त्यद् इत्य् एवम् आदीनाम् अकारादेशो भवति विभक्तौ परतः । त्यद् - स्यः, त्यौ, त्ये । तद् - सः, तौ, ते । यद् - यः, यौ, ये । एतद् - एषः, एतौ, एते । इदम् - अयम्, इमौ, इमे । अदस् - असौ, अमू, अमी । द्वि - द्वौ । द्वाभ्याम् । द्विपर्यन्तानां त्यदादीनामत्वमिष्यते । इह न भवति, भवत् - भवान् । सञ्ज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः । अतित्यद्, अतित्यदौ, अतित्यदः । त्यदादिप्रधाने तु शब्दे भवत्य् एव, परमसः परमतौ, पर्मते ॥ किमः कः
tyad ity evam ādīnām akārādeśo bhavati vibhaktau parataḥ / tyad - syaḥ, tyau, tye / tad - saḥ, tau, te / yad - yaḥ, yau, ye / etad - eṣaḥ, etau, ete / idam - ayam, imau, ime / adas - asau, amū, amī / dvi - dvau / dvābhyām / dviparyantānāṃ tyadādīnāmatvamiṣyate / iha na bhavati, bhavat - bhavān / sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, tyadaḥ / atityad, atityadau, atityadaḥ / tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, parmate // kimaḥ kaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.