यु-वोर् अन-अकौ
yu-vor ana-akau
Sanskrit only: no published translation is held for this verse.
Library·Jayaditya & Vamana: Kasikavrtti·7·7.1
यु-वोर् अन-अकौ
yu-vor ana-akau
Sanskrit only: no published translation is held for this verse.
यु वु इत्य् एतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर् ग्रहणम्, तयोः स्थाने यथासङ्ख्यम् अन अक इत्य् एताव् आदेशौ भवतः । योः अनः, वोः अकः । नन्द्यादिभ्यो ल्युः - नन्दनः । रमणः । सायमादिभ्यष्ट्युट्युलौ तुट् च - सायनतनः । चिरन्तनः । ण्वुल्तृचौ - कारकः । हारकः । वासुदेव-अर्जुनाभ्यां वुन् (*४,३।९८) - वूसुदेवकः । अर्जुनकः । अनुनासिकयणोः इति किम् ? ऊर्णाया युस् (*५,२।१२३) - ऊर्णायुः । भुजिमृङ्भ्यां युक्त्युकौ - भुज्युः, मृत्युः इति । एवम् आदीनां हि यणो ऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः । इह युवोर् इति निर्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यम् आगमशासनम् इति नुम् न क्रियते । नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल् लिङ्गस्य इति न भवति । इतरेतरपक्षे तु छान्दसत्वात् वर्णलोपो द्रष्टव्यः । युवोश् चेद् द्वित्वनिर्देशो द्वित्वे यण् तु प्रसज्यते । अथ चेद् एकवद्भावः कथं पुंवद् भवेदयम् ॥ द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता । अशिष्यत्वाद् धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम् ॥ आयन्-एय्-ईन्-ईय्-इयः फ-ढ-ख-छ-घां प्रत्ययाअदीनाम्
yu vu ity etayoḥ utsṛṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ / yoḥ anaḥ, voḥ akaḥ / nandyādibhyo lyuḥ - nandanaḥ / ramaṇaḥ / sāyamādibhyaṣṭyuṭyulau tuṭ ca - sāyanatanaḥ / cirantanaḥ / ṇvultṛcau - kārakaḥ / hārakaḥ / vāsudeva-arjunābhyāṃ vun (*4,3.98) - vūsudevakaḥ / arjunakaḥ / anunāsikayaṇoḥ iti kim ? ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ / bhujimṛṅbhyāṃ yuktyukau - bhujyuḥ, mṛtyuḥ iti / evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, pratijñānunāsikyāḥ pāṇinīyāḥ / iha yuvor iti nirdeśād dvandvaikavadbhāvapakṣe anityam āgamaśāsanam iti num na kriyate / napuṃsakaliṅgatā vā liṅgamaśiṣyaṃ lokāśrayatvāl liṅgasya iti na bhavati / itaretarapakṣe tu chāndasatvāt varṇalopo draṣṭavyaḥ / yuvoś ced dvitvanirdeśo dvitve yaṇ tu prasajyate / atha ced ekavadbhāvaḥ kathaṃ puṃvad bhavedayam // dvitve vaigamiko lopa ekatve numanityatā / aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam // āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām
Sanskrit only: no published translation is held for this verse.
झो ऽन्तः
jho 'ntaḥ
Sanskrit only: no published translation is held for this verse.
प्रत्ययग्रहणम् अनुवर्तते, आदिग्रहणं निवृत्तम् । प्रत्ययावयवस्य झस्य अन्त इत्य् अयम् आदेशो भवति । कुर्वन्ति । सुन्वन्ति । चिन्वन्ति । अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै । जॄविशिभ्यां झच् - जरनतः । वेशन्तः । प्रत्ययस्य इत्य् एव, उज्झिता । उज्झितुम् । उज्झितब्यम् । अस्मिन्न् अप्य् अन्तादेशे कृते प्रत्ययाद्युदात्त्वं भवति । तथा च झचः चित्करणम् अर्थवच् भवति ॥ अद् अभ्यस्तात्
pratyayagrahaṇam anuvartate, ādigrahaṇaṃ nivṛttam / pratyayāvayavasya jhasya anta ity ayam ādeśo bhavati / kurvanti / sunvanti / cinvanti / adya śvo vijaniṣyamāṇāḥ patibhiḥ saha śayāntai / jṝviśibhyāṃ jhac - jaranataḥ / veśantaḥ / pratyayasya ity eva, ujjhitā / ujjhitum / ujjhitabyam / asminn apy antādeśe kṛte pratyayādyudāttvaṃ bhavati / tathā ca jhacaḥ citkaraṇam arthavac bhavati // ad abhyastāt
Sanskrit only: no published translation is held for this verse.
अभ्यस्ता दङ्गाद् उत्तरस्य झकारस्य अत् इत्य् अयम् आदेशो भवति । ददति । ददतु । दधति । दधतु । जक्षति । जक्षतु । जाग्रति । जाग्रतु । अन्तादेशापवादो ऽयं जुसादेशेन तु बाध्यते । अदघुः । अजागरुः । अत्राप्यादेशो कृते प्रत्ययाद्युदातत्वं भवति ॥ आत्मनेपदेष्व् अनतः
abhyastā daṅgād uttarasya jhakārasya at ity ayam ādeśo bhavati / dadati / dadatu / dadhati / dadhatu / jakṣati / jakṣatu / jāgrati / jāgratu / antādeśāpavādo 'yaṃ jusādeśena tu bādhyate / adaghuḥ / ajāgaruḥ / atrāpyādeśo kṛte pratyayādyudātatvaṃ bhavati // ātmanepadeṣv anataḥ
Sanskrit only: no published translation is held for this verse.
आत्मनेपदेषु यो झकारः, तस्य अनकारान्तात् अङ्गात् उत्तरस्य अत् इत्य् अयम् आदेशो भवति । चिन्वते । चिन्वताम् । अचिन्वत । पुनते । लुनते । लुनताम् । अलुनत । आत्मनेपदेषु इति किम् ? चिन्वन्ति । लुनन्ति । अनतः इति किम् ? च्यवन्ते । प्लवन्ते । नित्यत्वाद् अत्र विकरणे कृते झो ऽन्तादेशेन भवितव्यम् इत्य् अदादेशो न भवति । अनकारान्तेन अङ्गेन झकारविशेषणं किम् ? इह मा भूत्, अद्य श्वो विजनिष्यमाणाः पतिभिः शयान्तै ॥ शीङो रुट्
ātmanepadeṣu yo jhakāraḥ, tasya anakārāntāt aṅgāt uttarasya at ity ayam ādeśo bhavati / cinvate / cinvatām / acinvata / punate / lunate / lunatām / alunata / ātmanepadeṣu iti kim ? cinvanti / lunanti / anataḥ iti kim ? cyavante / plavante / nityatvād atra vikaraṇe kṛte jho 'ntādeśena bhavitavyam ity adādeśo na bhavati / anakārāntena aṅgena jhakāraviśeṣaṇaṃ kim ? iha mā bhūt, adya śvo vijaniṣyamāṇāḥ patibhiḥ śayāntai // śīṅo ruṭ
Sanskrit only: no published translation is held for this verse.
शीङो ऽङ्गाद् उत्तरस्य झादेशस्य अतः रुडागमो भवति । शेरते । शेरताम् । अशेरत । रुडयं परादिः क्रियते । स यदि झकारस्य+एव स्याद् अदादेशो न स्याद् इत्य् अत एव अयम् आदेशस्य आगमो विधीयते । सानुबन्धग्रहणम् आङ्लुगर्थम् । तेन+इह न भवति, व्यतिशेश्यते ॥ वेत्तेर् विभाषा
śīṅo 'ṅgād uttarasya jhādeśasya ataḥ ruḍāgamo bhavati / śerate / śeratām / aśerata / ruḍayaṃ parādiḥ kriyate / sa yadi jhakārasya+eva syād adādeśo na syād ity ata eva ayam ādeśasya āgamo vidhīyate / sānubandhagrahaṇam āṅlugartham / tena+iha na bhavati, vyatiśeśyate // vetter vibhāṣā
Sanskrit only: no published translation is held for this verse.
बहुलं छन्दसि
bahulaṃ chandasi
Sanskrit only: no published translation is held for this verse.
छन्दसि विषये बहुलं रुडागमो भवति । देवा अदुह्र । गन्धर्वा अप्सरसो अदुह्र । दुहेर्लङि झकारस्य अदादेशे कृते रुट् । लोपस्य आत्मनेपदेषु (*७,२।४१) इति तकारलोपः । न च भवति, अदुहत । बहुलवचनाद् अन्यत्र अपि भवति । अदृश्रमस्य केतवः । ऋदुशो ऽडि गुणः (*७,४।१६) इत्य् एतद् अपि बहुलवचनाद् एव अत्र न भवति ॥ अतो भिस ऐस्
chandasi viṣaye bahulaṃ ruḍāgamo bhavati / devā aduhra / gandharvā apsaraso aduhra / duherlaṅi jhakārasya adādeśe kṛte ruṭ / lopasya ātmanepadeṣu (*7,2.41) iti takāralopaḥ / na ca bhavati, aduhata / bahulavacanād anyatra api bhavati / adṛśramasya ketavaḥ / ṛduśo 'ḍi guṇaḥ (*7,4.16) ity etad api bahulavacanād eva atra na bhavati // ato bhisa ais
Sanskrit only: no published translation is held for this verse.
अकारान्ताद् अङ्गाद् उत्तरस्य भिसः ऐस् इत्य् अयम् आदेशो भवति । वृक्षैः । प्लक्षैः । अतिजरसैः । जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति । एकदेशविकृतमनन्यवद् भवति इति जरशब्दस्य जरसादेशः । सन्निपातलक्षणो विधिर् अनिमित्तं तद्विघातस्य इति परिभाषा इयम् अनित्या, कष्टाय क्रमणे (*३,१।१४) इति निर्देशात् । अतः इति किम् ? अग्निभिः । वायुभिः । तपरकरणं किम् ? खट्वाभिः । मालाभिः । एत्वम् भिसि परत्वाच् चेद् अत ऐस् क्व भविष्यति । कृते ऽप्य् एत्वे भौतपूर्व्यादैस् तु नित्यस् तथा सति ॥ अतः इत्यधिकारो जसः शी इति यावत् ॥ बहुलं छन्दसि
akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati / vṛkṣaiḥ / plakṣaiḥ / atijarasaiḥ / jarāmatikrāntaiḥ iti vigṛhya samāse kṛte hrasvatve ca bhisa aisādeśo bhavati / ekadeśavikṛtamananyavad bhavati iti jaraśabdasya jarasādeśaḥ / sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti paribhāṣā iyam anityā, kaṣṭāya kramaṇe (*3,1.14) iti nirdeśāt / ataḥ iti kim ? agnibhiḥ / vāyubhiḥ / taparakaraṇaṃ kim ? khaṭvābhiḥ / mālābhiḥ / etvam bhisi paratvāc ced ata ais kva bhaviṣyati / kṛte 'py etve bhautapūrvyādais tu nityas tathā sati // ataḥ ityadhikāro jasaḥ śī iti yāvat // bahulaṃ chandasi
Sanskrit only: no published translation is held for this verse.
छन्दसि विषये बहुलमैसादेशो भवति । अतः इत्युक्तम्, अनतो ऽपि भवति नद्यैः इति । अतो न भवति , देवेभिः सर्वेभिः प्रोक्तम् इति ॥ न+इदम्-अदसोर् अकोः
chandasi viṣaye bahulamaisādeśo bhavati / ataḥ ityuktam, anato 'pi bhavati nadyaiḥ iti / ato na bhavati , devebhiḥ sarvebhiḥ proktam iti // na+idam-adasor akoḥ
Sanskrit only: no published translation is held for this verse.
इदम् अदस् इत्य् एतयोः अककारयोः भिस ऐस् न भवति । एभिः । अमीभिः । अकोः इति किम् ? इमकैः । अमुकैः । अकोः इत्य् एतद् एव प्रतिषेधवचनं ज्ञापकम् तन्मध्यपतितस्तद्ग्रहनेन गृह्यते इति । इदमदसोः कात् इति नोक्तम्, विपरीतो ऽपि नियमः सम्भाव्येत इदमदसोर् एव कात् इति । ततश् च+इह न स्यात्, सर्वकैः, विश्वकैः । इह च स्याद् एव, एभिः, अमीभिः । प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम् ॥ टा-ङसि-ङसाम् इन-आत्-स्याः
idam adas ity etayoḥ akakārayoḥ bhisa ais na bhavati / ebhiḥ / amībhiḥ / akoḥ iti kim ? imakaiḥ / amukaiḥ / akoḥ ity etad eva pratiṣedhavacanaṃ jñāpakam tanmadhyapatitastadgrahanena gṛhyate iti / idamadasoḥ kāt iti noktam, viparīto 'pi niyamaḥ sambhāvyeta idamadasor eva kāt iti / tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ / iha ca syād eva, ebhiḥ, amībhiḥ / pratiṣedhakaraṇaṃ viparītaniyamanivṛttyartham // ṭā-ṅasi-ṅasām ina-āt-syāḥ
Sanskrit only: no published translation is held for this verse.
