Library·Jayaditya & Vamana: Kasikavrtti·7·7.2

Jayaditya & Vamana: Kasikavrtti 7.2

सिचि वृद्धिः परस्मैपदेषु

sici vṛddhiḥ parasmaipadeṣu

Sanskrit only: no published translation is held for this verse.

परस्मैपदपरे सिचि परतः इगन्तस्य अङ्गस्य वृद्धिर् भवति । अचैषीत् । अनैषीत् । अलावीत् । अपावीत् । अकार्षीत् । अहार्षीत् । अन्तरङ्गम् अपि गुणम् एषां वृद्धिर्वचनाद् बाधते । न्यनुवीत्, न्यधुवीत् इत्य् अत्र कुटादित्वात् ङित्त्वे सति प्रतिषिद्धायां वृद्धौ उवङादेशः क्रियते । परस्मैपदेषु इति किम् ? अच्योष्ट । अप्लोष्ट ॥ अतो ल्रान्तस्य

parasmaipadapare sici parataḥ igantasya aṅgasya vṛddhir bhavati / acaiṣīt / anaiṣīt / alāvīt / apāvīt / akārṣīt / ahārṣīt / antaraṅgam api guṇam eṣāṃ vṛddhirvacanād bādhate / nyanuvīt, nyadhuvīt ity atra kuṭāditvāt ṅittve sati pratiṣiddhāyāṃ vṛddhau uvaṅādeśaḥ kriyate / parasmaipadeṣu iti kim ? acyoṣṭa / aploṣṭa // ato lrāntasya

Sanskrit only: no published translation is held for this verse.

रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति । क्षर - अक्षारीत् । त्सर - अत्सारीत् । ज्वल - अज्वालीत् । ह्मल - अह्मालीत् । अतो हलादेर् लघोः (*७,२।७) इति विकल्पस्य अयम् अपवादः । अतः इति किम् ? न्यखोरीत् । न्यमीलीत् । ल्रान्तस्य इति किम् ? मा भवान् अटीत् । मा भवानशीत् । अन्तग्रहणं किम् ? अवभ्रीत् । अश्वल्लीत् । अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ ॥ वद-व्रज-हलन्तस्य अचः

rephalakārau yāvataḥ antau samīpau tadantasya aṅgasya ata eva sthāne vṛddhiḥ bhavati / kṣara - akṣārīt / tsara - atsārīt / jvala - ajvālīt / hmala - ahmālīt / ato halāder laghoḥ (*7,2.7) iti vikalpasya ayam apavādaḥ / ataḥ iti kim ? nyakhorīt / nyamīlīt / lrāntasya iti kim ? mā bhavān aṭīt / mā bhavānaśīt / antagrahaṇaṃ kim ? avabhrīt / aśvallīt / atra yau rephalakārau aṅgasya antau na tāvataḥ samīpau // vada-vraja-halantasya acaḥ

Sanskrit only: no published translation is held for this verse.

वदव्रजोः हलन्तानां च अङ्गानाम् अचः स्थाने वृद्धिर् भवति सिचि परस्मैपदे परतः । अवादीत् । अव्राजीत् । विकल्पबाधनार्थं वदिव्रजिग्रहणम् । हलन्तानाम् - अपाक्षीत् । अभैत्सीत् । अच्छैत्सीत् । अरौत्सीत् । अत्र योगविभागे सति हलन्तग्रहणम् अन्तरेण अपि सिध्यति । कथम् ? वदिव्रज्योः इत्य् अत्र प्रथमयोगे अतः इति स्थानी अनुवर्तते, ततो यत् अचः इति सूत्रं तत्र अङ्गेन अज्विशेष्यते, अङ्गस्य अचः सिचि परतः वृद्धिर् भवति । तद् एतद् धल्ग्रहणम् हल्समुदायपरिग्रहार्थम् । इह अपि स्यात्, अराङ्क्षीत्, असाङ्क्षीत् । अन्यथा हि येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यात् इत्य् एकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात् । उदवोढाम्, उदवोढम् इत्य् अत्र वहेः सिचि ढत्वसलोपादीनाम् पूर्वत्र असिद्धम् (*८,२।१) इत्य् असिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम् । तत्र कृते पुनर् वृद्धिर् न भवति, कृतत्वात् । यत्र त्वकृता वृद्धिः, ओकारस्य एव तत्र भवति, सोढामित्रस्य अपत्यम् सौढामित्रिः इति ॥ नेटि

vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vṛddhir bhavati sici parasmaipade parataḥ / avādīt / avrājīt / vikalpabādhanārthaṃ vadivrajigrahaṇam / halantānām - apākṣīt / abhaitsīt / acchaitsīt / arautsīt / atra yogavibhāge sati halantagrahaṇam antareṇa api sidhyati / katham ? vadivrajyoḥ ity atra prathamayoge ataḥ iti sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, aṅgasya acaḥ sici parataḥ vṛddhir bhavati / tad etad dhalgrahaṇam halsamudāyaparigrahārtham / iha api syāt, arāṅkṣīt, asāṅkṣīt / anyathā hi yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena varṇena vyavadhāne syāt, anekena halā na syāt / udavoḍhām, udavoḍham ity atra vaheḥ sici ḍhatvasalopādīnām pūrvatra asiddham (*8,2.1) ity asiddhatvāt pūrvaṃ halantalakṣaṇā vṛddhiḥ kriyate, paścād ḍhalopanimittamotvam / tatra kṛte punar vṛddhir na bhavati, kṛtatvāt / yatra tvakṛtā vṛddhiḥ, okārasya eva tatra bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti // neṭi

Sanskrit only: no published translation is held for this verse.

ह्-म्-यन्त-क्षण-श्वस-जागृ-णि-श्व्य्-एद्-इताम्

h-m-yanta-kṣaṇa-śvasa-jāgṛ-ṇi-śvy-ed-itām

Sanskrit only: no published translation is held for this verse.

हकारान्तानां मकारान्तानां यकारान्तानाम् अङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्य् एतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर् न भवति । ग्रह - अग्रहीत् । स्यम - अस्यमीत् । व्यय - अव्ययीत् । टुवम - अवमीत् । क्षण - अक्षणीत् । श्वस - अश्वसीत् । जागृ - अजागरीत् । णि - औनयीत् । ऐलयीत् । श्वि - अश्वयीत् । एदिताम् - रगे - अरगीत् । कखे - अकखीत् । ह्म्यन्तक्षणश्वसाम् एदिताम् च अतो हलादेर् लघोः (*७,२।७) इति विकल्पे प्राप्ते प्रतिषेधः । जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि (*७,२।४) इति न प्रतिषिध्यते । न च अन्तरङ्गत्वाद् अत्र पूर्वं गुणो भवति, सिचि वृद्धेर् अनवकाशत्वात् । यदि पूर्वं गुणः स्याद् इह णिश्विग्रहणम् अनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वाद् एव प्रतिषेधस्य सिद्धत्वात् । तस्माद् इदम् एव श्विग्रहणं ज्ञापकम् न सिद्यन्तरङ्गम् अस्ति इति । अथ जागृग्रहणम् किमर्थम्, जाग्रो ऽवि-चिण्-णल्-ङित्सु (*७,३।८५) इति जागर्तेर् गुणो वृद्धेर् अपवादो विधीयते, स यथा अचो ञ्णिति (*६,२।११५) इति वृद्धिं बाधते तथा सिचि वृद्धिम् अपि बाधिष्यते ? न+एतद् अस्ति । कृते गुणे अतो ल्रान्तस्य (*७,२।२) इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते । अथ गुणविधानसमर्थ्याद् उत्तरकालभाविन्यपि वृद्धिर् बाध्यते, यथा जागरयति इत्य् अत्र अत उपधायाः (*७,१।११३) इत्य् अपि वृद्धिर् न भवति, तथा चिण्णलोः प्रतिषेधो ऽर्थवान् भवति इति शक्यम् इह जागृग्रहणम् अकर्तुम् ? तत् तु क्रियते विस्पष्टार्थम् ॥ ऊर्णोतेर् विभाषा

