चिण्परे णमुल्परे च णौ परतः मिताम् अङ्गानाम् उपधायाः दीर्घो भवति अन्यतरस्यां । अशमि, अशामि । अतमि, अतामि । शमंशमम्, शामंशामम् । तमन्तमम्, तामन्तामम् । दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते ? न+एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात् । णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत् । शयमन्तं प्रयुक्तवान् । अशमि, अशामि । शमंशमम्, शामंशामम् । शंशमयतेः - अशंशमि, अशंशामि । शंशमंशंशमम्, शंशामंशंशामम् । यो ऽसौ णौ णिर्लुप्यते, यश् च यङ्कारः, तयोर् दिर्घविधौ आदेशो न स्थानिवद् भवति इति अस्थानिवद्भावात् दीर्घः सिद्धो भवति । ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात् । णिण्यन्ते यङ्ण्यन्ते त्व् असिद्धिरेव । व्याश्रयत्वाद् असिद्धत्वम् अपि न अस्ति । णौ हि णियङोर् लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम् ॥ खचि ह्रस्वः
ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ / aśami, aśāmi / atami, atāmi / śamaṃśamam, śāmaṃśāmam / tamantamam, tāmantāmam / dīrghagrahaṇaṃ kiṃ, na hrasvavikalpa eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo na syāt / ṇilopasya sthānivadbhāvād dīrghavidhau tvajādeśo na sthānivat / śayamantaṃ prayuktavān / aśami, aśāmi / śamaṃśamam, śāmaṃśāmam / śaṃśamayateḥ - aśaṃśami, aśaṃśāmi / śaṃśamaṃśaṃśamam, śaṃśāmaṃśaṃśāmam / yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau ādeśo na sthānivad bhavati iti asthānivadbhāvāt dīrghaḥ siddho bhavati / hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt / ṇiṇyante yaṅṇyante tv asiddhireva / vyāśrayatvād asiddhatvam api na asti / ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya dīrghatvam // khaci hrasvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.