ङेर् यः
ṅer yaḥ
Sanskrit only: no published translation is held for this verse.
ङेः इति चतुर्थ्येकवचनस्य ग्रहणम् । अकारान्ताद् अङ्गाद् उत्तरस्य ङे इत्य् एतस्य यः इत्य् अयम् आदेशो भवति । वृक्षाय । प्लक्षाय । अतः इति किम् ? सख्ये । पत्ये । सन्निपातलक्षणो विधिर् अनिमित्तं तद्विघातस्य इति परिभाषेयम् अनित्या, तेन दीर्घो भवति ॥ सर्वनाम्नः स्मै
ṅeḥ iti caturthyekavacanasya grahaṇam / akārāntād aṅgād uttarasya ṅe ity etasya yaḥ ity ayam ādeśo bhavati / vṛkṣāya / plakṣāya / ataḥ iti kim ? sakhye / patye / sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti paribhāṣeyam anityā, tena dīrgho bhavati // sarvanāmnaḥ smai
Sanskrit only: no published translation is held for this verse.
अकारान्तात् सर्वनाम्नः उत्तरस्य ङेः स्मै इत्य् अयम् आदेशो भवति । सर्वस्मै । विश्वस्मै । यस्मै । तस्मै । कस्मै । अतः इत्य् एव, भवते । अथो ऽत्र अस्मै इत्यन्वादेशे ऽशादेशे एकादेशः प्राप्नोति ? तत्र अन्तरङ्गत्वाद् एकादेशात् पूर्वं स्मैभावः क्रियते पश्चाद् एकादेशः इति ॥ ङसि-ङ्योः समात्-स्मिनौ
akārāntāt sarvanāmnaḥ uttarasya ṅeḥ smai ity ayam ādeśo bhavati / sarvasmai / viśvasmai / yasmai / tasmai / kasmai / ataḥ ity eva, bhavate / atho 'tra asmai ityanvādeśe 'śādeśe ekādeśaḥ prāpnoti ? tatra antaraṅgatvād ekādeśāt pūrvaṃ smaibhāvaḥ kriyate paścād ekādeśaḥ iti // ṅasi-ṅyoḥ samāt-sminau
Sanskrit only: no published translation is held for this verse.
ङसि ङि इत्य् एतयोर् अकारान्तात् सर्वनाम्नः उत्तरयोः स्मात् स्मिन् इत्य् एताव् आदेशौ भवतः । ङसि इत्य् एतस्य स्मात् । सर्वस्मात् । विश्वस्मात् । यस्मात् । तस्मात् । कर्मात् । ङि इत्य् एतस्य स्मिन् । सर्वस्मिन् । विश्वस्मिन् । यस्मिन् । तस्मिन् । अन्यस्मिन् । अतः इत्य् एव, भवतः । भवति । सर्वनाम्नः इत्य् एव, वृक्षात् । वृक्षे ॥ पूर्व-आदिभ्यो नवभ्यो वा
ṅasi ṅi ity etayor akārāntāt sarvanāmnaḥ uttarayoḥ smāt smin ity etāv ādeśau bhavataḥ / ṅasi ity etasya smāt / sarvasmāt / viśvasmāt / yasmāt / tasmāt / karmāt / ṅi ity etasya smin / sarvasmin / viśvasmin / yasmin / tasmin / anyasmin / ataḥ ity eva, bhavataḥ / bhavati / sarvanāmnaḥ ity eva, vṛkṣāt / vṛkṣe // pūrva-ādibhyo navabhyo vā
Sanskrit only: no published translation is held for this verse.
पूर्वादिभ्यो नवभ्यः सर्वनाम्नः उत्तरयोः ङसिङ्योः स्मात् स्मिन् इत्य् एताव् आदेशौ वा भवतः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । परस्मात्, परात् । परस्मिन्, परे । अवरस्मात्, अवरात् । अवरस्मिन्, अवरे । दक्षिणस्मात्, दक्षिणात् । दक्षिणस्मिन्, दक्षिणे । उत्तरस्मात्, उत्तरात् । उत्तरस्मिन्, उत्तरे । अपरस्मात्, अपरात् । अपरस्मिन्, अपरे । अधरस्मात्, अधरात् । अधरस्मिन्, अधरे । स्वस्मात्, स्वात् । स्वस्मिन्, स्वे । अन्तरस्मात्, अन्तरात् । अन्तरस्मिन्, अन्तरे । नवभ्यः इति किम् ? त्यस्मात् । त्यस्मिन् ॥ जसः शी
pūrvādibhyo navabhyaḥ sarvanāmnaḥ uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv ādeśau vā bhavataḥ / pūrvasmāt, pūrvāt / pūrvasmin, pūrve / parasmāt, parāt / parasmin, pare / avarasmāt, avarāt / avarasmin, avare / dakṣiṇasmāt, dakṣiṇāt / dakṣiṇasmin, dakṣiṇe / uttarasmāt, uttarāt / uttarasmin, uttare / aparasmāt, aparāt / aparasmin, apare / adharasmāt, adharāt / adharasmin, adhare / svasmāt, svāt / svasmin, sve / antarasmāt, antarāt / antarasmin, antare / navabhyaḥ iti kim ? tyasmāt / tyasmin // jasaḥ śī
Sanskrit only: no published translation is held for this verse.
अकारान्तात् सर्वनाम्नः उत्तरस्य जसः शी इत्य् अयम् आदेशो भवति । सर्वे । विश्वे । ये । के । ते । दीर्घोच्चारणम् उत्तरार्हम् । त्रपुणी । जतुनी ॥ औङ आपः
akārāntāt sarvanāmnaḥ uttarasya jasaḥ śī ity ayam ādeśo bhavati / sarve / viśve / ye / ke / te / dīrghoccāraṇam uttarārham / trapuṇī / jatunī // auṅa āpaḥ
Sanskrit only: no published translation is held for this verse.
औकारो ऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं न अस्ति को ऽयं प्रकारः । सामान्यार्थस् तस्य च असञ्जने ऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तम् स दोषः ॥ ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच् च विद्यात् तदादौ । वर्णश्चायम् तेन ङित्त्वे ऽप्य् अदोषो निर्देशो ऽयं पूर्वसूत्रेण वा स्यात् ॥ नपुंसकाच् च
aukāro 'yaṃ śīvidhau ṅidgṛhīto ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ / sāmānyārthas tasya ca asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ // ṅittve vidyād varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau / varṇaścāyam tena ṅittve 'py adoṣo nirdeśo 'yaṃ pūrvasūtreṇa vā syāt // napuṃsakāc ca
Sanskrit only: no published translation is held for this verse.
नपुंसकाद् अङ्गाद् उत्तरस्य औङः शी इत्य् अयम् आदेशो भवति । कुण्डे तिष्ठतः कुण्डे पश्य । यस्य+इति लोपः प्राप्तः । श्यां प्रतिषेधो वक्तव्यः । इति न भवति । दधिनी । मधुनी । त्रपुणी । जतुनी ॥ जश्-शसोः शिः
napuṃsakād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati / kuṇḍe tiṣṭhataḥ kuṇḍe paśya / yasya+iti lopaḥ prāptaḥ / śyāṃ pratiṣedho vaktavyaḥ / iti na bhavati / dadhinī / madhunī / trapuṇī / jatunī // jaś-śasoḥ śiḥ
Sanskrit only: no published translation is held for this verse.
नपुंसकाद् अङ्गाद् उत्तरयोः जश्शसोः शि इत्य् अयम् आदेशो भवन्ति । कुण्डानि तिष्थन्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । जसा सहचरितस्य शसो ग्रहणाद् इह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति ॥ अष्टाभ्य औश्
napuṃsakād aṅgād uttarayoḥ jaśśasoḥ śi ity ayam ādeśo bhavanti / kuṇḍāni tiṣthanti / kuṇḍāni paśya / dadhīni / madhūni / trapūṇi / jatūni / jasā sahacaritasya śaso grahaṇād iha na bhavati, kuṇḍaśo dadāti, vanśaḥ praviśanti iti // aṣṭābhya auś
Sanskrit only: no published translation is held for this verse.
अश्टाभ्यः इति कृताकारो ऽष्टन्शब्दो गृह्यते । तस्माद् उत्तरयोः जश्शसोः औश् इत्य् आदेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । कृताकारस्य ग्रहणं किम् ? अष्ट तिष्ठन्ति । अष्ट पश्य । एतद् एव कृतात्वस्य ग्रहणं ज्ञापकम् अष्टन आ विभक्तौ (*७,२।८४) इत्य् आत्वविकल्पस्य । षड्भ्यो लुक् (*७,१।२२) इत्य् अस्य अयम् अपवादः, नाप्राप्ते तस्मिन्न् इदम् आरभ्यते । यस् तु सुपो धातुप्रातिपदिकयोः (*२,४।७१) इति, तस्मिन् प्राप्ते च अप्राप्ते च इति स न बाध्यते, अष्टपुत्रः, अष्टभार्यः इति । तदन्तग्रहणम् अत्र+इष्यते । परमाष्टौ । उत्तरमाष्टौ । प्रियाष्टनः इत्य् अत्रात्वस्य अभावाद् औश्त्वं न भवति ॥ षड्भ्यो लुक्
aśṭābhyaḥ iti kṛtākāro 'ṣṭanśabdo gṛhyate / tasmād uttarayoḥ jaśśasoḥ auś ity ādeśo bhavati / aṣṭau tiṣṭhanti / aṣṭau paśya / kṛtākārasya grahaṇaṃ kim ? aṣṭa tiṣṭhanti / aṣṭa paśya / etad eva kṛtātvasya grahaṇaṃ jñāpakam aṣṭana ā vibhaktau (*7,2.84) ity ātvavikalpasya / ṣaḍbhyo luk (*7,1.22) ity asya ayam apavādaḥ, nāprāpte tasminn idam ārabhyate / yas tu supo dhātuprātipadikayoḥ (*2,4.71) iti, tasmin prāpte ca aprāpte ca iti sa na bādhyate, aṣṭaputraḥ, aṣṭabhāryaḥ iti / tadantagrahaṇam atra+iṣyate / paramāṣṭau / uttaramāṣṭau / priyāṣṭanaḥ ity atrātvasya abhāvād auśtvaṃ na bhavati // ṣaḍbhyo luk
Sanskrit only: no published translation is held for this verse.
स्व्-अमोर् नपुंसकात्
sv-amor napuṃsakāt
Sanskrit only: no published translation is held for this verse.
सु अम् इत्य् एतयोः नपुंसकाद् उत्तरयोः लुग् भवति । दधि तिष्ठति । दधि पश्य । मधु तिष्ठति । मधु पश्य । त्रपु । जतु । तद्ब्राह्मणकुलम् इत्य् अत्र लुका त्यदाद्यत्वं बाध्यते, पूर्वविप्रतिषेधेन नित्यत्वाद् वा । लुको हि निमित्तम् अतो ऽम् (*७,१।२४) इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेन+एव । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति ॥ अतो ऽम्
su am ity etayoḥ napuṃsakād uttarayoḥ lug bhavati / dadhi tiṣṭhati / dadhi paśya / madhu tiṣṭhati / madhu paśya / trapu / jatu / tadbrāhmaṇakulam ity atra lukā tyadādyatvaṃ bādhyate, pūrvavipratiṣedhena nityatvād vā / luko hi nimittam ato 'm (*7,1.24) iti lakṣaṇāntareṇa vihanyate, na punastyadādyatvena+eva / yasya ca lakṣaṇāntareṇa nimittaṃ vihanyate na tadanityaṃ bhavati // ato 'm
Sanskrit only: no published translation is held for this verse.
अकारान्तान् नपुंसकाद् उत्तरयोः स्वमोः अम् इत्य् अयम् आदेशो भवति । कुण्डं तिष्ठति । कुण्डं पश्य । पीठम् । मकारः कस्मान् न क्रियते ? धीर्घत्वं प्राप्नोति ॥ अद्ड् डतर-आदिभ्यः पञ्चभ्यः
akārāntān napuṃsakād uttarayoḥ svamoḥ am ity ayam ādeśo bhavati / kuṇḍaṃ tiṣṭhati / kuṇḍaṃ paśya / pīṭham / makāraḥ kasmān na kriyate ? dhīrghatvaṃ prāpnoti // adḍ ḍatara-ādibhyaḥ pañcabhyaḥ
Sanskrit only: no published translation is held for this verse.