hakārāntānāṃ makārāntānāṃ yakārāntānām aṅgānām, kṣaṇa śvasa jāgṛ ṇi śvi ity eteṣām, editāṃ ca iḍādau sici parasmaipade parato vṛddhir na bhavati / graha - agrahīt / syama - asyamīt / vyaya - avyayīt / ṭuvama - avamīt / kṣaṇa - akṣaṇīt / śvasa - aśvasīt / jāgṛ - ajāgarīt / ṇi - aunayīt / ailayīt / śvi - aśvayīt / editām - rage - aragīt / kakhe - akakhīt / hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ / jāgṛṇiśvīnāṃ tu sici vṛddhiḥ prāptā, sā ca neṭi (*7,2.4) iti na pratiṣidhyate / na ca antaraṅgatvād atra pūrvaṃ guṇo bhavati, sici vṛddher anavakāśatvāt / yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kṛtayoḥ yakārantatvād eva pratiṣedhasya siddhatvāt / tasmād idam eva śvigrahaṇaṃ jñāpakam na sidyantaraṅgam asti iti / atha jāgṛgrahaṇam kimartham, jāgro 'vi-ciṇ-ṇal-ṅitsu (*7,3.85) iti jāgarter guṇo vṛddher apavādo vidhīyate, sa yathā aco ñṇiti (*6,2.115) iti vṛddhiṃ bādhate tathā sici vṛddhim api bādhiṣyate ? na+etad asti / kṛte guṇe ato lrāntasya (*7,2.2) iti ya vṛddhiḥ prāpnoti sā pratiṣidhyate / atha guṇavidhānasamarthyād uttarakālabhāvinyapi vṛddhir bādhyate, yathā jāgarayati ity atra ata upadhāyāḥ (*7,1.113) ity api vṛddhir na bhavati, tathā ciṇṇaloḥ pratiṣedho 'rthavān bhavati iti śakyam iha jāgṛgrahaṇam akartum ? tat tu kriyate vispaṣṭārtham // ūrṇoter vibhāṣā

Sanskrit only: no published translation is held for this verse.

ऊर्णोतेर् इडादौ सिचि परस्मैपदपरे परतो यिभाषा वृद्धिर् न भवति । प्रौर्णवीत्, प्रौर्णावीत् । विभाषोर् णोः (*१,२।३) इति अङित्त्वपक्षे वृद्धिविकल्पो ऽयम् । ङित्त्वपक्षे तु गुणवृद्ध्योर् अभावे उवङ् भवति । प्रौर्णुवीत् ॥ अतो हलादेर् लघोः

ūrṇoter iḍādau sici parasmaipadapare parato yibhāṣā vṛddhir na bhavati / praurṇavīt, praurṇāvīt / vibhāṣor ṇoḥ (*1,2.3) iti aṅittvapakṣe vṛddhivikalpo 'yam / ṅittvapakṣe tu guṇavṛddhyor abhāve uvaṅ bhavati / praurṇuvīt // ato halāder laghoḥ

Sanskrit only: no published translation is held for this verse.

न-इड् वशि कृति

na-iḍ vaśi kṛti

Sanskrit only: no published translation is held for this verse.

वशादौ कृति प्रत्यये परतः इडागमो न भवति । वरमनादौ प्रयोजनम् । ईशिता । ईशितुम् । ईश्वरः । दीपिता । दीपितुम् । दीप्रः । भसिता । भसितुम् । भस्म । याचिता । आचितुम् । याच्ञा । वरमनादौ इत्य् उदाहरणप्रदर्शनार्थम्, न परिगणनम् । तेन ञमन्ताड्डः इत्य् एवम् आदाव् अपि हि प्रतिषेधो भवति । अथ तत्र उणादयो बहुलम् (*३,३।१) इति समाधीयते ? सम्भवोदाहरनप्रदर्शनम् एतत् । कृति इति किम् ? रुदिवः । रुदिमः ॥ ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु च

vaśādau kṛti pratyaye parataḥ iḍāgamo na bhavati / varamanādau prayojanam / īśitā / īśitum / īśvaraḥ / dīpitā / dīpitum / dīpraḥ / bhasitā / bhasitum / bhasma / yācitā / ācitum / yācñā / varamanādau ity udāharaṇapradarśanārtham, na parigaṇanam / tena ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati / atha tatra uṇādayo bahulam (*3,3.1) iti samādhīyate ? sambhavodāharanapradarśanam etat / kṛti iti kim ? rudivaḥ / rudimaḥ // ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca

Sanskrit only: no published translation is held for this verse.

पोतः । धूर्विता । धूर्वितुम् । धूर्तः । औणादिकस्य+एव तशब्दस्य ग्रहणम् इष्यते, न पुनः क्तस्य, हसितम् इत्य् एव हि तत्र भवति । थ - हनिकुषिनीरमिकाशिभ्यः क्थन् । कोषिता । कोषितुम् । कुष्ठम् । काशिता । काशितुम् । काष्ठम् । सि - प्लुषिशुषिकुषिभ्यः क्षिः । कोषिता । कोषितुम् । कुक्षिः । सुक् च इषेः । एषिता । एषितुम् । इक्षुः । अशेः क्षरन् । अशिता । अशितुम् । अक्षरम् । क - इण्भीकापाशल्यतिमर्चिभ्यः कन् । शलिता । शलितुम् । शल्कः । स - वॄतॄवदिहनिकमिकषिभ्यः सः । वदिता । वदितुम् । वत्सः । तितुत्रतथेष्वग्रहादीनाम् इति वक्तव्यम् । ग्रहादयो ग्रहप्रकाराः, येषाम् इट् क्तिनि दृश्यते । निगृहीतिः । उपस्निहितिः । निकुचितिः । निपठितिः । कृति इत्य् एव, रोदिति । स्वपिति ॥ एकाच उपदेशे ऽनुदात्तात्

potaḥ / dhūrvitā / dhūrvitum / dhūrtaḥ / auṇādikasya+eva taśabdasya grahaṇam iṣyate, na punaḥ ktasya, hasitam ity eva hi tatra bhavati / tha - hanikuṣinīramikāśibhyaḥ kthan / koṣitā / koṣitum / kuṣṭham / kāśitā / kāśitum / kāṣṭham / si - pluṣiśuṣikuṣibhyaḥ kṣiḥ / koṣitā / koṣitum / kukṣiḥ / suk ca iṣeḥ / eṣitā / eṣitum / ikṣuḥ / aśeḥ kṣaran / aśitā / aśitum / akṣaram / ka - iṇbhīkāpāśalyatimarcibhyaḥ kan / śalitā / śalitum / śalkaḥ / sa - vṝtṝvadihanikamikaṣibhyaḥ saḥ / vaditā / vaditum / vatsaḥ / titutratatheṣvagrahādīnām iti vaktavyam / grahādayo grahaprakārāḥ, yeṣām iṭ ktini dṛśyate / nigṛhītiḥ / upasnihitiḥ / nikucitiḥ / nipaṭhitiḥ / kṛti ity eva, roditi / svapiti // ekāca upadeśe 'nudāttāt

Sanskrit only: no published translation is held for this verse.

पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन् । त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान् ॥ पक्ता । वक्ता । विवेक्ता । रेक्ता । रङ्क्ता । प्रष्टा । निर्णेक्ता । सेक्ता । मोक्ता । भक्ता । भङ्क्ता । भ्रष्टा, भर्ष्टा । त्यक्ता । यष्टा । योक्ता । रोक्ता । सङ्क्ता । मङ्क्ता । भोक्ता । परिष्वक्ता । स्रष्टा । मार्ष्टा । मृजिरयमूदित् पठ्यते, ततो ऽस्य विकल्पेन इटा भवितव्यम् । मार्ष्टा, मर्जिता इति, अमागमो ऽप्य् अस्य न दृश्यते ? तद् इह पाठस्य प्रयोजनं चिन्त्यम् । केचिद् अस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरान् इति । निजादिषु यो विजिरसौ अनिडिष्यते । तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जम् इत्य् उक्तम् । एकाच इति किम् ? अवधीत् । वृद्धिनिवृत्त्यर्थमदन्तो विधिर् उपदिश्यते । उपदेशग्रहणं किम् ? इह च यथा स्यात्, लविष्यति, पचिष्यति । इह च मा भूत्, कर्ता कटान्, कर्तुम् इति ॥ श्र्य्-उकः किति

paciṃ vaciṃ viciricirañjipṛcchatīn nijiṃ siciṃ mucibhajibhañjibhṛjjātīn / tyajiṃ yajiṃ yujirujisañjimajjatīn bhujiṃ svajiṃ sṛjimṛjī viddhyaniṭsvarān // paktā / vaktā / vivektā / rektā / raṅktā / praṣṭā / nirṇektā / sektā / moktā / bhaktā / bhaṅktā / bhraṣṭā, bharṣṭā / tyaktā / yaṣṭā / yoktā / roktā / saṅktā / maṅktā / bhoktā / pariṣvaktā / sraṣṭā / mārṣṭā / mṛjirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam / mārṣṭā, marjitā iti, amāgamo 'py asya na dṛśyate ? tad iha pāṭhasya prayojanaṃ cintyam / kecid asya sthāne vijiṃ paṭhanti, sṛjiṃ vijiṃ viddhyaniṭsvarān iti / nijādiṣu yo vijirasau aniḍiṣyate / tathā ca tantrāntare nijivijiṣvañjivarjam ity uktam / ekāca iti kim ? avadhīt / vṛddhinivṛttyarthamadanto vidhir upadiśyate / upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati / iha ca mā bhūt, kartā kaṭān, kartum iti // śry-ukaḥ kiti

Sanskrit only: no published translation is held for this verse.

सनि ग्रह-गुहोश् च

sani graha-guhoś ca

Sanskrit only: no published translation is held for this verse.

ग्रह गुह इत्य् एतयोः उगन्तानां च सनि प्रत्यये परतः इडागमो न भवति । जिघृक्षति । जुघुक्षति । उगन्तानां च रुरूषति । लुलूषति । सनि-इवन्त-र्ध-भ्रस्ज-दम्भु-श्रि-स्वृ-यु-ऊर्णु-भर-ज्ञपि सनाम् (*७,२।४९) इति विकल्पविधानात् श्रयतिर् अत्र न अनुकृस्यते । ग्रहेर् नित्यं प्राप्तः । गुहेः ऊदित्वाद् विकल्पः ॥ कृ-सृ-भृ-वृ-स्तु-द्रु-स्रु-श्रुवो लिटि

graha guha ity etayoḥ ugantānāṃ ca sani pratyaye parataḥ iḍāgamo na bhavati / jighṛkṣati / jughukṣati / ugantānāṃ ca rurūṣati / lulūṣati / sani-ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi sanām (*7,2.49) iti vikalpavidhānāt śrayatir atra na anukṛsyate / graher nityaṃ prāptaḥ / guheḥ ūditvād vikalpaḥ // kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruvo liṭi

Sanskrit only: no published translation is held for this verse.

कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्य् एतेषां लिटि प्रत्यये इडागमो न भवति । कृ - चकृव, चकृम । सृ - ससृव, ससृम । भृ - बभृव, बभृम । वृञ् - ववृव, ववृम । वृङ् - ववृवहे, ववृमहे । स्तु - तुष्टुव, तुष्टुम । द्रु - दुद्रुव, दुद्रुम । स्रु - सुस्रुव, सुस्रुम । श्रु - शुश्रुव, शुश्रुम । सिद्धे सत्यारम्भो नियमर्थः , क्रादय एव लिटि अनिटः, ततो ऽन्ये सेटः इति । बिभिदिव, बिभिदिम । लुलुविव, लुलुविम । अनुदात्तोपदेशानाम् अत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्र्त्ययाश्रयः, तदुभयस्य अप्य् अयं नियमः । वृञो हि थलि ववर्थ इति निपातनाद् व्यवस्था । स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य (*७,२।६३) इत्य् अस्माद् अपि नियमात् य इट् प्राप्नोति सो ऽपि नेष्यते । तुष्टोथ । दुद्रोथ सुस्रोथ । शुश्रोथ । कृञो ऽसुट्कस्य+इति वक्तव्यम् । ससुट्कस्य इडगमो यथा स्यात् । सञ्चस्करिव, सञ्चस्करिम । ऋतो भारद्वाजस्य (*७,२।६३) इत्य् एतद् अप्य् असुट्कस्य+एव+इष्यते, सञ्चस्करिथ ॥ श्वि-इदितो निष्थायाम्

kṛ sṛ bhṛ vṛ stu dru sru śru ity eteṣāṃ liṭi pratyaye iḍāgamo na bhavati / kṛ - cakṛva, cakṛma / sṛ - sasṛva, sasṛma / bhṛ - babhṛva, babhṛma / vṛñ - vavṛva, vavṛma / vṛṅ - vavṛvahe, vavṛmahe / stu - tuṣṭuva, tuṣṭuma / dru - dudruva, dudruma / sru - susruva, susruma / śru - śuśruva, śuśruma / siddhe satyārambho niyamarthaḥ , krādaya eva liṭi aniṭaḥ, tato 'nye seṭaḥ iti / bibhidiva, bibhidima / luluviva, luluvima / anudāttopadeśānām atra prakṛtyāśrayaḥ pratiṣedhaḥ, vṛñvṛṅostu prtyayāśrayaḥ, tadubhayasya apy ayaṃ niyamaḥ / vṛño hi thali vavartha iti nipātanād vyavasthā / studrusruśruvāṃ tu ṛto bhāradvājasya (*7,2.63) ity asmād api niyamāt ya iṭ prāpnoti so 'pi neṣyate / tuṣṭotha / dudrotha susrotha / śuśrotha / kṛño 'suṭkasya+iti vaktavyam / sasuṭkasya iḍagamo yathā syāt / sañcaskariva, sañcaskarima / ṛto bhāradvājasya (*7,2.63) ity etad apy asuṭkasya+eva+iṣyate, sañcaskaritha // śvi-idito niṣthāyām

Sanskrit only: no published translation is held for this verse.

यस्य विभाषा

yasya vibhāṣā

Sanskrit only: no published translation is held for this verse.

