असिद्धं बहिरङ्गमन्तरङ्गे इति नाजानन्तर्ये इति प्रतिषिध्यते । झलादौ छस्य - पृष्टः । पृष्टवान् । पृष्ट्वा । वकारस्य - द्यूतः । द्यूतवान् । द्यूत्वा । क्ङिति इत्य् एव, द्युभ्यास् । द्युभिः । केचिद् अत्र क्ङिति इति न अनुवर्तयन्ति । कथं द्युभ्याम्, द्युभिः इति ऊठि कृते ? दिव उत् (*६,१।१३१) इति तपरत्वान् मात्राकालो भविष्यति । छशां षः इत्य् अत्र छग्रहणं न कर्तव्यम् । अनेन+एव हि सर्वत्र शकारो विधीयते । ऊठष्ठित्करणम् एत्यधत्यूठ्सु (*६,१।१८९) इति विशेषणार्थम् । वाह ऊट्ः (*६,४।१३९) इत्य् अयम् अपि ठिदेव ॥ ज्वर-त्वर-स्रिव्य्-अवि-मवाम् उपधायाश् च
asiddhaṃ bahiraṅgamantaraṅge iti nājānantarye iti pratiṣidhyate / jhalādau chasya - pṛṣṭaḥ / pṛṣṭavān / pṛṣṭvā / vakārasya - dyūtaḥ / dyūtavān / dyūtvā / kṅiti ity eva, dyubhyās / dyubhiḥ / kecid atra kṅiti iti na anuvartayanti / kathaṃ dyubhyām, dyubhiḥ iti ūṭhi kṛte ? diva ut (*6,1.131) iti taparatvān mātrākālo bhaviṣyati / chaśāṃ ṣaḥ ity atra chagrahaṇaṃ na kartavyam / anena+eva hi sarvatra śakāro vidhīyate / ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (*6,1.189) iti viśeṣaṇārtham / vāha ūṭḥ (*6,4.139) ity ayam api ṭhideva // jvara-tvara-srivy-avi-mavām upadhāyāś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.