डतरादिभ्यः परयोः स्वमोः अद्ड् इत्य् अयम् आदेशो भवति । कतरत् तिष्ठति । कतरत् पश्य । कतमत् तिष्ठति । कतमत् पश्य । इतरत् । अन्यतरत् । अन्यत् । पञ्चभ्यः इति किम् ? नेमं तिष्ठति । नेमं पश्य । डित्करणं किम् ? कतरत् तिष्ठति इत्य् अत्र पूर्वसवर्नदीर्घो मा भूत् । इह तु कतरत् पश्य इति स्थनिवद्भावाद् अमि पूर्वंत्वेन अपि सिध्यति । एवं तर्हि तकारादेश एव कस्मान् न विधीयते ? हे कतरत् इति सम्बुद्धेर् लोपो मा भूत् । अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु । अड्डित्त्वाड् डतरादीनां न लोपो न अपि दीर्घता ॥ न+इतराच् छन्दसि
ḍatarādibhyaḥ parayoḥ svamoḥ adḍ ity ayam ādeśo bhavati / katarat tiṣṭhati / katarat paśya / katamat tiṣṭhati / katamat paśya / itarat / anyatarat / anyat / pañcabhyaḥ iti kim ? nemaṃ tiṣṭhati / nemaṃ paśya / ḍitkaraṇaṃ kim ? katarat tiṣṭhati ity atra pūrvasavarnadīrgho mā bhūt / iha tu katarat paśya iti sthanivadbhāvād ami pūrvaṃtvena api sidhyati / evaṃ tarhi takārādeśa eva kasmān na vidhīyate ? he katarat iti sambuddher lopo mā bhūt / apṛktaścedamo doṣo nivṛtte ḍatarādiṣu / aḍḍittvāḍ ḍatarādīnāṃ na lopo na api dīrghatā // na+itarāc chandasi
Sanskrit only: no published translation is held for this verse.
युष्मद्-अस्मद्भ्यां ङसो ऽश्
yuṣmad-asmadbhyāṃ ṅaso 'ś
Sanskrit only: no published translation is held for this verse.
युष्मद् अस्मद् इत्य् एताभ्याम् उत्तरस्य ङसः अश् इत्य् अयम् आदेशो भवति । तव स्वम् । मम स्वम् । शित्करणं सर्वादेशार्थम् । अन्यथा हि आदेशव्यपदेशप्रक्लृप्त्यर्थमादेर् एव स्यात्, ततश् च यो ऽचि (*७,२।८९) इतेतन् न स्यात् ॥ ङे प्रथमयोर् अम्
yuṣmad asmad ity etābhyām uttarasya ṅasaḥ aś ity ayam ādeśo bhavati / tava svam / mama svam / śitkaraṇaṃ sarvādeśārtham / anyathā hi ādeśavyapadeśapraklṛptyarthamāder eva syāt, tataś ca yo 'ci (*7,2.89) itetan na syāt // ṅe prathamayor am
Sanskrit only: no published translation is held for this verse.
ङे इत्य् अविभक्तिको निर्देशः । ङे इत्य् एतस्य प्रथमयोश् च विभक्त्योः प्रथाद्वितीययोः युष्मदस्मद्भ्याम् उत्तरयोः अम् इत्य् अयम् आदेशो भवति । तुभ्यं दीयते । मह्यं दियते । प्रथमयोः - त्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युवाम् । आवाम् ॥ शसो न
ṅe ity avibhaktiko nirdeśaḥ / ṅe ity etasya prathamayoś ca vibhaktyoḥ prathādvitīyayoḥ yuṣmadasmadbhyām uttarayoḥ am ity ayam ādeśo bhavati / tubhyaṃ dīyate / mahyaṃ diyate / prathamayoḥ - tvam / aham / yuvām / āvām / yūyam / vayam / tvām / mām / yuvām / āvām // śaso na
Sanskrit only: no published translation is held for this verse.
युष्मदस्मद्भ्यास् उत्तरस्य् अशसो नकारादेशो भवति । युष्मन् ब्राह्मणान् । अस्मान् ब्राह्मणान् । युष्मन् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि । अस्मान् कुलानि ॥ भ्यसो भ्यम्
yuṣmadasmadbhyās uttarasy aśaso nakārādeśo bhavati / yuṣman brāhmaṇān / asmān brāhmaṇān / yuṣman brāhmaṇīḥ / asmān brāhmaṇīḥ / yuṣmān kulāni / asmān kulāni // bhyaso bhyam
Sanskrit only: no published translation is held for this verse.
युष्मदस्मद्भ्याम् उत्तरस्य भ्यसः भ्यम् इत्य् अयम् आदेशो भवति । युष्मभ्यं दीयते । अस्मभ्यं दीयते । भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत् (*७,३।१०३) इति एत्वं प्राप्नोति, तत् अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति । केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति । येषां तु शेषेलोपः टिलोपः, तेषाम् अभ्यमादेश एव । उदात्तनिवृत्तिस्वरश्चादेर् एव भवति ॥ पञ्चम्या अत्
yuṣmadasmadbhyām uttarasya bhyasaḥ bhyam ity ayam ādeśo bhavati / yuṣmabhyaṃ dīyate / asmabhyaṃ dīyate / bhyamādeśe kṛte śeṣelope ca bahuvacane jhalyet (*7,3.103) iti etvaṃ prāpnoti, tat aṅgavṛtte punarvṛttāvavidhirniṣṭhitasya iti na bhavati / kecit punarabhyamādeśametvanivṛttyarthaṃ kurvanti / yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām abhyamādeśa eva / udāttanivṛttisvaraścāder eva bhavati // pañcamyā at
Sanskrit only: no published translation is held for this verse.
पञ्चम्याः भ्यसः युष्मदस्मद्भ्याम् उत्तरस्य अत् इत्य् अयम् आदेशो भवति युष्मद् गच्छन्ति । अस्मद् गच्छन्ति ॥ एकवचनस्य च
pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati yuṣmad gacchanti / asmad gacchanti // ekavacanasya ca
Sanskrit only: no published translation is held for this verse.
साम आकम्
sāma ākam
Sanskrit only: no published translation is held for this verse.
साम इति षष्थीबहुवचनम् आगतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्याम् उत्तरस्य आकम् इत्य् अयम् आदेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थम् आगतसुट्को गृह्यते, न घादेशविधानकाले सुड् विद्यते ? तस्य+एव तु भाविनः सुटो निवृत्त्यर्थम् । आदेशे कृते हि शेषेलोपे युष्मदस्मदोर् अकारान्तत्वात् सुट् प्राप्त्नोति, स स्थान्यन्तर्भूतत्वात् निवर्तते । दीर्घोच्चारणं सवर्णदिर्घार्थम् । अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्याद् एव सवर्णदीर्घत्वं न प्राप्नोति ? तत्सामर्थ्यम् एत्वं प्रति भविष्यति इति अकारकरणमेत्वनिवृत्त्यर्थम् इति । अतो गुणे पररूपत्वं स्यात् ॥ आत औ णलः
sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate / tasya yuṣmadasmadbhyām uttarasya ākam ity ayam ādeśo bhavati / yuṣmākam / asmākam / atha kimartham āgatasuṭko gṛhyate, na ghādeśavidhānakāle suḍ vidyate ? tasya+eva tu bhāvinaḥ suṭo nivṛttyartham / ādeśe kṛte hi śeṣelope yuṣmadasmador akārāntatvāt suṭ prāptnoti, sa sthānyantarbhūtatvāt nivartate / dīrghoccāraṇaṃ savarṇadirghārtham / akami tu sati hrasvakaraṇe tadvidhānasāmarthyād eva savarṇadīrghatvaṃ na prāpnoti ? tatsāmarthyam etvaṃ prati bhaviṣyati iti akārakaraṇametvanivṛttyartham iti / ato guṇe pararūpatvaṃ syāt // āta au ṇalaḥ
Sanskrit only: no published translation is held for this verse.
आकारान्ताद् अङ्गाद् उत्तरस्य णलः औकारादेशो भवति । पपौ । तस्थौ । जग्लौ । मम्लौ । अत्र औत्वम्, एकादेशः , स्थानिवद्भावः, द्विर्वचनम् इत्य् अनेन क्रमेण कार्याणि क्रियन्ते । एकादेशाद् अनवकाशत्वाद् औत्वं द्विर्वचनाद् अपि परत्वाद् एकादेशः इति ॥ तु-ह्योस् तातङ् आशिष्य् अन्यतरस्याम्
ākārāntād aṅgād uttarasya ṇalaḥ aukārādeśo bhavati / papau / tasthau / jaglau / mamlau / atra autvam, ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam ity anena krameṇa kāryāṇi kriyante / ekādeśād anavakāśatvād autvaṃ dvirvacanād api paratvād ekādeśaḥ iti // tu-hyos tātaṅ āśiṣy anyatarasyām
Sanskrit only: no published translation is held for this verse.
तु हि इत्य् एतयोः आशिषि विषये तातङ् आदेशो भवत्य् अन्यतरस्याम् । जीवताद् भवान् । जीवतात् त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणम् गुणवृद्धिप्रतिषेधार्थम् इति सर्वादेशस्तातङ् भवति । ङित्त्वाच् चास्य स्थानिवद्भावात् यत् पित्त्वं प्राप्नोति तन्निवर्तते । ङिच्च पित् न भवति । तेन ब्रुव ईट् (*७,३।९३) इति ब्रूताद् भवान् इति ईट् न भवति । आशिषि इति किम् ? ग्रामं गच्छतु भवान् । गच्छ त्वम् । तातङि ङित्वं सङ्क्रमकृत् स्यादन्त्यविधिश् चेत् तच्च तथा न । हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकम् आह ॥ तातङो ङित्त्वसामर्थ्यान् न अयम् अन्त्यविधिः स्मृतः । न तद्वदनङादीनां तेन ते ऽन्त्यविकारजाः ॥ विदेः शतुर् वसुः
tu hi ity etayoḥ āśiṣi viṣaye tātaṅ ādeśo bhavaty anyatarasyām / jīvatād bhavān / jīvatāt tvam / jīvatu bhavān / jīva tvam / ṅitkaraṇam guṇavṛddhipratiṣedhārtham iti sarvādeśastātaṅ bhavati / ṅittvāc cāsya sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate / ṅicca pit na bhavati / tena bruva īṭ (*7,3.93) iti brūtād bhavān iti īṭ na bhavati / āśiṣi iti kim ? grāmaṃ gacchatu bhavān / gaccha tvam / tātaṅi ṅitvaṃ saṅkramakṛt syādantyavidhiś cet tacca tathā na / heradhikāre heradhikāro lopavidhau tu jñāpakam āha // tātaṅo ṅittvasāmarthyān na ayam antyavidhiḥ smṛtaḥ / na tadvadanaṅādīnāṃ tena te 'ntyavikārajāḥ // videḥ śatur vasuḥ
Sanskrit only: no published translation is held for this verse.
समासे ऽनञ्-पूर्वे क्त्वो ल्यप्
samāse 'nañ-pūrve ktvo lyap
Sanskrit only: no published translation is held for this verse.
समासे ऽनञ्पूर्वे क्त्वा इत्य् एतस्य ल्यप् इत्य् अयम् आदेशो भवति । प्रकृत्य । प्रहृत्य । पार्श्वतःकृत्य । नानाकृत्य । द्विधाकृत्य । समासे इति किम् ? कृत्वा । हृत्वा । अनञ्पूर्वे इति किम् ? अकृत्वा । अहृत्वा । परमकृत्वा । उत्तमकृत्वा । अनञ् इति नञा अन्यदनञ् नञ्सदृशम् अव्ययं परिगृह्यते । तेन नञ् अनव्ययं चनञ् न भवति । स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल् ल्यबादेशो न भवति । अथवा समासे इति निर्धारणे सप्तमी । तेन क्त्वान्तः समास एव परिगृह्यते । स च येन विधिस् तदन्तस्य इत्य् अनेन तदन्तविधिना, न तु कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति । तथा च अनञ्पूर्वे इत्य् उच्यते । गतिकारकपूर्वस्य् एव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव न अस्ति, नञ् न गतिर् न कारकम् इति । प्रधाय, प्रस्थाय इत्य् आदिषु हिप्रभृतीन् अन्तरङ्गन् अपि विधीन् बहिरङ्गो ल्यब् बाधते एव इति ज्ञापितम् एतत् ॥ क्त्वा अपि छन्दसि
samāse 'nañpūrve ktvā ity etasya lyap ity ayam ādeśo bhavati / prakṛtya / prahṛtya / pārśvataḥkṛtya / nānākṛtya / dvidhākṛtya / samāse iti kim ? kṛtvā / hṛtvā / anañpūrve iti kim ? akṛtvā / ahṛtvā / paramakṛtvā / uttamakṛtvā / anañ iti nañā anyadanañ nañsadṛśam avyayaṃ parigṛhyate / tena nañ anavyayaṃ canañ na bhavati / snātvākālakādiṣu mayūravyaṃsakādiṣu nipātanāl lyabādeśo na bhavati / athavā samāse iti nirdhāraṇe saptamī / tena ktvāntaḥ samāsa eva parigṛhyate / sa ca yena vidhis tadantasya ity anena tadantavidhinā, na tu kṛdgrahaṇe gatikārakapūrvasya api iti / tathā ca anañpūrve ity ucyate / gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya prasaṅga eva na asti, nañ na gatir na kārakam iti / pradhāya, prasthāya ity ādiṣu hiprabhṛtīn antaraṅgan api vidhīn bahiraṅgo lyab bādhate eva iti jñāpitam etat // ktvā api chandasi
Sanskrit only: no published translation is held for this verse.