यस्य धातोः विभाषा क्वचिद् इड् उक्तः तस्य निष्ठायां परतः इडागमो न भवति । वक्ष्यति - स्वरति-सूति-सूयति-धूञ्-ऊदितो वा (*७,२।४४) । विधूतः । विधूतवान् । गुहू - गूढः । गूढवान् । उदितो वा - वृधु - वृद्धः । वृद्धवान् । तनिपतिदरिद्राणाम् उपसङ्ख्यानम् इति पतेर् विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित (*२,१।२४) ति निपातनात् इडागमः ॥ आदितश् च

yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati / vakṣyati - svarati-sūti-sūyati-dhūñ-ūdito vā (*7,2.44) / vidhūtaḥ / vidhūtavān / guhū - gūḍhaḥ / gūḍhavān / udito vā - vṛdhu - vṛddhaḥ / vṛddhavān / tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita (*2,1.24) ti nipātanāt iḍāgamaḥ // āditaś ca

Sanskrit only: no published translation is held for this verse.

आदितश् च धतोर् निष्थायम् इडागमो न भवति । ञिमिदा - मिन्नः । मिन्नवान् । ञिक्ष्विदा - क्ष्विण्णः । क्ष्विण्णवान् । ञिष्विदा - स्विन्नः । स्वन्नवान् । कारो ऽनुक्तसमुच्चयार्थः । आश्वस्तः । वान्तः । योगविभागकरणं किमर्थम्, आदितश् च विभाषा भावादिकर्मणोः इत्य् एवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्याम् यस्य विभाषा (*७,२।१५) इति प्रतिषेधो भविष्यति ? ज्ञापनार्थम् एतत् । ज्ञापयति - यद् उपाधेर् विभाषा तद् उपाधेः प्रतिषेधः इति । तेन विभाषा गमहनविदविशाम् (*७,२।६८) इत्य् अत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति । विदितः । विदितवान् ॥ विभाषा भाव-आदिकर्मणोः

āditaś ca dhator niṣthāyam iḍāgamo na bhavati / ñimidā - minnaḥ / minnavān / ñikṣvidā - kṣviṇṇaḥ / kṣviṇṇavān / ñiṣvidā - svinnaḥ / svannavān / kāro 'nuktasamuccayārthaḥ / āśvastaḥ / vāntaḥ / yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ ity evaṃ paṭhitavyam, anyatra hi bhāvādikarmabhyām yasya vibhāṣā (*7,2.15) iti pratiṣedho bhaviṣyati ? jñāpanārtham etat / jñāpayati - yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ iti / tena vibhāṣā gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya vibhāṣā iti jñānārthasya pratiṣedho na bhavati / viditaḥ / viditavān // vibhāṣā bhāva-ādikarmaṇoḥ

Sanskrit only: no published translation is held for this verse.

भवे आदिकर्मणि च आदितो धातोः विभाषा निष्ठायाम् इडागमो न भवति । मिन्नमनेन, मेदितमनेन प्रमिन्नः, प्रमेदितः । सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन । शकितो घटः कर्तुम्, शक्तो घटः कर्तुम् । भावे न भवत्य् एव, शक्तमनेन । अस्यतेर्भावे, असितमनेन । आदिकर्मणि च न भवत्य् एव, अस्तः काण्डः ॥ क्षुब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-विरिब्ध-फाण्ट-बाढानि मन्थ-मनस्-तमः-सक्त-अविस्पष्ट-स्वर-अनायास-भृशेषु

bhave ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati / minnamanena, meditamanena praminnaḥ, prameditaḥ / saunāgāḥ karmaṇi niṣṭhāyāṃ śakeriṭamicchanti vikalpena / śakito ghaṭaḥ kartum, śakto ghaṭaḥ kartum / bhāve na bhavaty eva, śaktamanena / asyaterbhāve, asitamanena / ādikarmaṇi ca na bhavaty eva, astaḥ kāṇḍaḥ // kṣubdha-svānta-dhvānta-lagna-mliṣṭa-viribdha-phāṇṭa-bāḍhāni mantha-manas-tamaḥ-sakta-avispaṣṭa-svara-anāyāsa-bhṛśeṣu

Sanskrit only: no published translation is held for this verse.

क्षुभितं मन्थेन । क्षुब्धा गिरिनदी इत्य् एवम् आद्युपमानात् भविष्यति । स्वान्तम् इति मनो ऽभिधानं चेत् । स्वनितम् अन्यत । स्वनितो मृदङ्गः । स्वनितं मनसा । ध्वान्तम् इति भवति तमो ऽभिधानं चेत् । ध्वनितम् अन्यत् । ध्वनितो मृदङ्गः । ध्वनितं तमसा । लग्नम् इति भवति सक्तं चेत् । लगितमन्यत् । म्लिष्टम् इति भवति अविस्पष्टं चेत् । म्लेच्छितम् अन्यत् । इत्वम् अप्य् एकारस्य निपातनाद् एव विरिब्धम् इति स्वरश् चेत् । विरेभितम् अन्यत् । रेभृ शब्दे इत्य् अस्य+एतन् निपातनम् । अन्ये तु विरिभितम् अन्यत् इति पठन्ति । रभिं सौत्रं धातुं पठन्ति, ते विरिभितम् इति प्रत्युदाहरन्ति । फाण्टम् इति भवति अनायासश् चेत् । फाणितम् अन्यत् । यदशृतमपिष्टं च कषायमुदकसम्पर्कमात्रात् विभक्तरसमीषदुष्णं तत् फाण्टम् । तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते । बाढम् इति भवति भृशं चेत् । बाहितम् अन्यत् । बाहृ प्रयत्ने इत्य् अस्य धातोर् एतन् निपातनम् । अतिशयश् च भृशम् इह+उच्यते ॥ धृषी शसी वैयात्ये

kṣubhitaṃ manthena / kṣubdhā girinadī ity evam ādyupamānāt bhaviṣyati / svāntam iti mano 'bhidhānaṃ cet / svanitam anyata / svanito mṛdaṅgaḥ / svanitaṃ manasā / dhvāntam iti bhavati tamo 'bhidhānaṃ cet / dhvanitam anyat / dhvanito mṛdaṅgaḥ / dhvanitaṃ tamasā / lagnam iti bhavati saktaṃ cet / lagitamanyat / mliṣṭam iti bhavati avispaṣṭaṃ cet / mlecchitam anyat / itvam apy ekārasya nipātanād eva viribdham iti svaraś cet / virebhitam anyat / rebhṛ śabde ity asya+etan nipātanam / anye tu viribhitam anyat iti paṭhanti / rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti / phāṇṭam iti bhavati anāyāsaś cet / phāṇitam anyat / yadaśṛtamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam / tadalpaprayatnasādhyatvādanāyāsena lakṣyate / bāḍham iti bhavati bhṛśaṃ cet / bāhitam anyat / bāhṛ prayatne ity asya dhātor etan nipātanam / atiśayaś ca bhṛśam iha+ucyate // dhṛṣī śasī vaiyātye

Sanskrit only: no published translation is held for this verse.

