यु वु इत्य् एतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर् ग्रहणम्, तयोः स्थाने यथासङ्ख्यम् अन अक इत्य् एताव् आदेशौ भवतः । योः अनः, वोः अकः । नन्द्यादिभ्यो ल्युः - नन्दनः । रमणः । सायमादिभ्यष्ट्युट्युलौ तुट् च - सायनतनः । चिरन्तनः । ण्वुल्तृचौ - कारकः । हारकः । वासुदेव-अर्जुनाभ्यां वुन् (*४,३।९८) - वूसुदेवकः । अर्जुनकः । अनुनासिकयणोः इति किम् ? ऊर्णाया युस् (*५,२।१२३) - ऊर्णायुः । भुजिमृङ्भ्यां युक्त्युकौ - भुज्युः, मृत्युः इति । एवम् आदीनां हि यणो ऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः । इह युवोर् इति निर्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यम् आगमशासनम् इति नुम् न क्रियते । नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल् लिङ्गस्य इति न भवति । इतरेतरपक्षे तु छान्दसत्वात् वर्णलोपो द्रष्टव्यः । युवोश् चेद् द्वित्वनिर्देशो द्वित्वे यण् तु प्रसज्यते । अथ चेद् एकवद्भावः कथं पुंवद् भवेदयम् ॥ द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता । अशिष्यत्वाद् धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम् ॥ आयन्-एय्-ईन्-ईय्-इयः फ-ढ-ख-छ-घां प्रत्ययाअदीनाम्
yu vu ity etayoḥ utsṛṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ / yoḥ anaḥ, voḥ akaḥ / nandyādibhyo lyuḥ - nandanaḥ / ramaṇaḥ / sāyamādibhyaṣṭyuṭyulau tuṭ ca - sāyanatanaḥ / cirantanaḥ / ṇvultṛcau - kārakaḥ / hārakaḥ / vāsudeva-arjunābhyāṃ vun (*4,3.98) - vūsudevakaḥ / arjunakaḥ / anunāsikayaṇoḥ iti kim ? ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ / bhujimṛṅbhyāṃ yuktyukau - bhujyuḥ, mṛtyuḥ iti / evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, pratijñānunāsikyāḥ pāṇinīyāḥ / iha yuvor iti nirdeśād dvandvaikavadbhāvapakṣe anityam āgamaśāsanam iti num na kriyate / napuṃsakaliṅgatā vā liṅgamaśiṣyaṃ lokāśrayatvāl liṅgasya iti na bhavati / itaretarapakṣe tu chāndasatvāt varṇalopo draṣṭavyaḥ / yuvoś ced dvitvanirdeśo dvitve yaṇ tu prasajyate / atha ced ekavadbhāvaḥ kathaṃ puṃvad bhavedayam // dvitve vaigamiko lopa ekatve numanityatā / aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam // āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.