गम हन जन खा घस इत्य् एतेषाम् अङ्गानाम् उपधाया लोपो भवत्य् अजादौ प्रत्यये क्ङिति अनङि परतः । जग्मतुः । जग्मुः । जघ्नतुः । जघ्नुः । जज्ञे, जज्ञाते, जज्ञिरे । चख्नतुः । चख्नुः । जक्षतुः । जक्षुः । अक्षन् पितरो ऽमोमदन्त पितरः । क्ङिति इति किम् ? गमनम् । हननम् । अनङि इति किम् ? अगमत् । अघसत् । अचि इत्य् एव, गम्यते । हन्यते ॥ तनि-पत्योश् छन्दसि
gama hana jana khā ghasa ity eteṣām aṅgānām upadhāyā lopo bhavaty ajādau pratyaye kṅiti anaṅi parataḥ / jagmatuḥ / jagmuḥ / jaghnatuḥ / jaghnuḥ / jajñe, jajñāte, jajñire / cakhnatuḥ / cakhnuḥ / jakṣatuḥ / jakṣuḥ / akṣan pitaro 'momadanta pitaraḥ / kṅiti iti kim ? gamanam / hananam / anaṅi iti kim ? agamat / aghasat / aci ity eva, gamyate / hanyate // tani-patyoś chandasi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.