वियातस्य भावो वैयात्यम् प्रागल्भ्यम्, अविनीतता । तत्र धृष शस इत्य् एतयोः निष्ठायाम् इडागमो न भवति । धृष्टो ऽयम् । विशस्तो ऽयम् । धृषेः आदितश् च (*७,२।१६) इति प्रतिषेधः सिद्ध एव, शसेर् अपि उदितो वा (*७,२।५६), यस्य विभाषा (*७,२।१५) इति ? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड् न भवति । भावादिकर्मणोर् अपि वैयात्ये धृषिर्नास्ति । धृष्टः । विशस्तः । वैयात्ये इति किम् ? धर्षितः । विशसितः ॥ दृढः स्थूलबलयोः

viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā / tatra dhṛṣa śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati / dhṛṣṭo 'yam / viśasto 'yam / dhṛṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ siddha eva, śaser api udito vā (*7,2.56), yasya vibhāṣā (*7,2.15) iti ? niyamārthaṃ vacanam, dhṛṣiśasyoḥ vaiyātye eva iḍ na bhavati / bhāvādikarmaṇor api vaiyātye dhṛṣirnāsti / dhṛṣṭaḥ / viśastaḥ / vaiyātye iti kim ? dharṣitaḥ / viśasitaḥ // dṛḍhaḥ sthūlabalayoḥ

Sanskrit only: no published translation is held for this verse.

दृढ इति निपात्यते स्थूले बलवति चार्थे । दृढः स्थूलः । दृढो बलवान् । किम् अत्र निपात्यते ? दृंहेः क्तप्रत्यये इडभावः, हकारनकारयोः लोपः, परस्य ढत्वम् । अथ दृहिः प्रकृत्यनतरम् अस्ति ? तत्र अप्य् एतद् एव सर्वं नलोपवर्जम्, नकारस्य अभावात् । हलोपनिपातनं पूर्वत्र असिद्धत्वनिवृत्त्यर्थम् । ढलोपे हि सति तस्य पूर्वत्र असिद्धत्वात् द्रढिमा, द्रढीयान्, द्रढयति इत्य् अत्र र ऋतो हलादेर्लघोः (*६,२।१६१) इति रेफो न स्यात्, इह च परिद्रढ्य्य गत इति ल्यपि लघुपूर्वात् (*६,४।५६) इति णेरयादेशो न स्यात्, इह च परिदृढस्यापत्यं पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् च प्रसज्येत । स्थूलबलयोः इति किम् ? दृंहितम् । दृहितम् ॥ प्रभौ परिवृढः

dṛḍha iti nipātyate sthūle balavati cārthe / dṛḍhaḥ sthūlaḥ / dṛḍho balavān / kim atra nipātyate ? dṛṃheḥ ktapratyaye iḍabhāvaḥ, hakāranakārayoḥ lopaḥ, parasya ḍhatvam / atha dṛhiḥ prakṛtyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, nakārasya abhāvāt / halopanipātanaṃ pūrvatra asiddhatvanivṛttyartham / ḍhalope hi sati tasya pūrvatra asiddhatvāt draḍhimā, draḍhīyān, draḍhayati ity atra ra ṛto halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya gata iti lyapi laghupūrvāt (*6,4.56) iti ṇerayādeśo na syāt, iha ca paridṛḍhasyāpatyaṃ pāridṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta / sthūlabalayoḥ iti kim ? dṛṃhitam / dṛhitam // prabhau parivṛḍhaḥ

Sanskrit only: no published translation is held for this verse.

कृच्छ्र-गहनयोः कषः

kṛcchra-gahanayoḥ kaṣaḥ

Sanskrit only: no published translation is held for this verse.

कृच्छ्र गहन इत्य् एतयोर् अर्थयोः कषेर् धातोः निष्ठायाम् इडागमो न भवति । कष्टो ऽग्निः । कष्टं व्याकरणम् । ततो ऽपि कष्टतराणि सामानि । कृच्छ्रं दुःखम्, तत्कारणम् अप्य् अग्न्यादिकं कृच्छ्रम् इत्य् उच्यते । गहने - कष्टानि वनानि । कष्टाः पर्वताः । कृच्छ्रगहनयोः इति किम् ? कषितं सुवर्णम् ॥ घुषिर् अविशब्दने

kṛcchra gahana ity etayor arthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati / kaṣṭo 'gniḥ / kaṣṭaṃ vyākaraṇam / tato 'pi kaṣṭatarāṇi sāmāni / kṛcchraṃ duḥkham, tatkāraṇam apy agnyādikaṃ kṛcchram ity ucyate / gahane - kaṣṭāni vanāni / kaṣṭāḥ parvatāḥ / kṛcchragahanayoḥ iti kim ? kaṣitaṃ suvarṇam // ghuṣir aviśabdane

Sanskrit only: no published translation is held for this verse.

घुषेर् धातोर् अविशब्दने ऽर्थे निष्ठायाम् इडागमो न भवति । घुष्टा रज्जुः । घुष्टौ पादौ । अविशब्दने इति किम् ? अवघुषितं वाक्यमाह । विशब्दनं प्रतिज्ञानम् । घुषिरशब्दार्थे इति भूवादिषु पठ्यते । घुषिर् विशब्दने इति चुरादिषु । तयोर् इह सामान्येन ग्रहणम् । विशब्दनप्रतिषेधश् च ज्ञापकश्चुरादिणिज् विशब्दनार्थस्य अनित्यः इति । तेन अयम् अपि प्रयोगः उपपन्नो भवति, महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः । स्वाभिप्रायं शब्देन अविष्कृतवन्तः इत्य् अर्थः ॥ अर्देः सं-नि-विभ्यः

ghuṣer dhātor aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati / ghuṣṭā rajjuḥ / ghuṣṭau pādau / aviśabdane iti kim ? avaghuṣitaṃ vākyamāha / viśabdanaṃ pratijñānam / ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate / ghuṣir viśabdane iti curādiṣu / tayor iha sāmānyena grahaṇam / viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya anityaḥ iti / tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ / svābhiprāyaṃ śabdena aviṣkṛtavantaḥ ity arthaḥ // ardeḥ saṃ-ni-vibhyaḥ

Sanskrit only: no published translation is held for this verse.

सम् नि वि इत्य् एतेभ्य उत्तरस्य अर्देः निष्ठायाम् इडागमो न भवति । समर्णः । न्यर्णः । व्यर्णः । अर्देः इति किम् ? समेधितः । संनिविभ्यः इति किम् ? अर्दितः ॥ अभेश् च आविदूर्ये

sam ni vi ity etebhya uttarasya ardeḥ niṣṭhāyām iḍāgamo na bhavati / samarṇaḥ / nyarṇaḥ / vyarṇaḥ / ardeḥ iti kim ? samedhitaḥ / saṃnivibhyaḥ iti kim ? arditaḥ // abheś ca āvidūrye

Sanskrit only: no published translation is held for this verse.

अभिशबाद् उत्तरस्य अर्देः आविदूर्ये ऽर्थे निष्ठायाम् इडागमो न भवति । अभ्यर्णा सेना । अभ्यार्णा शरत् । आविदूर्ये इति किम् ? अभ्यर्दितो वृषलः । शीतेन पीडितः इत्य् अर्थः । विदूरम् विप्रकृष्टम्, ततो ऽन्यदविदूरम्, तस्य भावः आविदूर्यम् । एतस्माद् एव निपातनात् न नञ्पूर्वात् तत्पुरुषात् (*५,१।१२१) इत्य् उत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति ॥ णेर् अध्ययने वृत्तम्

abhiśabād uttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati / abhyarṇā senā / abhyārṇā śarat / āvidūrye iti kim ? abhyardito vṛṣalaḥ / śītena pīḍitaḥ ity arthaḥ / vidūram viprakṛṣṭam, tato 'nyadavidūram, tasya bhāvaḥ āvidūryam / etasmād eva nipātanāt na nañpūrvāt tatpuruṣāt (*5,1.121) ity uttarasya bhāvapratyayasya pratiṣedho na bhavati // ṇer adhyayane vṛttam

Sanskrit only: no published translation is held for this verse.

वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्ताः

vā dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ

Sanskrit only: no published translation is held for this verse.

णेः इत्य् अनुवर्तते । दम् शम् पूरी दस् स्पश् छद् ज्ञप् इत्य् एतेषां ण्यन्तानां धातूनां वा अनिट्त्वं निपात्यते । दान्तः, दमितः । शान्तः, शमितः । पूर्णः, पूरितः । दस्तः, दासितः । स्पष्टः, स्पाशितः । छन्नः, छादितः । ज्ञप्तः, ज्ञपितः । इट्प्रतिषेधो णिलुक् च निपात्यते । ज्ञप्तेस् तु भरज्ञपिसनाम् इति विकल्पविधानात् यस्य विभाषा (*७,२।१५) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम् ॥ रुष्य्-अम-त्वर-सङ्घुष-आस्वनाम्

ṇeḥ ity anuvartate / dam śam pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ vā aniṭtvaṃ nipātyate / dāntaḥ, damitaḥ / śāntaḥ, śamitaḥ / pūrṇaḥ, pūritaḥ / dastaḥ, dāsitaḥ / spaṣṭaḥ, spāśitaḥ / channaḥ, chāditaḥ / jñaptaḥ, jñapitaḥ / iṭpratiṣedho ṇiluk ca nipātyate / jñaptes tu bharajñapisanām iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte vikalpārthaṃ nipātanam // ruṣy-ama-tvara-saṅghuṣa-āsvanām

Sanskrit only: no published translation is held for this verse.

वा इति वर्तते । रुषि अम त्वर सङ्घुष आस्वन इत्य् एतेषां निष्ठायां वा इडागमो न भवति । रुष्टः रुषितः । ति-इष-सह-लुभ-रुष। रिषः (*४,२।४८) इति विकल्पविधानात् यस्य विभाषा (*७,२।१५) इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् । अम - अभ्यान्तः, अभ्यमितः । त्वर - तूर्णः, त्वरितः । आदितश् च (*७,२।१६) इति प्रतिषेधे प्राप्ते वचनम् । सङ्घुष - सङ्घुष्टौ पादौ, सङ्घुषितौ पादौ । सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाह । सङ्घुष्टौ दम्यौ, सङ्घुषितौ दम्यौ । सम्पूर्वस्य घुषेर् अविशद्दने ऽपि परत्वाद् अयम् एव विकल्पो भवति । आस्वन - आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः । आस्वान्तं मनः, आस्वनितं मनः । आङ्पूर्वस्य स्वनेर् मनो ऽभिधाने ऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त इति निपातनं बाधते ॥ हृषेर् लोमसु

vā iti vartate / ruṣi ama tvara saṅghuṣa āsvana ity eteṣāṃ niṣṭhāyāṃ vā iḍāgamo na bhavati / ruṣṭaḥ ruṣitaḥ / ti-iṣa-saha-lubha-ruṣa. riṣaḥ (*4,2.48) iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ vacanam / ama - abhyāntaḥ, abhyamitaḥ / tvara - tūrṇaḥ, tvaritaḥ / āditaś ca (*7,2.16) iti pratiṣedhe prāpte vacanam / saṅghuṣa - saṅghuṣṭau pādau, saṅghuṣitau pādau / saṅghuṣṭaṃ vākyamāha, saṅghuṣitaṃ vākyamāha / saṅghuṣṭau damyau, saṅghuṣitau damyau / sampūrvasya ghuṣer aviśaddane 'pi paratvād ayam eva vikalpo bhavati / āsvana - āsvānto devadattaḥ, āsvanito devadattaḥ / āsvāntaṃ manaḥ, āsvanitaṃ manaḥ / āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ vikalpaḥ kṣubdhasvānta iti nipātanaṃ bādhate // hṛṣer lomasu

Sanskrit only: no published translation is held for this verse.

अपचितश् च

apacitaś ca

Sanskrit only: no published translation is held for this verse.

अपचितः इति वा निपात्यते । अपपूर्वस्य चाय्तेः निष्ठायाम् अनिट्त्वं चिभावश् च निपात्यते । अपचितो ऽनेन गुरुः, अपचायितो ऽनेन गुरुः । क्तिनि नित्यम् इति वक्तव्यम् । क्तिनि नित्यं चिभावो निपात्यते । अपचितिः ॥ ह्रु ह्वरेश् छन्दसि

apacitaḥ iti vā nipātyate / apapūrvasya cāyteḥ niṣṭhāyām aniṭtvaṃ cibhāvaś ca nipātyate / apacito 'nena guruḥ, apacāyito 'nena guruḥ / ktini nityam iti vaktavyam / ktini nityaṃ cibhāvo nipātyate / apacitiḥ // hru hvareś chandasi

Sanskrit only: no published translation is held for this verse.

ह्वरतेः धातोर् निष्ठायं छन्दसि ह्रु इत्य् अयम् आदेशो भवति । ह्रु तस्य चाह्रु तस्य च । अह्रु तमसि हविर्धानम् । छन्दसि इति किम् ? ह्वृतम् ॥ अपरिह्वृताश् च

hvarateḥ dhātor niṣṭhāyaṃ chandasi hru ity ayam ādeśo bhavati / hru tasya cāhru tasya ca / ahru tamasi havirdhānam / chandasi iti kim ? hvṛtam // aparihvṛtāś ca

Sanskrit only: no published translation is held for this verse.

अपरिह्वृताः इति निपात्यते छन्दसि विषये । ह्रु इत्य् एतस्य आदेशस्य अभावो निपात्यते । अपरिह्वृताः सनुयाम वाजम् ॥ सोमे ह्वरितः

aparihvṛtāḥ iti nipātyate chandasi viṣaye / hru ity etasya ādeśasya abhāvo nipātyate / aparihvṛtāḥ sanuyāma vājam // some hvaritaḥ

Sanskrit only: no published translation is held for this verse.

ह्वरितः इति ह्वरतेर् निष्ठायाम् इडागमो गुणश् च निपात्यते छन्दसि विषये, सोमश् चेद् भवति । मा नः सोमो ह्वरितः । विह्वरितस्त्वम् ॥ ग्रसित-स्कभित-स्तभित-उत्तभित-चत्त-विकस्ता विशस्तृ-शंस्तृ-शास्तृ-तरुतृ-तरूतृ-वरुतृ-वरूतृ-वरूत्रीर्-उज्ज्वलिति-क्षरिति-क्षमिति-वमित्य्-अमिति इति च

hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaś ca nipātyate chandasi viṣaye, somaś ced bhavati / mā naḥ somo hvaritaḥ / vihvaritastvam // grasita-skabhita-stabhita-uttabhita-catta-vikastā viśastṛ-śaṃstṛ-śāstṛ-tarutṛ-tarūtṛ-varutṛ-varūtṛ-varūtrīr-ujjvaliti-kṣariti-kṣamiti-vamity-amiti iti ca

Sanskrit only: no published translation is held for this verse.