समासे अनञ्पूर्वे क्त्वा इत्य् एतस्य क्त्वा इत्य् अयम् आदेशो भवति, अपिशब्दाल् ल्यबपि भवति छन्दसि विषये । कृष्णं वासो यजमानं परिधापयित्वा । प्रत्यञ्चमर्कं प्रत्यर्पयित्वा । ल्यबपि भवति । उद्धृत्य जुहोति । वा च्छन्दसि इति नोक्त, सर्वोपाधिव्यभिचारार्थम् । तेन असमासे ल्यब् भवति । अर्च्य तान् देवान् गतः । छन्दो ऽधिकारः आज्जसेर् असुक् (*७,१।५०) इति यावत् ॥ सुपां सु-लुक्-पूर्वसवर्न-आ-आच्-छे-या-डा-ड्या-याज्-आलः
samāse anañpūrve ktvā ity etasya ktvā ity ayam ādeśo bhavati, apiśabdāl lyabapi bhavati chandasi viṣaye / kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvā / pratyañcamarkaṃ pratyarpayitvā / lyabapi bhavati / uddhṛtya juhoti / vā cchandasi iti nokta, sarvopādhivyabhicārārtham / tena asamāse lyab bhavati / arcya tān devān gataḥ / chando 'dhikāraḥ ājjaser asuk (*7,1.50) iti yāvat // supāṃ su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ
Sanskrit only: no published translation is held for this verse.
पूर्वसवर्णः - धीती । मती । सुष्टुती । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते । आ - द्वा यन्तारा । द्वौ यन्तारौ इति प्राप्ते । आत् - न ताद् ब्राह्मणाद् निन्दामि । तान् ब्राह्मणान् इति प्राप्ते । शे - न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । यूयं वयम् इति प्राप्ते । युयादेशो वयादेशश् च छन्दसत्वान् न भवति । या - उरुया । धृष्णुया । उरुणा, धृष्णुना इति प्राप्ते । डा - नाभा पृथिव्याम् । नाभौ पृथिव्याम् इति प्राप्ते । ड्या - अनुष्टुयोच्च्यावयतात् । अनुष्टुभा इति प्राप्ते । याच् - साधुया । साधु इति सोर्लुकि प्राप्ते । आल् - वसन्ता यजेत । वसन्ते इति प्राप्ते । इयाडियाजीकाराणाम् उपसङ्ख्यानम् । इया - उर्विया परि ख्यन् । दार्विया परिज्मन् । उरुणा, दारुणा इति प्राप्ते । डियाच् सुक्षेत्रिया सुगातुया । सुक्षेत्रिणा, सुगात्रिणा इति प्राप्ते । ईकारः - दृतिं न शुष्कं सरसी शयानम् । सरसि शयानम् इति प्राप्ते । आङयाजयारां च+उपसङ्ख्यानम् । आङ् - प्र बाहवा । प्रवहुना इति प्राप्ते । अयाच् - स्वप्नया सचसे जनम् । स्वप्नेन इति प्राप्ते । अयार् - स नः सिन्धुमिव नावया । नावा इति प्राप्ते ॥ अमो मश्
pūrvasavarṇaḥ - dhītī / matī / suṣṭutī / dhītyā, matyā, suṣṭutyā iti prāpte / ā - dvā yantārā / dvau yantārau iti prāpte / āt - na tād brāhmaṇād nindāmi / tān brāhmaṇān iti prāpte / śe - na yuṣme vājabandhavaḥ / asme indrābṛhaspatī / yūyaṃ vayam iti prāpte / yuyādeśo vayādeśaś ca chandasatvān na bhavati / yā - uruyā / dhṛṣṇuyā / uruṇā, dhṛṣṇunā iti prāpte / ḍā - nābhā pṛthivyām / nābhau pṛthivyām iti prāpte / ḍyā - anuṣṭuyoccyāvayatāt / anuṣṭubhā iti prāpte / yāc - sādhuyā / sādhu iti sorluki prāpte / āl - vasantā yajeta / vasante iti prāpte / iyāḍiyājīkārāṇām upasaṅkhyānam / iyā - urviyā pari khyan / dārviyā parijman / uruṇā, dāruṇā iti prāpte / ḍiyāc sukṣetriyā sugātuyā / sukṣetriṇā, sugātriṇā iti prāpte / īkāraḥ - dṛtiṃ na śuṣkaṃ sarasī śayānam / sarasi śayānam iti prāpte / āṅayājayārāṃ ca+upasaṅkhyānam / āṅ - pra bāhavā / pravahunā iti prāpte / ayāc - svapnayā sacase janam / svapnena iti prāpte / ayār - sa naḥ sindhumiva nāvayā / nāvā iti prāpte // amo maś
Sanskrit only: no published translation is held for this verse.
लोपस् त आत्मनेपदेषु
lopas ta ātmanepadeṣu
Sanskrit only: no published translation is held for this verse.
आत्मनेपदेषु यस्तकारः तस्य छन्दसि विषये लोपो भवति । देवा अदुह्र । गन्धर्वाप्सरसो अदुह्र । अदुहत इति प्राप्ते । दुहामश्विभ्यां पयो अघ्न्येयम् । दुग्धाम् इति प्राप्ते । दक्षिणत उपशये । शेते इति प्राप्ते । अपि इत्य् अधिकारान् न भवति, तत्र आत्मानमनृतं कुरुते । आत्मनेपदेषु इति किम् ? वत्सं दुहन्ति कलशं चतुर्बिलम् ॥ ध्वमो ध्वात्
ātmanepadeṣu yastakāraḥ tasya chandasi viṣaye lopo bhavati / devā aduhra / gandharvāpsaraso aduhra / aduhata iti prāpte / duhāmaśvibhyāṃ payo aghnyeyam / dugdhām iti prāpte / dakṣiṇata upaśaye / śete iti prāpte / api ity adhikārān na bhavati, tatra ātmānamanṛtaṃ kurute / ātmanepadeṣu iti kim ? vatsaṃ duhanti kalaśaṃ caturbilam // dhvamo dhvāt
Sanskrit only: no published translation is held for this verse.
छन्दसि विषये ध्वमो ध्वात् इत्य् अयम् आदेशो भवति । अन्तरेवोष्माणं वारयध्वात् । वारयध्वम् इति प्राप्ते ॥ यजध्वैनम् इति च
chandasi viṣaye dhvamo dhvāt ity ayam ādeśo bhavati / antarevoṣmāṇaṃ vārayadhvāt / vārayadhvam iti prāpte // yajadhvainam iti ca
Sanskrit only: no published translation is held for this verse.
यजध्वम् इत्य् एतस्य एनम् इत्य् एतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये । यजध्वैनं प्रियम् एधाः । यजध्वमेनम् इति प्राप्ते ॥ तस्य तात्
yajadhvam ity etasya enam ity etasmin parato makāralopo nipātyate vakārasya ca yakāraḥ chandasi viṣaye / yajadhvainaṃ priyam edhāḥ / yajadhvamenam iti prāpte // tasya tāt
Sanskrit only: no published translation is held for this verse.
तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तात् इत्य् अयम् आदेशो भवति । गात्रं गात्रमस्यानूनं कृणुतात् । कृणुत इति प्राप्ते । ऊवध्यगोहं पार्थिवं खनतात् । खनत इति प्राप्ते । अस्ना रक्षः संसृजतात् । संसृजत इति प्राप्ते । सूर्यं चक्षुर्गमयतात् । गमयत इति प्राप्ते ॥ तप्तनप्तनथनाश् च
taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tāt ity ayam ādeśo bhavati / gātraṃ gātramasyānūnaṃ kṛṇutāt / kṛṇuta iti prāpte / ūvadhyagohaṃ pārthivaṃ khanatāt / khanata iti prāpte / asnā rakṣaḥ saṃsṛjatāt / saṃsṛjata iti prāpte / sūryaṃ cakṣurgamayatāt / gamayata iti prāpte // taptanaptanathanāś ca
Sanskrit only: no published translation is held for this verse.
इद्-अन्तो मसि
id-anto masi
Sanskrit only: no published translation is held for this verse.
छन्दसि विषये मस् इत्य् अयं शब्दः इकारान्तो भवति । मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति । तद्ग्रहणेन गृह्यते इत्य् अर्थः । पुनस्त्वोद्दीपयामसि । उद्दीपयामः इति प्राप्ते । शलभं भञ्जयामसि । भञ्जयामः इति प्राप्ते । त्वयि रात्रिं वसामसि । वसामः इति प्राप्ते ॥ क्त्वो यक्
chandasi viṣaye mas ity ayaṃ śabdaḥ ikārānto bhavati / masaḥ sakārāntasya ikārāgamo bhavati, sa ca tasyānto bhavati / tadgrahaṇena gṛhyate ity arthaḥ / punastvoddīpayāmasi / uddīpayāmaḥ iti prāpte / śalabhaṃ bhañjayāmasi / bhañjayāmaḥ iti prāpte / tvayi rātriṃ vasāmasi / vasāmaḥ iti prāpte // ktvo yak
Sanskrit only: no published translation is held for this verse.
क्त्वा इत्य् एतस्य यगागमो भवति छन्दसि विषये । दत्त्वाय सविता धियः । दत्त्वा इति प्राप्ते । क्त्वापि छन्दसि (*७,१।३८) इत्य् अस्य अन्तन्तरम् इदं कस्मान् न+उच्यते ? समासे इति तत्र अनुवर्तते ॥ इष्ट्वीनम् इति च
ktvā ity etasya yagāgamo bhavati chandasi viṣaye / dattvāya savitā dhiyaḥ / dattvā iti prāpte / ktvāpi chandasi (*7,1.38) ity asya antantaram idaṃ kasmān na+ucyate ? samāse iti tatra anuvartate // iṣṭvīnam iti ca
Sanskrit only: no published translation is held for this verse.
इष्ट्वीनम् इत्य् अयं शब्दो निपात्यते छन्दसि विषये । यजेः क्त्वाप्रत्ययान्तस्य ईनम् आदेशो ऽन्त्यस्य निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा देवान् इति प्राप्ते । पीत्वीनम् इत्य् अपि इष्यते । चकारस्य अनुक्तसमुचयार्थत्वात् सिद्धम् ॥ स्नात्व्यादयश् च
iṣṭvīnam ity ayaṃ śabdo nipātyate chandasi viṣaye / yajeḥ ktvāpratyayāntasya īnam ādeśo 'ntyasya nipātyate / iṣṭvīnaṃ devān / iṣṭvā devān iti prāpte / pītvīnam ity api iṣyate / cakārasya anuktasamucayārthatvāt siddham // snātvyādayaś ca
Sanskrit only: no published translation is held for this verse.
स्नात्वी इत्य् एवम् आदयः शब्दा निपात्यन्ते छन्दसि विसये । स्नात्वी मलदिव । स्नात्व इति प्राप्ते । पीत्वी सोमस्य वावृधे । पीत्वा इति प्राप्ते । प्रकारार्थो ऽयम् आदिशब्दः ॥ आज् जसेर् असुक्
snātvī ity evam ādayaḥ śabdā nipātyante chandasi visaye / snātvī maladiva / snātva iti prāpte / pītvī somasya vāvṛdhe / pītvā iti prāpte / prakārārtho 'yam ādiśabdaḥ // āj jaser asuk
Sanskrit only: no published translation is held for this verse.
अवर्णान्तात् अङ्गाद् उत्तरस्य जसेः असुक् आगमो भवति छन्दसि विषये । ब्राह्मणासः पितरः सोम्यासः । ब्राह्मणाः सोम्याः इति प्राप्ते । ये पूर्वासो य उपरासः इत्य् अत्र परत्वाद् असुकि पुनः प्रसङ्गविज्ञानात् शिभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति न भवति ॥ अश्व-क्षीर-वृष-लवणानाम् आत्मप्रीतौ क्यचि
avarṇāntāt aṅgād uttarasya jaseḥ asuk āgamo bhavati chandasi viṣaye / brāhmaṇāsaḥ pitaraḥ somyāsaḥ / brāhmaṇāḥ somyāḥ iti prāpte / ye pūrvāso ya uparāsaḥ ity atra paratvād asuki punaḥ prasaṅgavijñānāt śibhāvaḥ prāptaḥ, sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva iti na bhavati // aśva-kṣīra-vṛṣa-lavaṇānām ātmaprītau kyaci
Sanskrit only: no published translation is held for this verse.
अश्ववृषयोर्मैथुनेच्छायाम् इति वक्तव्यम् । क्षीरलवणयोर् लालसायाम् इति वक्तव्यम् । तृष्णातिरेको लालसा । अन्यत्रात्मप्रीतावपि न भवति । अपर आह - सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः । दध्यस्यति, मध्वस्यति इत्य् एवम् आद्यर्थम् । अपर आह - सुग्वक्तव्यः । दधिस्यति, मधुस्यति इत्य् एवम् आद्यर्थम् ॥ आमि सर्वनाम्नः सुट्
aśvavṛṣayormaithunecchāyām iti vaktavyam / kṣīralavaṇayor lālasāyām iti vaktavyam / tṛṣṇātireko lālasā / anyatrātmaprītāvapi na bhavati / apara āha - sarvaprātipadikebhyo lālasāyāmasugvaktavyaḥ / dadhyasyati, madhvasyati ity evam ādyartham / apara āha - sugvaktavyaḥ / dadhisyati, madhusyati ity evam ādyartham // āmi sarvanāmnaḥ suṭ
Sanskrit only: no published translation is held for this verse.
