इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति । त्रपुणी । जतुनी । तुम्बुरुणी । त्रपुणे । जतुने । तुम्बुरुणे । इकः इति किम् ? कुण्डे । पीठे । अचि इति किम् ? उत्तरार्थम् । यद्य् एवम्, तत्र+एव कर्तव्यम् ? इह तु करणस्य एतत् प्रयोजनम्, हे त्रपो इत्य् अत्र नुम् मा भूत्, इति, न ङिसम्बुद्ध्योः (*८,२।८) इति नलोपप्रतिषेधः स्यात् । ननु च न लुमताङ्गस्य (*१,१।६३) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिर् एव न अस्ति ? एतद् एव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधो ऽत्र न भवति इति । तथा च सम्बुद्धिगुणः क्रियते । विभक्तौ इति किं ? तौम्बुरवं चूर्णम् । इको ऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम् । स्वरो वै श्रूयमाणे ऽपि लुप्ते किं न भविष्यति । रायात्वं तिसृभावश् च व्यवधानान्नुमा अपि । नुड् वाच्य उत्तरार्थं तु इह किञ्चित् त्रपो इति ॥ तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य
igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati / trapuṇī / jatunī / tumburuṇī / trapuṇe / jatune / tumburuṇe / ikaḥ iti kim ? kuṇḍe / pīṭhe / aci iti kim ? uttarārtham / yady evam, tatra+eva kartavyam ? iha tu karaṇasya etat prayojanam, he trapo ity atra num mā bhūt, iti, na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedhaḥ syāt / nanu ca na lumatāṅgasya (*1,1.63) iti pratyayalakṣaṇe pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho 'tra na bhavati iti / tathā ca sambuddhiguṇaḥ kriyate / vibhaktau iti kiṃ ? taumburavaṃ cūrṇam / iko 'ci vyañjane mā bhūdastu lopaḥ svaraḥ katham / svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati / rāyātvaṃ tisṛbhāvaś ca vyavadhānānnumā api / nuḍ vācya uttarārthaṃ tu iha kiñcit trapo iti // tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.