अतु अस् इत्य् एवम् अन्तस्य अधातोर् उपधायाः सावसम्बुद्धौ परतः दीर्घो भवति । डवतु - भवान् । क्तवतु - कृतवान् । मतुप् - गोमान् । यवमान् । अत्र कृते दीर्घे नुमागमः कर्तव्यः । यदि हि परत्वान् नित्यत्वाच् च नुम् स्यत्, दीर्घस्य निमित्तमतूपधा विहन्येत । असन्तस्य - सुपयाः । सुयशाः । सुश्रोताः । अधातोः इति किम् ? पिण्डं ग्रसते इति पिण्डग्रः । चर्म वस्ते इति चर्मवः । अनर्थको ऽप्य् अस्शब्दो गृह्यते, अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इति । अन्तग्रहणम् उपदेशप्रयोगैकदेशस्य अप्य् अत्वन्तस्य परिग्रहार्थम्, अन्यथा मतुपो ग्रहणम् न स्याद्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्तः इति । असम्बुद्धौ इत्य् एव, हे गोमन् । सुपयः ॥ अनुनासिकस्य क्वि-झलोः क्ङिति
atu as ity evam antasya adhātor upadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati / ḍavatu - bhavān / ktavatu - kṛtavān / matup - gomān / yavamān / atra kṛte dīrghe numāgamaḥ kartavyaḥ / yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta / asantasya - supayāḥ / suyaśāḥ / suśrotāḥ / adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ / carma vaste iti carmavaḥ / anarthako 'py asśabdo gṛhyate, aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti iti / antagrahaṇam upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ iti / asambuddhau ity eva, he goman / supayaḥ // anunāsikasya kvi-jhaloḥ kṅiti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.