आत् इति वर्तते । अवर्णात् सर्वनाम्न उत्तरस्य आमः सुडागमो भवति । सर्वेषाम् । विश्वेषाम् । येषाम् । तेषाम् । सर्वासाम् । यासाम् । तासाम् । आत् इत्य् एव । भवताम् । आमि इति षष्ठीबहुवचनं गृह्यते, न ङेराम् नद्याम्नीभ्यः (*८,३।११६) इति , तस्य हि परत्वात् आड्याट्स्याटो भवन्ति । यश्च घात् आमुः , आमश्च लिटि, न तौ सर्वनान्मः स्तः । सानुबन्धकौ इति वा तौ न गृह्येते । आमि इति सप्तमीनिर्देशः उत्तरार्थः । इह तु सर्वनाम्नः इति पञ्चमीनिर्देशात् तस्माद् इत्य् उत्तरस्य (*१,१।६७) इति , षष्ठीप्रक्लृप्तिर् भविष्यति ॥ त्रेस् त्रयः
āt iti vartate / avarṇāt sarvanāmna uttarasya āmaḥ suḍāgamo bhavati / sarveṣām / viśveṣām / yeṣām / teṣām / sarvāsām / yāsām / tāsām / āt ity eva / bhavatām / āmi iti ṣaṣṭhībahuvacanaṃ gṛhyate, na ṅerām nadyāmnībhyaḥ (*8,3.116) iti , tasya hi paratvāt āḍyāṭsyāṭo bhavanti / yaśca ghāt āmuḥ , āmaśca liṭi, na tau sarvanānmaḥ staḥ / sānubandhakau iti vā tau na gṛhyete / āmi iti saptamīnirdeśaḥ uttarārthaḥ / iha tu sarvanāmnaḥ iti pañcamīnirdeśāt tasmād ity uttarasya (*1,1.67) iti , ṣaṣṭhīpraklṛptir bhaviṣyati // tres trayaḥ
Sanskrit only: no published translation is held for this verse.
त्रि इत्य् एतस्य आमि परे त्रय इत्य् अयम् आदेशो भवति । त्रयाणाम् । त्रीणाम् इत्य् अपि छन्दसि इष्यते । त्रीणाम् अपि समुद्राणाम् इति ॥ ह्रस्वनद्यापो नुट्
tri ity etasya āmi pare traya ity ayam ādeśo bhavati / trayāṇām / trīṇām ity api chandasi iṣyate / trīṇām api samudrāṇām iti // hrasvanadyāpo nuṭ
Sanskrit only: no published translation is held for this verse.
ह्रस्वान्तात् नद्यन्तात् आबन्ताच् च+उत्तरस्य आमः नुडागमो भवति । ह्रस्वान्तात् तावत् - वृक्षाणाम् । प्लक्षाणाम् । अग्नीनाम् । वायूनाम् । कर्तॄणाम् । नद्यन्तात् - कुमारीणाम् । किशोरीणाम् । गौरीणाम् । शार्ङ्गरवीणाम् । लक्ष्ंईणाम् । ब्रह्मबन्धूनाम् । वीरबन्धूनाम् । आबन्तात् खट्वानाम् । मालनाम् । बहुराजानाम् । कारीषगन्ध्यानाम् ॥ षट्-चतुर्भ्यश् च
hrasvāntāt nadyantāt ābantāc ca+uttarasya āmaḥ nuḍāgamo bhavati / hrasvāntāt tāvat - vṛkṣāṇām / plakṣāṇām / agnīnām / vāyūnām / kartṝṇām / nadyantāt - kumārīṇām / kiśorīṇām / gaurīṇām / śārṅgaravīṇām / lakṣṃīṇām / brahmabandhūnām / vīrabandhūnām / ābantāt khaṭvānām / mālanām / bahurājānām / kārīṣagandhyānām // ṣaṭ-caturbhyaś ca
Sanskrit only: no published translation is held for this verse.
श्री-ग्रामण्योश् छन्दसि
śrī-grāmaṇyoś chandasi
Sanskrit only: no published translation is held for this verse.
श्री ग्रामणी इत्य् एतयोः छन्दसि विषये आमो नुडागमो भवति । श्रीणामुदारो धरुणो रयीणाम् । अपि तत्र सूतग्रामणीनाम् । श्रीशब्दस्य वामि (*१,४।५) इति विकल्पेन नदीसञ्ज्ञा, तत्र नित्यार्थं वचनम् । सूतग्रामणीनाम् इति यदा सूताश् च ते ग्रामण्यश् च सूतग्रामण्यो भवन्ति तदर्थम् इदं वचनम् । यदा तु सूतश् च ग्रामणीश् च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि च इति सूतग्रामणीनाम् इति, तदा ह्रस्वात् इत्य् एव सिद्धम् ॥ गोः पादान्ते
śrī grāmaṇī ity etayoḥ chandasi viṣaye āmo nuḍāgamo bhavati / śrīṇāmudāro dharuṇo rayīṇām / api tatra sūtagrāmaṇīnām / śrīśabdasya vāmi (*1,4.5) iti vikalpena nadīsañjñā, tatra nityārthaṃ vacanam / sūtagrāmaṇīnām iti yadā sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo bhavanti tadartham idaṃ vacanam / yadā tu sūtaś ca grāmaṇīś ca sūtagrāmaṇi, sūtagrāmaṇi ca sūtagrāmaṇi ca sūtagrāmaṇi ca iti sūtagrāmaṇīnām iti, tadā hrasvāt ity eva siddham // goḥ pādānte
Sanskrit only: no published translation is held for this verse.
गो इत्य् एतस्मात् ऋक्पादान्ते वर्तमानाद् उत्तरस्य आमः नुडागमो भवति । विद्मा हि त्वा गोपतिं शूर गोनाम् । पादान्ते इति किम् ? गवां गोत्रमुदसृजो यदङ्गिरः । सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्ते ऽपि क्वचिन् न भवति । हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ इदतो नुम् धातोः
go ity etasmāt ṛkpādānte vartamānād uttarasya āmaḥ nuḍāgamo bhavati / vidmā hi tvā gopatiṃ śūra gonām / pādānte iti kim ? gavāṃ gotramudasṛjo yadaṅgiraḥ / sarve vidhayaśchandasi vikalpyante iti pādānte 'pi kvacin na bhavati / hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām // idato num dhātoḥ
Sanskrit only: no published translation is held for this verse.
इदितो धातोर् नुमागमो भवति । कुडि - कुण्डिता । कुण्डितुम् । कुण्डितव्यम् । कुण्डा । हुडि - हुण्डिता । हुण्डितुम् । हुण्दितव्यम् । हुण्डा । इदितः इति किम् ? पचति । पठति । अयं धातूपदेशावस्थायाम् एव नुगाममो भवति कुण्डा, गुण्डा इति, गुरोश् च हलः (*३,३।१०३) इत्य् अकारप्रत्ययो यथा स्यात् । तथा हि धिन्विकृण्व्योर च (*३,१।८०) इति प्रत्ययविधाव् एव नुमनुषक्तयोर् ग्रहणम् । धातुग्रहणम् च+इह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यात् इत्य् एवम् अर्थम् । तासिसिचोरिदित्कार्यं न अस्ति इत्य् उच्चारणार्थो निरनुनासिक इकारः पठ्यते । अमंस्त इत्य् एवम् आदौ हि हनः सिच् (*१,२।२४) इति कित्वविधानसामर्थ्यात् नकारलोपो न भवति । मन्ता इत्य् अत्र अपि असिद्धवद्-अत्र-आ भात् (*६,४।२२) इति टिलोपस्य असिद्धत्वान् नलोपो न भवति । इह कस्मान् न भवति, भेत्ता, धेत्ता इति ? इरितां समुदायस्येत्सञ्ज्ञा इति इदित्वं न अस्ति । अवयवशो ऽपि इत्सञ्ज्ञायां सत्यां गोः पादान्ते (*७,१।५७) इतो ऽन्तग्रहणम् अनुवर्तयितव्यम्, तेनान्तेदितो धातवो गृह्यन्ते ॥ शे मुचादीनाम्
idito dhātor numāgamo bhavati / kuḍi - kuṇḍitā / kuṇḍitum / kuṇḍitavyam / kuṇḍā / huḍi - huṇḍitā / huṇḍitum / huṇditavyam / huṇḍā / iditaḥ iti kim ? pacati / paṭhati / ayaṃ dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3,3.103) ity akārapratyayo yathā syāt / tathā hi dhinvikṛṇvyora ca (*3,1.80) iti pratyayavidhāv eva numanuṣaktayor grahaṇam / dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham / tāsisicoriditkāryaṃ na asti ity uccāraṇārtho niranunāsika ikāraḥ paṭhyate / amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti kitvavidhānasāmarthyāt nakāralopo na bhavati / mantā ity atra api asiddhavad-atra-ā bhāt (*6,4.22) iti ṭilopasya asiddhatvān nalopo na bhavati / iha kasmān na bhavati, bhettā, dhettā iti ? iritāṃ samudāyasyetsañjñā iti iditvaṃ na asti / avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam anuvartayitavyam, tenāntedito dhātavo gṛhyante // śe mucādīnām
Sanskrit only: no published translation is held for this verse.
मोक्तव्यम् । मुचादीनाम् इति किम् ? तुदति । नुदति । शे तृम्फादीनाम् उपसङ्ख्यानं कर्तव्यम् । के पुनः तृम्फादयः ? तृफ तृम्फ तृप्तौ दृफ ड्र्म्फ उत्क्लेशे, गुफ गुम्फ ग्रन्थे, उभ उम्भ पूरणे, शुभ शुम्भ शोभार्थे इत्य् अत्र ये सानुषङ्गाः तृम्फादयः तेषाम् अनिदितां हल उपधायाः क्ङिति (*६,४।२४) इति अनुनासिकलोपे कृते नुम् विधीयते, स च विधानसामर्थ्यात् न लुप्यते । तृम्फति । दृम्फति । गुम्फति । उम्भति । शुम्भति । ये तु निरनुषङ्गाः तेषां तृफति, दृफति, गुफति, उभति, शुभति इत्य् एवं भवति ॥ मस्जि-नशोर् झलि
moktavyam / mucādīnām iti kim ? tudati / nudati / śe tṛmphādīnām upasaṅkhyānaṃ kartavyam / ke punaḥ tṛmphādayaḥ ? tṛpha tṛmpha tṛptau dṛpha ḍrmpha utkleśe, gupha gumpha granthe, ubha umbha pūraṇe, śubha śumbha śobhārthe ity atra ye sānuṣaṅgāḥ tṛmphādayaḥ teṣām aniditāṃ hala upadhāyāḥ kṅiti (*6,4.24) iti anunāsikalope kṛte num vidhīyate, sa ca vidhānasāmarthyāt na lupyate / tṛmphati / dṛmphati / gumphati / umbhati / śumbhati / ye tu niranuṣaṅgāḥ teṣāṃ tṛphati, dṛphati, guphati, ubhati, śubhati ity evaṃ bhavati // masji-naśor jhali
Sanskrit only: no published translation is held for this verse.
मस्जि नशि इत्य् एतयोर् अङ्गयोः झलादौ प्रत्यये नुमागमो भवति । मङ्क्ता । मङ्क्तुम् । मङ्क्तव्यम् । नंष्टा । नंष्टुम् । नंष्टव्यम् । झलि इति किम् ? मज्जनम् । नशनम् । मस्जेर् अन्त्यात् पूर्व नुमम् इच्छन्ति अनुषङ्गादिलोपार्थम् । मग्नः । मग्नवन् ॥ रधि-जभोर् अचि
masji naśi ity etayor aṅgayoḥ jhalādau pratyaye numāgamo bhavati / maṅktā / maṅktum / maṅktavyam / naṃṣṭā / naṃṣṭum / naṃṣṭavyam / jhali iti kim ? majjanam / naśanam / masjer antyāt pūrva numam icchanti anuṣaṅgādilopārtham / magnaḥ / magnavan // radhi-jabhor aci
Sanskrit only: no published translation is held for this verse.
रधि जभि इत्य् एतयोः अजादौ प्रत्यये नुमागमो भवति । रन्धयति ? रन्धकः । साधुरन्धी । रन्धंरन्धम् । रन्धो वर्तते । जम्भयति । जम्भकः । साधुजम्भी । जम्भंजम्भम् । जम्भो वर्तते । परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वात् अचि इति किम् ? रद्धा । जभ्यम् ॥ नेट्यलिटि रधेः
radhi jabhi ity etayoḥ ajādau pratyaye numāgamo bhavati / randhayati ? randhakaḥ / sādhurandhī / randhaṃrandham / randho vartate / jambhayati / jambhakaḥ / sādhujambhī / jambhaṃjambham / jambho vartate / parāpi satī vṛddhirnumā bādhyate, nityatvāt aci iti kim ? raddhā / jabhyam // neṭyaliṭi radheḥ
Sanskrit only: no published translation is held for this verse.
