गोहो ऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः । निगूहति । निगूहकः । साधुनिगूही । निगूहंनिगूहम् । निगूहन्ति । गूहो वर्तते । उपधायाः इति किम् ? अलः अन्त्यस्य मा भूत् । गोहः इति विकृतग्रहणं विषयार्थम् । यत्र अस्य+एतद् रूपं तत्र+एव यथा स्यात् । इह मा भूत्, निजुगुहतुः । निजुगुहुः । अयादेशप्रतिषेधार्थं च केचिद् इच्छन्ति । निगूह्य गतः इत्य् ऊत्वस्य असिद्धत्वाद् ल्यपि लघुपूर्वाद् इति णेरयादेशः स्यात् । व्याश्रयत्वाद् एव असिद्धत्वम् अत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति । अचि इत्य् एव, निगोढा । निगोढुम् ॥ दोषो णौ
goho 'ṅgasya upadhāyā ūkārādeśo bhavati ajādau pratyaye parataḥ / nigūhati / nigūhakaḥ / sādhunigūhī / nigūhaṃnigūham / nigūhanti / gūho vartate / upadhāyāḥ iti kim ? alaḥ antyasya mā bhūt / gohaḥ iti vikṛtagrahaṇaṃ viṣayārtham / yatra asya+etad rūpaṃ tatra+eva yathā syāt / iha mā bhūt, nijuguhatuḥ / nijuguhuḥ / ayādeśapratiṣedhārthaṃ ca kecid icchanti / nigūhya gataḥ ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ syāt / vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti / aci ity eva, nigoḍhā / nigoḍhum // doṣo ṇau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.