चत्त, विकस्त इति चतेः कसेश् च विपूर्वस्य निष्ठायाम् इडभावो निपात्यते । चत्ता वर्षेण विद्युत् चतिता इति भाषायाम् । विकस्त - उत्तानाया हृदयं यद् विकस्तम् । विकसितम् इति भाषायाम् । निपातनं बहुत्वापेक्षम्, विकस्ताः इति बहुवचनं कृतम् । अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः । विशस्तृ शंस्तृ शास्तृ इति शसेर् विपूर्वस्य शंसेः शासेश् च तृचि इडभावो निपात्यते । विशस्तृ - एकस्त्वष्टुरश्वस्याविशस्ता । विशसिता इति भाषायाम् । शंस्तृ - उत शंस्ता सुविप्रः । शंसिता इति भाषायाम् । शास्तृ - प्रशास्ता । प्रशासितम् इति भाषायाम् । तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः इति तरतेः वृङ्वृञोश् च तृचि उट् ऊट् इत्य् एताव् आगमौ निपात्येते । तरुतारं रथानाम्, तरूतारम् । तरितारम्, तरीतारम् इति भाषायाम् । वरुतारं रथानाम्, वरूतारं रथानाम् । वरितारम्, वरीतारम् इति भाषायाम् । वरुत्री त्वा देवी विश्वदेव्यवती । जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम् । अतन्त्रं चैतत् । इदम् अपि हि भवति - अहोरात्राणि वै वरूत्रयः इति । छान्दसिकमत्र ह्रस्वत्वम् । प्रपञ्चार्थम् एव च ङीबन्तस्य निपातनम् । वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः । उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इति च ज्वलतेर् उत्पूर्वस्य क्षर क्षम वम इत्य् एतेषां च तिपि शपः इकारादेशो निपात्यते, शपो लुग्वा, इडागमः । अग्निरुज्ज्वलिति । उज्ज्वलति इति भाषायाम् । क्षरिति - स्तोकं क्षरिति । क्षरति इति भाषायाम् । क्षमिति - स्तोमं क्षमिति । क्षमति इति भाषायाम् । वमिति - यः सोमं वमिति । वमति इति भाषायाम् । अमिति - अभ्यमिति वरुणः । अभ्यमति इति भाषायाम् । इतिकरणं प्रदर्शनार्थम् तेन क्वचित् ईकारो भावति, रविमभ्यमीति वरुणः इत्य् अपि हि वेदे पठ्यते ॥ आर्धधातुकस्य+इड् वलादेः

catta, vikasta iti cateḥ kaseś ca vipūrvasya niṣṭhāyām iḍabhāvo nipātyate / cattā varṣeṇa vidyut catitā iti bhāṣāyām / vikasta - uttānāyā hṛdayaṃ yad vikastam / vikasitam iti bhāṣāyām / nipātanaṃ bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kṛtam / apareṣu tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ / viśastṛ śaṃstṛ śāstṛ iti śaser vipūrvasya śaṃseḥ śāseś ca tṛci iḍabhāvo nipātyate / viśastṛ - ekastvaṣṭuraśvasyāviśastā / viśasitā iti bhāṣāyām / śaṃstṛ - uta śaṃstā suvipraḥ / śaṃsitā iti bhāṣāyām / śāstṛ - praśāstā / praśāsitam iti bhāṣāyām / tarutṛ tarūtṛ varutṛ varūtṛ varūtrīḥ iti tarateḥ vṛṅvṛñoś ca tṛci uṭ ūṭ ity etāv āgamau nipātyete / tarutāraṃ rathānām, tarūtāram / taritāram, tarītāram iti bhāṣāyām / varutāraṃ rathānām, varūtāraṃ rathānām / varitāram, varītāram iti bhāṣāyām / varutrī tvā devī viśvadevyavatī / jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham / atantraṃ caitat / idam api hi bhavati - ahorātrāṇi vai varūtrayaḥ iti / chāndasikamatra hrasvatvam / prapañcārtham eva ca ṅībantasya nipātanam / varūtṛśabdo hi nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ / ujjvaliti kṣariti kṣamiti vamiti amiti iti ca jvalater utpūrvasya kṣara kṣama vama ity eteṣāṃ ca tipi śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ / agnirujjvaliti / ujjvalati iti bhāṣāyām / kṣariti - stokaṃ kṣariti / kṣarati iti bhāṣāyām / kṣamiti - stomaṃ kṣamiti / kṣamati iti bhāṣāyām / vamiti - yaḥ somaṃ vamiti / vamati iti bhāṣāyām / amiti - abhyamiti varuṇaḥ / abhyamati iti bhāṣāyām / itikaraṇaṃ pradarśanārtham tena kvacit īkāro bhāvati, ravimabhyamīti varuṇaḥ ity api hi vede paṭhyate // ārdhadhātukasya+iḍ valādeḥ

Sanskrit only: no published translation is held for this verse.

स्नु-क्रमोर् अनात्मनेपदनिमित्ते

snu-kramor anātmanepadanimitte

Sanskrit only: no published translation is held for this verse.

नियमार्थम् इदम् । स्नुक्रमोः आर्धधातुकस्य वलादेः इडागमो भवति, न चेत् स्नुक्रमी आत्मनेपदस्य निमित्तं भवतः । क्व च तावात्मनेपदस्य निमित्तम् ? यत्र आत्मनेपदं तद् आश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर् वृत्त्यादयश् च । तेन अयम् सत्य् आत्मनेपदे प्रतिषेधो भवति न असति इति । प्रतिषेधफलं च+इदं सूत्रम् । स्नुक्रमोरुदित्वात् इट् सिद्ध एव । प्रस्नविता । प्रस्नवितुम् । प्रस्नवितव्यम् । प्रक्रमिता । प्रक्रमितुम् । प्रक्रमितव्यम् । अनात्मनेपदनिमित्ते इति किम् ? प्रस्नोषीष्ट । प्रक्रंसीष्ट । प्रस्नोष्यते । प्रक्रंस्यते । प्रसुस्नूषिष्यते । प्रचिक्रंसिष्यते । सर्वत्र+एव अत्र स्नैतिः क्रमिश् च आत्मनेपदस्य निमित्तम् । सनन्ताद् अपि पूर्ववत्सनः (*१,३।६२) इति आत्मनेपदं विधीयते । निमित्तग्रहणं किम् ? सीयुडादेस् तत्परपरस्य च प्रतिषेधार्थम् । इह तु प्रस्नवितेवाचरति इति प्रस्नवित्रीयते इति क्यङतम् आत्मनेपदस्य निमित्तम्, न स्नौतिः । क्रमेस् तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः । प्रक्रन्ता । उपक्रन्ता । कर्तरि इति किम् ? प्रक्रमितव्यम् । उपक्रमितव्यम् । आत्मनेपदविषयात् इति किम् ? निष्ट्रमितिआ । स्नौतेः सनि किति च प्रत्यये श्र्युकः किति (*७,२।११), सनि ग्रहगुहोश्च (*७,२।१२) इत्य् एव प्रतिषेधो भवति । प्रसुस्नूषति । प्रस्नुतः । प्रस्नुतवान् ॥ ग्रहो ऽलिटि दीर्घः