इडादौ अलिटि प्रत्यये परे रधेर् नुमागमो न भवति । रधिता । रधितुम् । रधितव्यम् । इटि इति किम् ? रन्धनम् । रन्धकः । अलिटि इति किम् ? ररन्धिव । ररन्धिम । नुमि कृते संयोगान्तत्वात् असंयोगल्लिट् कित् (*१,२।५) इति कित्त्वं न अस्ति इति नलोपो न भवति । अथ क्वसौ कथं भवितव्यम् ? रेधिवान् इति । कथम् ? एत्वभ्यासलोपयोः कृतयोः इडागमः क्रियते, ततो नुमागमः, तस्य औपदेशिककित्त्वश्रयो लोपः । अथ इटि लिटि इत्य् एवं नियमः कस्मान् न क्रियते, लिट्य् एव इटि न अन्यत्र इति ? विपरीतम् अप्य् अवधारणं सम्भाव्येत, इट्य् एव लिटि न अन्यत्र इति । तथा हि सति ररन्ध इत्य् अत्र न स्यात्, रधिता इत्य् अत्र च स्याद् एव ॥ रभेर् अशब्-लिटोः
iḍādau aliṭi pratyaye pare radher numāgamo na bhavati / radhitā / radhitum / radhitavyam / iṭi iti kim ? randhanam / randhakaḥ / aliṭi iti kim ? rarandhiva / rarandhima / numi kṛte saṃyogāntatvāt asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ na asti iti nalopo na bhavati / atha kvasau kathaṃ bhavitavyam ? redhivān iti / katham ? etvabhyāsalopayoḥ kṛtayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, tasya aupadeśikakittvaśrayo lopaḥ / atha iṭi liṭi ity evaṃ niyamaḥ kasmān na kriyate, liṭy eva iṭi na anyatra iti ? viparītam apy avadhāraṇaṃ sambhāvyeta, iṭy eva liṭi na anyatra iti / tathā hi sati rarandha ity atra na syāt, radhitā ity atra ca syād eva // rabher aśab-liṭoḥ
Sanskrit only: no published translation is held for this verse.
लभेश् च
labheś ca
Sanskrit only: no published translation is held for this verse.
लभेश् च अजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति । लम्भयति । लम्भकः । साधुलम्भी । लम्भंलम्भम् । लम्भो वर्तते । अशब्लिटोः इत्य् एव, लभते । लेभे । अचि इत्य् एव, लब्धा । लभेश् च पृथग्योगकरनम् उत्तरार्थम् ॥ आङो यि
labheś ca ajādau pratyaye śabliḍvarjite numāgamo bhavati / lambhayati / lambhakaḥ / sādhulambhī / lambhaṃlambham / lambho vartate / aśabliṭoḥ ity eva, labhate / lebhe / aci ity eva, labdhā / labheś ca pṛthagyogakaranam uttarārtham // āṅo yi
Sanskrit only: no published translation is held for this verse.
आङः उत्तरस्य लभेः यकारादिप्रययविषये नुमागमो भवति । आलम्भ्या गौः । आलम्भ्या वडवा । प्राक् प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वम् इति ऋहलोर् ण्यत् (*३,१।१२४) इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति । यति तु पुनर् उत्तरपदाद्युदात्तत्वं स्यात् । आङः इति किम् ? लभ्यम् । कथम् अग्निष्टोम आलभ्यः इति ? सर्वे विधयश् छन्दसि विकल्प्यन्ते । अथ वा आलभ्यः इत्य् अत्र नुमि कृते ऽनुषङ्गलोपः क्रियते ॥ उपात् प्रशंसायाम्
āṅaḥ uttarasya labheḥ yakārādiprayayaviṣaye numāgamo bhavati / ālambhyā gauḥ / ālambhyā vaḍavā / prāk pratyayotpatteḥ numi kṛte vihitamadupadhatvam iti ṛhalor ṇyat (*3,1.124) iti ṇyatpratyayaḥ, tatra kṛduttarapadaprakṛtisvaratvena antasvaritatvaṃ bhavati / yati tu punar uttarapadādyudāttatvaṃ syāt / āṅaḥ iti kim ? labhyam / katham agniṣṭoma ālabhyaḥ iti ? sarve vidhayaś chandasi vikalpyante / atha vā ālabhyaḥ ity atra numi kṛte 'nuṣaṅgalopaḥ kriyate // upāt praśaṃsāyām
Sanskrit only: no published translation is held for this verse.
उपाद् उत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति । उपलम्भ्या भवता विद्या । उपलम्भ्यानि धनानि । ण्यत्प्रत्ययान्तत्वात् अन्तस्वरितत्वम् एव । प्रशंसायाम् इति किम् ? उपलभ्यम् अस्माद् वृषलात् किञ्चित् । पोरदुपधत्वाद् यत्प्रत्ययान्तम् इदम् ॥ उपसर्गात् खल्-घञोः
upād uttarasya labheḥ praśaṃsāyāṃ gamyamānāyāṃ yakārādipratyayaviṣaye numāgamo bhavati / upalambhyā bhavatā vidyā / upalambhyāni dhanāni / ṇyatpratyayāntatvāt antasvaritatvam eva / praśaṃsāyām iti kim ? upalabhyam asmād vṛṣalāt kiñcit / poradupadhatvād yatpratyayāntam idam // upasargāt khal-ghañoḥ
Sanskrit only: no published translation is held for this verse.
उपसर्गाद् उत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति । ईषत्प्रलम्भः । सुप्रलम्भः । दुष्प्रलम्भः । घञि - प्रलम्भः । विप्रलम्भः । सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र । ईषल्लभः । लाभो वर्तते ॥ न सु-दुर्भ्यां केवलाभ्याम्
upasargād uttarasya labheḥ khalghañoḥ parataḥ numāgamo bhavati / īṣatpralambhaḥ / supralambhaḥ / duṣpralambhaḥ / ghañi - pralambhaḥ / vipralambhaḥ / siddhe satyārambho niyamārthaḥ, upasargādeva labheḥ khalghañoḥ parato numāgamo bhavati, na anyatra / īṣallabhaḥ / lābho vartate // na su-durbhyāṃ kevalābhyām
Sanskrit only: no published translation is held for this verse.
विभाषा चिण्-णमुलोः
vibhāṣā ciṇ-ṇamuloḥ
Sanskrit only: no published translation is held for this verse.
चिण् णमुल् इत्य् एतयोः विभाषा लभेर् नुम् भवति । अलाभि, अलम्भि । लाभंलाभम्, लम्भंलम्भम् । व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुम् भवति । प्रालम्भि । प्रलम्भम् ॥ उगिदचां सर्वनामस्थाने ऽधातोः
ciṇ ṇamul ity etayoḥ vibhāṣā labher num bhavati / alābhi, alambhi / lābhaṃlābham, lambhaṃlambham / vyavasthitavibhāṣā ceyam, tena anupasṛṣṭasya vikalpaḥ, upasṛṣṭasya nityaṃ num bhavati / prālambhi / pralambham // ugidacāṃ sarvanāmasthāne 'dhātoḥ
Sanskrit only: no published translation is held for this verse.
उगितामङ्गानां धातुवर्जितानाम् अञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति । भवतु - भवान्, भवन्तौ, भवन्तः । ईयसुन् - श्रेयान्, श्रेयांसौ, श्रेयांसः । शतृ - पचन्, पचन्तौ, पचन्तः । अञ्चतेः - प्राङ्, प्राञ्चौ, प्राञ्चः । उगिदचाम् इति किम् ? दृषद्, दृषदौ, दृषदः । सर्वनामस्थाने इति किम् ? भवतः पश्य । श्रेयसः पश्य । अञ्चतिग्रहणं नियमार्थम्, अञ्चतेर् एव धातोर् अन्यस्य मा भूत् । उखास्रत् । पर्णध्वत् । अधातोः इति किम् ? अधातुभूतपूर्वस्य यथा स्यात् । गोमन्तम् इच्छति गोमत्यति, गोमत्यतेर् अप्रत्ययः गोमान् । अत्र हि धातुत्वाद् अञ्चतिग्रहणान् न स्यात् ॥ युजेर् असमासे
ugitāmaṅgānāṃ dhātuvarjitānām añcateśca sarvanāmasthāne parato numāgamo bhavati / bhavatu - bhavān, bhavantau, bhavantaḥ / īyasun - śreyān, śreyāṃsau, śreyāṃsaḥ / śatṛ - pacan, pacantau, pacantaḥ / añcateḥ - prāṅ, prāñcau, prāñcaḥ / ugidacām iti kim ? dṛṣad, dṛṣadau, dṛṣadaḥ / sarvanāmasthāne iti kim ? bhavataḥ paśya / śreyasaḥ paśya / añcatigrahaṇaṃ niyamārtham, añcater eva dhātor anyasya mā bhūt / ukhāsrat / parṇadhvat / adhātoḥ iti kim ? adhātubhūtapūrvasya yathā syāt / gomantam icchati gomatyati, gomatyater apratyayaḥ gomān / atra hi dhātutvād añcatigrahaṇān na syāt // yujer asamāse
Sanskrit only: no published translation is held for this verse.
युजेर् असमासे सर्वनामस्थाने परतो नुमागमो भवति । युङ्, युञ्जौ, युञ्जः । असमासे इति किम् ? अश्वयुक्, अश्वयुजौ, अश्वयुजः । युजेः इति इकारनिर्देशात् युज समाधौ इत्य् अस्य ग्रहणं न भवति । युजमापन्ना ऋषयः ॥ नपुंसकस्य झल्-अचः
yujer asamāse sarvanāmasthāne parato numāgamo bhavati / yuṅ, yuñjau, yuñjaḥ / asamāse iti kim ? aśvayuk, aśvayujau, aśvayujaḥ / yujeḥ iti ikāranirdeśāt yuja samādhau ity asya grahaṇaṃ na bhavati / yujamāpannā ṛṣayaḥ // napuṃsakasya jhal-acaḥ
Sanskrit only: no published translation is held for this verse.
इको ऽचि विभक्तौ
iko 'ci vibhaktau
Sanskrit only: no published translation is held for this verse.
इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति । त्रपुणी । जतुनी । तुम्बुरुणी । त्रपुणे । जतुने । तुम्बुरुणे । इकः इति किम् ? कुण्डे । पीठे । अचि इति किम् ? उत्तरार्थम् । यद्य् एवम्, तत्र+एव कर्तव्यम् ? इह तु करणस्य एतत् प्रयोजनम्, हे त्रपो इत्य् अत्र नुम् मा भूत्, इति, न ङिसम्बुद्ध्योः (*८,२।८) इति नलोपप्रतिषेधः स्यात् । ननु च न लुमताङ्गस्य (*१,१।६३) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिर् एव न अस्ति ? एतद् एव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधो ऽत्र न भवति इति । तथा च सम्बुद्धिगुणः क्रियते । विभक्तौ इति किं ? तौम्बुरवं चूर्णम् । इको ऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम् । स्वरो वै श्रूयमाणे ऽपि लुप्ते किं न भविष्यति । रायात्वं तिसृभावश् च व्यवधानान्नुमा अपि । नुड् वाच्य उत्तरार्थं तु इह किञ्चित् त्रपो इति ॥ तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य
igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati / trapuṇī / jatunī / tumburuṇī / trapuṇe / jatune / tumburuṇe / ikaḥ iti kim ? kuṇḍe / pīṭhe / aci iti kim ? uttarārtham / yady evam, tatra+eva kartavyam ? iha tu karaṇasya etat prayojanam, he trapo ity atra num mā bhūt, iti, na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedhaḥ syāt / nanu ca na lumatāṅgasya (*1,1.63) iti pratyayalakṣaṇe pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho 'tra na bhavati iti / tathā ca sambuddhiguṇaḥ kriyate / vibhaktau iti kiṃ ? taumburavaṃ cūrṇam / iko 'ci vyañjane mā bhūdastu lopaḥ svaraḥ katham / svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati / rāyātvaṃ tisṛbhāvaś ca vyavadhānānnumā api / nuḍ vācya uttarārthaṃ tu iha kiñcit trapo iti // tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya
Sanskrit only: no published translation is held for this verse.
अस्थि-दधि-सक्थ्य्-अक्ष्णाम् अनङ् उदात्तः
asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ
Sanskrit only: no published translation is held for this verse.
