतः । लुनीथः । पुनीथः । लुनीते । पुनीते । अभ्यस्तानाम् - मिमीते । मिमीषे । मिमीध्वे । संजिहीते । संजिहीषे । संजिहीध्वे । हलि इति किम् ? लुनन्ति । मिमते । अघोः इति किम् ? दत्तः । धत्तः । क्ङिति इत्य् एव, लुनाति । जहाति ॥ इद् दरिद्रस्य

śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau sārvadhātuke kṅiti parataḥ / lunītaḥ / punītaḥ / lunīthaḥ / punīthaḥ / lunīte / punīte / abhyastānām - mimīte / mimīṣe / mimīdhve / saṃjihīte / saṃjihīṣe / saṃjihīdhve / hali iti kim ? lunanti / mimate / aghoḥ iti kim ? dattaḥ / dhattaḥ / kṅiti ity eva, lunāti / jahāti // id daridrasya

Sanskrit only: no published translation is held for this verse.

दरिद्रातेः हलादौ सार्वधातुके क्ङिति परतः इकरादेशो भवति । दरिद्रितः दरिद्रिथः । दरिद्रिवः । दरिद्रिमः । हलि इत्य् एव, दरिद्रति । क्ङिति इत्य् एव, दरिद्राति । दरिद्रातेर् आर्धधातुके लोपो वक्तव्यः । सिद्धश् च प्रत्ययविधौ भवति इति वक्तव्यम् । दरिद्राति इति दरिद्रः । आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति । न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥ अद्यतन्यां वेति वक्तव्यम् । अदरिद्रीत्, अदरिद्रासीत् । दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वम् द्रष्तव्यम् ॥ भियो ऽन्यतरस्यम्

daridrāteḥ halādau sārvadhātuke kṅiti parataḥ ikarādeśo bhavati / daridritaḥ daridrithaḥ / daridrivaḥ / daridrimaḥ / hali ity eva, daridrati / kṅiti ity eva, daridrāti / daridrāter ārdhadhātuke lopo vaktavyaḥ / siddhaś ca pratyayavidhau bhavati iti vaktavyam / daridrāti iti daridraḥ / ākārāntalakṣaṇo ṇapratyayo na bhavati, pacāditvādajeva bhavati / na daridrāyake lopo daridrāṇe ca neṣyate / didaridrāsatītyeke didaridriṣatīti vā // adyatanyāṃ veti vaktavyam / adaridrīt, adaridrāsīt / daridrasya iti nirdeśe chāndasaṃ hrasvatvam draṣtavyam // bhiyo 'nyatarasyam

Sanskrit only: no published translation is held for this verse.

भी इत्य् एतस्य अङ्गस्य अन्यतरस्याम् इकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः । बिभितः, बिभीतः । बिभिथः, बिभीथः । बिभिवः, बिभीवः । बिभिमः, बिभीमः । हलादौ इत्य् एव, विभ्यति । क्ङिति इत्य् एव, बिभेति । सार्वधातुके इत्य् एव, भीयते ॥ जहातेश् च

bhī ity etasya aṅgasya anyatarasyām ikārādeśo bhavati halādau kṅiti sārvadhātuke parataḥ / bibhitaḥ, bibhītaḥ / bibhithaḥ, bibhīthaḥ / bibhivaḥ, bibhīvaḥ / bibhimaḥ, bibhīmaḥ / halādau ity eva, vibhyati / kṅiti ity eva, bibheti / sārvadhātuke ity eva, bhīyate // jahāteś ca

Sanskrit only: no published translation is held for this verse.

आ च हौ

ā ca hau

Sanskrit only: no published translation is held for this verse.

जहातेर् आकारश् च अन्तादेशो भवति इकारश् च अन्यतरस्यां हौ परतः । जहाहि, जहिहि, जहीहि ॥ लोपो यि

jahāter ākāraś ca antādeśo bhavati ikāraś ca anyatarasyāṃ hau parataḥ / jahāhi, jahihi, jahīhi // lopo yi

Sanskrit only: no published translation is held for this verse.

घ्व्-असोर् एद्-धाव् अभ्यासलोपश् च

ghv-asor ed-dhāv abhyāsalopaś ca

Sanskrit only: no published translation is held for this verse.

घुसञ्ज्ञाकानाम् अङ्गानाम् अस्तेश् च एकारादेशो भवति हौ परतः अभ्यासलोपश् च । देहि । धेहि । अस्तेः - श्न-सोर् अल्-लोपः (*६,४।१११) । इत्य् अकारलोपः, एधि । शिदयम् लोपः, तेन सर्वस्याभ्यासस्य भवति ॥ अत एकहल्मध्ये ऽनादेशादेर् लिटि

ghusañjñākānām aṅgānām asteś ca ekārādeśo bhavati hau parataḥ abhyāsalopaś ca / dehi / dhehi / asteḥ - śna-sor al-lopaḥ (*6,4.111) / ity akāralopaḥ, edhi / śidayam lopaḥ, tena sarvasyābhyāsasya bhavati // ata ekahalmadhye 'nādeśāder liṭi

Sanskrit only: no published translation is held for this verse.