अस्थि दधि सक्थि अक्षि इत्य् एतेषा नपुंसकानां तृतीयादिषु अजादिषु विभक्तिषु परतो ऽनङ् इत्य् अयम् आदेशो भवति, स च+उदात्तो भवति । अस्थ्ना । अस्थ्ने । दध्ना । दध्ने । सक्थ्ना । सक्थ्ने । अक्ष्णा । अक्ष्णे । अस्थ्यादय आद्युदात्ताः, तेषाम् अनङादेशः स्थानिवद्भावाद् अनुदात्तः स्यात् इति उदात्तवचनम् । तत्र भसञ्ज्ञायाम् अल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिर् उदात्ता भवति । एतैर् अस्थ्यादिभिर् नपुंसकैर् अनपुंसकस्य अपि अङ्गस्य तदन्तग्रहणम् इष्यते । प्रियास्थ्ना ब्राह्मणेन । प्रियदध्ना । तृतीयादिषु इति किम् ? अस्थिनी । दधिनी । अचि इत्य् एव, अस्थिभ्याम् । दधिभ्याम् ॥ छन्दस्य् अपि दृश्यते
asthi dadhi sakthi akṣi ity eteṣā napuṃsakānāṃ tṛtīyādiṣu ajādiṣu vibhaktiṣu parato 'naṅ ity ayam ādeśo bhavati, sa ca+udātto bhavati / asthnā / asthne / dadhnā / dadhne / sakthnā / sakthne / akṣṇā / akṣṇe / asthyādaya ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam / tatra bhasañjñāyām allope kṛte udāttanivṛttisvareṇa vibhaktir udāttā bhavati / etair asthyādibhir napuṃsakair anapuṃsakasya api aṅgasya tadantagrahaṇam iṣyate / priyāsthnā brāhmaṇena / priyadadhnā / tṛtīyādiṣu iti kim ? asthinī / dadhinī / aci ity eva, asthibhyām / dadhibhyām // chandasy api dṛśyate
Sanskrit only: no published translation is held for this verse.
अस्थि-दधि-सक्थ्य्-अक्ष्णाम् अनङ् छन्दस्य् अपि दृश्यते । यत्र विहितस् ततो ऽन्यत्र अपि दृश्यते । अचि इत्य् उक्तम्, अनजादौ ऐ दृश्यते । इन्द्रो दधीचो अस्थभिः । भद्रं पश्येमाक्षभिः । तृतीयादिषु इत्य् उक्तम्, अतृतीयादिषु अपि दृश्यते । अस्थान्युत्कृत्य जुहोति । विभक्तौ इत्य् उक्त, अविभक्ताव् अपि दृश्यते । अक्षण्वता लाङ्गलेन । अस्थन्वन्तं यदनस्था बिभर्ति ॥ ई च द्विवचने
asthi-dadhi-sakthy-akṣṇām anaṅ chandasy api dṛśyate / yatra vihitas tato 'nyatra api dṛśyate / aci ity uktam, anajādau ai dṛśyate / indro dadhīco asthabhiḥ / bhadraṃ paśyemākṣabhiḥ / tṛtīyādiṣu ity uktam, atṛtīyādiṣu api dṛśyate / asthānyutkṛtya juhoti / vibhaktau ity ukta, avibhaktāv api dṛśyate / akṣaṇvatā lāṅgalena / asthanvantaṃ yadanasthā bibharti // ī ca dvivacane
Sanskrit only: no published translation is held for this verse.
द्विवचने परतः छन्दसि विषये अस्थ्यादीनाम् ईकारादेशो भवति, स च उदात्तः । अक्षी ते इन्द्र पिङ्गले कपेरिव । अक्षीभ्यां ते नासिकाभ्याम् । अक्षी इत्य् अत्र नुम् परत्वादीकारेण बध्यते । तेन कृते सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति पुनर् नुम् न क्रियते ॥ न अभ्यस्ताच् छतुः
dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ / akṣī te indra piṅgale kaperiva / akṣībhyāṃ te nāsikābhyām / akṣī ity atra num paratvādīkāreṇa badhyate / tena kṛte sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva iti punar num na kriyate // na abhyastāc chatuḥ
Sanskrit only: no published translation is held for this verse.
अभ्यस्ताद् अङ्गाद् उत्तरस्य शतुः नुम् न भवति । ददत्, ददतौ, ददतः । दधत्, दधौ, दधतः । जक्षत्, जक्षतौ, जक्षतः । जाग्रत्, जाग्रतौ, जाग्रतः । शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते ॥ वा नपुंसकस्य
abhyastād aṅgād uttarasya śatuḥ num na bhavati / dadat, dadatau, dadataḥ / dadhat, dadhau, dadhataḥ / jakṣat, jakṣatau, jakṣataḥ / jāgrat, jāgratau, jāgrataḥ / śaturanantara īkāro na vihitaḥ iti vyavahitasya api numaḥ pratiṣedho vijñāyate // vā napuṃsakasya
Sanskrit only: no published translation is held for this verse.
आच् छी-नद्योर् नुम्
āc chī-nadyor num
Sanskrit only: no published translation is held for this verse.
अवर्णान्ताद् अङ्गाद् उत्तरस्य शतुः वा नुमागमो भवति शीनद्योः परतः । तुदती कुले, तुअदन्ती कुले । तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी । याती कुले, यान्ती कुले । याती ब्राह्मणी, यान्ती ब्राह्मणी । करिष्यती कुले, करिष्यन्ती कुले । करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्नणी । अत्र अन्तरङ्गत्वाद् एकादेशे कृते व्यपवर्गाभावात् अवर्णान्ता दङ्गाद् उत्तरस्य शतुः इति न युज्यते वक्तुम्, उभयत आश्रये नान्तदिवत् इत्य् अन्तादिवद्भावो ऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती, घ्नती इत्य् एवम् आदिषु अतिप्रसङ्गः इति ? अत्र समाधिं केचिद् आहुः । शतुरवयवे शतृशब्दो वर्तते अवर्णान्ताद् अङ्गाद् उत्तरो यः शत्रवयवः इति । अपरे पुनर् आहुः । आत् इत्य् अनेन शीनद्यावेव विशेष्येते । अवर्णान्ताद् अङ्गाद् उत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम् भवति इति । तत्र येन नाव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यात् इति तकारेण एव व्यवधानम् आश्रयिष्यते । आत् इति किम् ? कुर्वती । सुन्वती । शीनद्योः इति किम् ? तुदताम् । नुदताम् ॥ शप्-श्यनोर् नित्यम्
avarṇāntād aṅgād uttarasya śatuḥ vā numāgamo bhavati śīnadyoḥ parataḥ / tudatī kule, tuadantī kule / tudatī brāhmaṇī, tudantī brāhmaṇī / yātī kule, yāntī kule / yātī brāhmaṇī, yāntī brāhmaṇī / kariṣyatī kule, kariṣyantī kule / kariṣyatī brāhmaṇī, kariṣyantī brāhnaṇī / atra antaraṅgatvād ekādeśe kṛte vyapavargābhāvāt avarṇāntā daṅgād uttarasya śatuḥ iti na yujyate vaktum, ubhayata āśraye nāntadivat ity antādivadbhāvo 'pi nāsti, bhūtapūrvagatyāśrayaṇe vā adatī, ghnatī ity evam ādiṣu atiprasaṅgaḥ iti ? atra samādhiṃ kecid āhuḥ / śaturavayave śatṛśabdo vartate avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti / apare punar āhuḥ / āt ity anena śīnadyāveva viśeṣyete / avarṇāntād aṅgād uttare ye śīnadyau tayoḥ parataḥ śatrantasya num bhavati iti / tatra yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti takāreṇa eva vyavadhānam āśrayiṣyate / āt iti kim ? kurvatī / sunvatī / śīnadyoḥ iti kim ? tudatām / nudatām // śap-śyanor nityam
Sanskrit only: no published translation is held for this verse.
शप् श्यन् इत्य् एतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति । पचन्ती कुले । पचन्ती ब्राह्मणी । दीव्यन्ती कुले । दीव्यन्ती ब्राह्मणी । सीव्यन्ती कुले । सिव्यन्ती ब्राह्नणी । नित्यग्रहणम् वा इत्य् अस्य अधिकारस्य निवृत्त्यर्थम् । इहारम्भसामर्थ्यान् नित्यम् उत्तरत्र विकल्प एव अशङ्क्येत ॥ साव् अनडुह
śap śyan ity etayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati / pacantī kule / pacantī brāhmaṇī / dīvyantī kule / dīvyantī brāhmaṇī / sīvyantī kule / sivyantī brāhnaṇī / nityagrahaṇam vā ity asya adhikārasya nivṛttyartham / ihārambhasāmarthyān nityam uttaratra vikalpa eva aśaṅkyeta // sāv anaḍuha
Sanskrit only: no published translation is held for this verse.
सौ परतः अनडुहो ऽङ्गस्य नुमागमो भवति । अनड्वान् । हे अनड्वन् । अत्र केचित् आत् इत्य् अधिकाराद् आममोः कृतयोः नुमं कुर्वन्ति । तेन नुमा आममौ न बाध्येते, आअमम्भ्यां च नुम् इति । अपरे तु सत्य् अपि सामान्यविशेषत्वे आममोः नुमश् च समावेशम् इच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोः इति ॥ दृक्-स्ववस्-स्वतवसां छन्दसि
sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati / anaḍvān / he anaḍvan / atra kecit āt ity adhikārād āmamoḥ kṛtayoḥ numaṃ kurvanti / tena numā āmamau na bādhyete, āamambhyāṃ ca num iti / apare tu saty api sāmānyaviśeṣatve āmamoḥ numaś ca samāveśam icchanti, na bādhyabādhakabhāvam, yathā cicīṣatyādiṣu dīrghatvadvirvacanayoḥ iti // dṛk-svavas-svatavasāṃ chandasi
Sanskrit only: no published translation is held for this verse.
दृक् स्ववस् स्वतवस् इत्य् एतेषां सौ परतो नुमागमो भवति छन्दसि विषये । ईदृङ् । तादृग् । यादृग् । सदृङ् । स्ववान् । स्वतवान् पायुरग्ने ॥ दिव औत्
dṛk svavas svatavas ity eteṣāṃ sau parato numāgamo bhavati chandasi viṣaye / īdṛṅ / tādṛg / yādṛg / sadṛṅ / svavān / svatavān pāyuragne // diva aut
Sanskrit only: no published translation is held for this verse.
पथि-मथ्य्-ऋभुक्षाम् आत्
pathi-mathy-ṛbhukṣām āt
Sanskrit only: no published translation is held for this verse.
पथिन् मथिन् ऋभुक्षिन् इत्य् एतेषाम् अङ्गानां सौ परतः आकारः आदेशो भवति । पन्थाः । अन्थाः । ऋभुक्षाः । स्थानिन्यनुनासिके ऽपि आकारो ऽनुनासिको न भवति । भाव्यम् अनेन सवर्णानां ग्रहणं न भवति इति शुद्धो ह्य् अयम् उच्वार्यते ॥ इतो ऽत् सर्वनामस्थाने
pathin mathin ṛbhukṣin ity eteṣām aṅgānāṃ sau parataḥ ākāraḥ ādeśo bhavati / panthāḥ / anthāḥ / ṛbhukṣāḥ / sthāninyanunāsike 'pi ākāro 'nunāsiko na bhavati / bhāvyam anena savarṇānāṃ grahaṇaṃ na bhavati iti śuddho hy ayam ucvāryate // ito 't sarvanāmasthāne
Sanskrit only: no published translation is held for this verse.
पथ्यादीनाम् इकारस्य स्थाने अकारादेशो भवति सर्वनामस्थाने परतः । पन्थाः, पथानौ, पन्थानः । पन्थानम्, पन्थानौ । मन्थाः, मन्थानौ, मन्थानः । मन्थानम्, मन्थानौ । ऋभुक्षाः, ऋक्भुक्षाणौ, ऋभुक्षाणः । ऋभुक्षाणम्, ऋभुक्षाणौ । आत् इति वर्तामाने पुनर् अद्वचनं षपूर्वार्थम् । ऋभुक्षणम् इत्य् अत्र वा षपूर्वस्य निगमे (*६,४।९) इति दीर्घविकल्पः ॥ थो न्थः
pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne parataḥ / panthāḥ, pathānau, panthānaḥ / panthānam, panthānau / manthāḥ, manthānau, manthānaḥ / manthānam, manthānau / ṛbhukṣāḥ, ṛkbhukṣāṇau, ṛbhukṣāṇaḥ / ṛbhukṣāṇam, ṛbhukṣāṇau / āt iti vartāmāne punar advacanaṃ ṣapūrvārtham / ṛbhukṣaṇam ity atra vā ṣapūrvasya nigame (*6,4.9) iti dīrghavikalpaḥ // tho nthaḥ
Sanskrit only: no published translation is held for this verse.
पथिमथोः थकारस्य स्थाने न्थः इत्य् अयम् आदेशो भवति सर्वनामस्थाने परतः । पन्थाः, पन्थानौ, पन्थानः । मन्थाः, मन्थानौ, मन्थानः ॥ भस्य टेर् लोपः
pathimathoḥ thakārasya sthāne nthaḥ ity ayam ādeśo bhavati sarvanāmasthāne parataḥ / panthāḥ, panthānau, panthānaḥ / manthāḥ, manthānau, manthānaḥ // bhasya ṭer lopaḥ
Sanskrit only: no published translation is held for this verse.
पथ्यादीनां भसञ्ज्ञकानां टेः लोपो भवति । पथः । पथा । पथे । मथः । मथा । मथे । ऋभुक्षः । ऋभुक्षा । ऋभुक्षे । सर्वनामस्थाने इत्य् अनुवर्तमानम् अपि विरोधाद् इह न सम्बध्यते ॥ पुंसो ऽसुङ्
pathyādīnāṃ bhasañjñakānāṃ ṭeḥ lopo bhavati / pathaḥ / pathā / pathe / mathaḥ / mathā / mathe / ṛbhukṣaḥ / ṛbhukṣā / ṛbhukṣe / sarvanāmasthāne ity anuvartamānam api virodhād iha na sambadhyate // puṃso 'suṅ
Sanskrit only: no published translation is held for this verse.
गोतो णित्
goto ṇit
Sanskrit only: no published translation is held for this verse.
गोशदात् परं सर्वनामस्थानं णित् भवति । णित्कार्यं तत्र भवति इत्य् अर्थः । गौः, गावौ, गावः । तपरकरणं किम् ? चित्रगुः । शबलगुः । कथं हे चित्रगो, हे शबलगव इति ? अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति सम्बुद्धिजसोर्गुने कृते णित्त्वं न भवति । अथ वा गोतः इति सम्बधलक्षणा षष्ठी, गोतः सम्बन्धि यत् सर्वनामस्थानम् इति । यच् च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानम् इत्य् उच्यते । चित्रगुशब्दात् तु सर्वनामस्थानं तदन्यपदार्थसैकत्वादिनाह । तपरकरणं तु निर्देशर्थम् एव । केचित् ओतो णित् इति पठन्ति, द्योशब्दाद् अपि यत् सर्वनामस्थानं विद्यते तदर्थम् । द्यौः, द्यावौ, द्यावः । गोतः इत्य् एतद् एव तपरकरणनिर्देशात् ओकारान्तोपलक्षणं द्रष्टव्यम् । वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम् ॥ णल् उत्तमो वा
gośadāt paraṃ sarvanāmasthānaṃ ṇit bhavati / ṇitkāryaṃ tatra bhavati ity arthaḥ / gauḥ, gāvau, gāvaḥ / taparakaraṇaṃ kim ? citraguḥ / śabalaguḥ / kathaṃ he citrago, he śabalagava iti ? aṅgavṛtte punarvṛttāvavidhirniṣṭhitasya iti sambuddhijasorgune kṛte ṇittvaṃ na bhavati / atha vā gotaḥ iti sambadhalakṣaṇā ṣaṣṭhī, gotaḥ sambandhi yat sarvanāmasthānam iti / yac ca tadarthasyaikatvādiṣu sarvanāmasthānaṃ tad goḥ sarvanāmasthānam ity ucyate / citraguśabdāt tu sarvanāmasthānaṃ tadanyapadārthasaikatvādināha / taparakaraṇaṃ tu nirdeśartham eva / kecit oto ṇit iti paṭhanti, dyośabdād api yat sarvanāmasthānaṃ vidyate tadartham / dyauḥ, dyāvau, dyāvaḥ / gotaḥ ity etad eva taparakaraṇanirdeśāt okārāntopalakṣaṇaṃ draṣṭavyam / varṇanirdeśeṣu hi taparakaraṇaṃ prasiddham // ṇal uttamo vā
Sanskrit only: no published translation is held for this verse.
उत्तमो णल् वा णित् भवति । णित्कार्यं तत्र वा भवति इत्य् अर्थः । अहं चकर, अहं चकार । अहं पपच, अहं पपाच ॥ सख्युर् असम्बुद्धौ
uttamo ṇal vā ṇit bhavati / ṇitkāryaṃ tatra vā bhavati ity arthaḥ / ahaṃ cakara, ahaṃ cakāra / ahaṃ papaca, ahaṃ papāca // sakhyur asambuddhau
Sanskrit only: no published translation is held for this verse.
असम्बुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णित् भवति । सखायौ । सखायः । असम्बुद्धौ इति किम् ? हे सखे ॥ अनङ् सौ
asambuddhau yaḥ sakhiśabdaḥ tasmāt paraṃ sarvanāmasthānaṃ ṇit bhavati / sakhāyau / sakhāyaḥ / asambuddhau iti kim ? he sakhe // anaṅ sau
Sanskrit only: no published translation is held for this verse.
सखिशब्दस्य सौ परतः अनङ् इत्य् अयम् आदेशो भवति, स चेत् सुशब्दः सम्बुद्धिः न भवति । सखा । असम्बुद्धौ इति किम् ? हे सखे ॥ ऋद्-उशनस्-पुरु-दंसो ऽनेहसां च
sakhiśabdasya sau parataḥ anaṅ ity ayam ādeśo bhavati, sa cet suśabdaḥ sambuddhiḥ na bhavati / sakhā / asambuddhau iti kim ? he sakhe // ṛd-uśanas-puru-daṃso 'nehasāṃ ca
Sanskrit only: no published translation is held for this verse.
तृज्-वत् क्रोष्टुः
tṛj-vat kroṣṭuḥ
Sanskrit only: no published translation is held for this verse.
क्रोष्टुशब्दः तुन्प्रत्ययान्तः सञ्ज्ञाशब्दः सर्वनामस्थाने ऽसम्बुद्धौ परतः तृज्वद् भवति । तृजन्तस्य यद् रूपं तदस्य भवति इत्य् अर्थः । रूपातिदेशो ऽयम् । प्रयासत्तेश् च क्रुशेर् एव ऋजन्तस्य य रूपं तदतिदिश्यते । तच् च क्रोष्तृ इत्य् एतद् अन्तोदात्तम् । क्रोष्टा, क्रोष्टारौ, क्रोष्टारः । क्रोष्टारम्, क्रोष्टरौ । सर्वनामस्थाने इत्य् एव, क्रोष्टून् । असम्बुद्धौ इत्य् एव, हे क्रोष्टो ॥ स्त्रियां च
kroṣṭuśabdaḥ tunpratyayāntaḥ sañjñāśabdaḥ sarvanāmasthāne 'sambuddhau parataḥ tṛjvad bhavati / tṛjantasya yad rūpaṃ tadasya bhavati ity arthaḥ / rūpātideśo 'yam / prayāsatteś ca kruśer eva ṛjantasya ya rūpaṃ tadatidiśyate / tac ca kroṣtṛ ity etad antodāttam / kroṣṭā, kroṣṭārau, kroṣṭāraḥ / kroṣṭāram, kroṣṭarau / sarvanāmasthāne ity eva, kroṣṭūn / asambuddhau ity eva, he kroṣṭo // striyāṃ ca
Sanskrit only: no published translation is held for this verse.
असर्वनामस्थानार्थम् आरम्भः । स्त्रियां च क्रोष्तुशब्दस्य तृज्वद् भवति । क्रोष्ट्री । क्रोष्ट्रीभ्याम् । क्रोष्ट्रीभिः । क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति । तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम् । ये तु गौरादिषु न पठन्ति, तेषां स्त्रियाम् इत्य् अर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद् भवति । कृते ऽतिदेशे ऋन्नेभ्यो ङीप् (*४,१।५) इति ङीप्प्रत्ययः । तत्र उदात्तयणो हल्पूर्वात् (*६,१।१७४) इत्य् अन्तोदात्त एव क्रोष्ट्रीशब्दो भवति ॥ विभाषा तृतीयादिष्व् अचि
asarvanāmasthānārtham ārambhaḥ / striyāṃ ca kroṣtuśabdasya tṛjvad bhavati / kroṣṭrī / kroṣṭrībhyām / kroṣṭrībhiḥ / kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tṛjvadbhāvaṃ kurvanti / teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ pañcakroṣṭṛbhī rathaiḥ iti strīśabdasya luki kṛte na sidhyati, tatra pratividheyam / ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ tṛjvad bhavati / kṛte 'tideśe ṛnnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ / tatra udāttayaṇo halpūrvāt (*6,1.174) ity antodātta eva kroṣṭrīśabdo bhavati // vibhāṣā tṛtīyādiṣv aci
Sanskrit only: no published translation is held for this verse.
तृतीयादिषु विभक्तिषु अजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति । क्रोष्ट्री, क्रोष्टुना । क्रोष्ट्रे क्रोष्टवे । क्रोष्टुः, क्रोष्टोः । क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः, क्रोष्ट्वोः । तृतीयादिषु इति किम् ? क्रोष्टून् । अचि इति किम् ? क्रोष्टुभ्याम् । क्रोष्टुभिः । तृज्वद्भावात् पूर्वविप्रतिषेधेन नुम्नुटौ भवतः । प्रियक्रोष्टुने अरण्याय । हतक्रोष्टु वृषलकुलाय । नुट् - क्रोष्टूनाम् ॥ चतुर्-अनडुहोर् आमुदात्तः
tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjvad bhavati / kroṣṭrī, kroṣṭunā / kroṣṭre kroṣṭave / kroṣṭuḥ, kroṣṭoḥ / kroṣṭari, kroṣṭau / kroṣṭroḥ, kroṣṭvoḥ / tṛtīyādiṣu iti kim ? kroṣṭūn / aci iti kim ? kroṣṭubhyām / kroṣṭubhiḥ / tṛjvadbhāvāt pūrvavipratiṣedhena numnuṭau bhavataḥ / priyakroṣṭune araṇyāya / hatakroṣṭu vṛṣalakulāya / nuṭ - kroṣṭūnām // catur-anaḍuhor āmudāttaḥ
Sanskrit only: no published translation is held for this verse.
अम् सम्बुद्धौ
am sambuddhau
Sanskrit only: no published translation is held for this verse.
सम्बुद्धौ परतश्चतुरनडुहोः अम् आगमो भवति । पूर्वस्य अयम् अपवादः । हे प्रियचत्वः । हे प्रियानड्वन् ॥ ॠत इद्-धतोः
sambuddhau parataścaturanaḍuhoḥ am āgamo bhavati / pūrvasya ayam apavādaḥ / he priyacatvaḥ / he priyānaḍvan // ṝta id-dhatoḥ
Sanskrit only: no published translation is held for this verse.
ॠकारान्तस्य धातोः अङ्गस्य इकारादेशो भवति । किरति । गिरति । आस्तीर्णम् । विशीर्णम् । धातोः इति किम् ? पितॄणाम् । मातॄणाम् । लाक्षणिकस्य अप्य् अत्र ग्रहणम् इष्यते । चिकीर्षति इत्य् अत्र अपि यथा स्यात् इति धातुग्रहणं क्रियते ॥ उपधायाश् च
ṝkārāntasya dhātoḥ aṅgasya ikārādeśo bhavati / kirati / girati / āstīrṇam / viśīrṇam / dhātoḥ iti kim ? pitṝṇām / mātṝṇām / lākṣaṇikasya apy atra grahaṇam iṣyate / cikīrṣati ity atra api yathā syāt iti dhātugrahaṇaṃ kriyate // upadhāyāś ca
Sanskrit only: no published translation is held for this verse.
उपधायाश् च ॠकारस्य इकारादेशो भवति । कीर्तयति, कीर्तयतः, कीर्तयन्ति ॥ उद् ओष्ठ्यपूर्वस्य
upadhāyāś ca ṝkārasya ikārādeśo bhavati / kīrtayati, kīrtayataḥ, kīrtayanti // ud oṣṭhyapūrvasya
Sanskrit only: no published translation is held for this verse.
ओष्थ्यः पूर्वो यस्माद् ॠकारात् असौ ओष्ठ्यपूर्वः, तदन्तस्य धातोर् अङ्गस्य उकारादेशो भवति । पूर्ताः पिण्डाः । पुपूर्षति । मुमूर्षति । सुस्वूर्षति । दन्त्योष्ठ्यपूर्वो ऽप्य् ओष्ठ्यपूर्वो भवति इत्य् अत्र अपि भवति, वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम् । ओष्ठ्यो ह्य् अत्र प्रत्यासत्तेर् अङ्गावयव एव गृह्यते, तेन ॠ गतौ इत्य् अस्य सम्पूर्वस्य समीर्णम् इति भवति । इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । आस्तरणम् । आस्तारकः । निपरणम् । निपारकः । निगरणम् । निगारकः ॥ बहुलं छन्दसि
oṣthyaḥ pūrvo yasmād ṝkārāt asau oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo bhavati / pūrtāḥ piṇḍāḥ / pupūrṣati / mumūrṣati / susvūrṣati / dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity atra api bhavati, vuvūrṣati ṛtvijam, prāvuvūrṣati kambalam / oṣṭhyo hy atra pratyāsatter aṅgāvayava eva gṛhyate, tena ṝ gatau ity asya sampūrvasya samīrṇam iti bhavati / ittvottvābhyāṃ guṇavṛddhī bhavato vipratiṣedhena / āstaraṇam / āstārakaḥ / niparaṇam / nipārakaḥ / nigaraṇam / nigārakaḥ // bahulaṃ chandasi
Sanskrit only: no published translation is held for this verse.