niyamārtham idam / snukramoḥ ārdhadhātukasya valādeḥ iḍāgamo bhavati, na cet snukramī ātmanepadasya nimittaṃ bhavataḥ / kva ca tāvātmanepadasya nimittam ? yatra ātmanepadaṃ tad āśrayaṃ bhavati, bhāvakarmakarmakartṛkarmavyatihārāḥ kramer vṛttyādayaś ca / tena ayam saty ātmanepade pratiṣedho bhavati na asati iti / pratiṣedhaphalaṃ ca+idaṃ sūtram / snukramoruditvāt iṭ siddha eva / prasnavitā / prasnavitum / prasnavitavyam / prakramitā / prakramitum / prakramitavyam / anātmanepadanimitte iti kim ? prasnoṣīṣṭa / prakraṃsīṣṭa / prasnoṣyate / prakraṃsyate / prasusnūṣiṣyate / pracikraṃsiṣyate / sarvatra+eva atra snaitiḥ kramiś ca ātmanepadasya nimittam / sanantād api pūrvavatsanaḥ (*1,3.62) iti ātmanepadaṃ vidhīyate / nimittagrahaṇaṃ kim ? sīyuḍādes tatparaparasya ca pratiṣedhārtham / iha tu prasnavitevācarati iti prasnavitrīyate iti kyaṅatam ātmanepadasya nimittam, na snautiḥ / krames tu kartaryātmanepadaviṣayādasatyātmanepade kṛti pratiṣedho vaktavyaḥ / prakrantā / upakrantā / kartari iti kim ? prakramitavyam / upakramitavyam / ātmanepadaviṣayāt iti kim ? niṣṭramitiā / snauteḥ sani kiti ca pratyaye śryukaḥ kiti (*7,2.11), sani grahaguhośca (*7,2.12) ity eva pratiṣedho bhavati / prasusnūṣati / prasnutaḥ / prasnutavān // graho 'liṭi dīrghaḥ

Sanskrit only: no published translation is held for this verse.

ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति । ग्रहीता । ग्रहीतुम् । ग्रहीतव्यम् । अलिटि इति किम् ? जगृहिव । जगृहिम् । प्रकृतस्येटो दीर्घत्वमिदम्, चिण्वदिटो न भवति । ग्राहिता । ह्राहिष्यते ॥ वॄतो वा

grahaḥ uttarasya iṭaḥ aliṭi dīrgho bhavati / grahītā / grahītum / grahītavyam / aliṭi iti kim ? jagṛhiva / jagṛhim / prakṛtasyeṭo dīrghatvamidam, ciṇvadiṭo na bhavati / grāhitā / hrāhiṣyate // vṝto vā

Sanskrit only: no published translation is held for this verse.

न लिङि

na liṅi

Sanskrit only: no published translation is held for this verse.

वृतः उत्तरस्य इटो लिङि दीर्घो न भवति । विवरिषीष्ट । प्रावरिषीष्ट । आस्तरिषीष्ट । विस्तरिषीष्ट ॥ सिचि च परस्मैपदेषु

vṛtaḥ uttarasya iṭo liṅi dīrgho na bhavati / vivariṣīṣṭa / prāvariṣīṣṭa / āstariṣīṣṭa / vistariṣīṣṭa // sici ca parasmaipadeṣu

Sanskrit only: no published translation is held for this verse.

परस्मैपदपरे सिचि वॄत उत्तरस्य इटो दीर्घः न भवति । प्रावारिष्टाम् । प्रावारिषुः । अतारिष्टाम् । अतारिषुः । आस्तारिष्टाम् । आस्तारिषुः । परस्मैपदेषु इति किम् ? प्रावरिष्ट, प्रावरीष्ट ॥ इट् सनि वा

parasmaipadapare sici vṝta uttarasya iṭo dīrghaḥ na bhavati / prāvāriṣṭām / prāvāriṣuḥ / atāriṣṭām / atāriṣuḥ / āstāriṣṭām / āstāriṣuḥ / parasmaipadeṣu iti kim ? prāvariṣṭa, prāvarīṣṭa // iṭ sani vā

Sanskrit only: no published translation is held for this verse.

वॄतः सनि वा इडागमो भवति । वुवूर्षते, विवरिषते, विवरीषते । प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति । ॠकारान्तेभ्यः - तितीर्षति, तितरिषति, तितरीषति । आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते । सनि ग्रहगुहोश् च (*७,२।१२) इति इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते । इटश् च वॄतो वा (*७,२।३८) इति पक्षे दीर्घः । चिकीर्षति, जिहीर्षति इत्य् अत्र+उपदेशाधिकारात् लाक्षणिकत्वाच् च इडागमो न भवति ॥ लिङ्सिचोर् आत्मनेपदेषु

vṝtaḥ sani vā iḍāgamo bhavati / vuvūrṣate, vivariṣate, vivarīṣate / prāvuvūrṣati, prāvivariṣati, prāvivarīṣati / ṝkārāntebhyaḥ - titīrṣati, titariṣati, titarīṣati / ātistīrṣate, ātistariṣate, ātistarīṣate / sani grahaguhoś ca (*7,2.12) iti iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate / iṭaś ca vṝto vā (*7,2.38) iti pakṣe dīrghaḥ / cikīrṣati, jihīrṣati ity atra+upadeśādhikārāt lākṣaṇikatvāc ca iḍāgamo na bhavati // liṅsicor ātmanepadeṣu

Sanskrit only: no published translation is held for this verse.

वॄतो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति । वृषीष्ट, वरिषीष्ट । प्रवृषीष्ट, प्रावरिषीष्ट । आस्तरिषीष्ट, आस्तीर्षीष्ट । सिचि खल्व् अपि - अवृत, अवरिष्ट, अवरीष्ट । प्रावृत, प्रावरिष्ट, प्रावरीष्ट । आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट । आत्मनेपदेषु इति किम् ? प्रावारिष्टाम् । प्रावारिषुः । लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात् यासुटो ऽवलादित्वात् इति ॥ ऋतश् च संयोगादेः

vṝto liṅi sici ca ātmanepadapare vā iḍāgamo bhavati / vṛṣīṣṭa, variṣīṣṭa / pravṛṣīṣṭa, prāvariṣīṣṭa / āstariṣīṣṭa, āstīrṣīṣṭa / sici khalv api - avṛta, avariṣṭa, avarīṣṭa / prāvṛta, prāvariṣṭa, prāvarīṣṭa / āstīrṣṭa, āstariṣṭa, āstarīṣṭa / ātmanepadeṣu iti kim ? prāvāriṣṭām / prāvāriṣuḥ / liṅaḥ pratyudāharaṇaṃ na darśitam, asambhavāt yāsuṭo 'valāditvāt iti // ṛtaś ca saṃyogādeḥ

Sanskrit only: no published translation is held for this verse.

स्वरति-सूति-सूयति-धूञ्-ऊदितो वा

svarati-sūti-sūyati-dhūñ-ūdito vā

Sanskrit only: no published translation is held for this verse.

स्वरति सूति सूयति धूञ् इत्य् एतेभ्यः, ऊदिद्भ्यश्च+उत्तरस्य वलादेर् आर्धधातुकस्य वा इडागमो भवति । स्वर्ता, स्वरिता । सूति - प्रसोता, प्रसविता । सूयति - सोता, सविता । धूञ् - धोता, धविता । ऊधिद्भ्यः खल्व् अपि - गाहू - विगाढा, विगाहिता । गुपू - गोप्ता, गोपिता । वा इति वर्तमने पुनर् वाग्रहणं लिङ्सिचोर् निवृत्त्यर्थम् । सूतिसूयत्योर् विकरणनिर्देशः षू प्रेरणे इत्य् अस्य निवृत्त्यर्थः । धूञ् इति सानुबन्धकस्य निर्देसो धू विधूनने इत्य् असय् निवृत्त्यर्थः । सविता, धुविता इत्य् एव नित्यम् एतयोर् भवति । स्वरतेर् एतस्माद् विकल्पात् ऋद्धनोः स्ये (*७,२।७०) इत्य् एतद् भवति विप्रतिषेधेन । स्वरिष्यति । किति तु प्रत्यये श्र्युकः किति (*७,२।११) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥ रधादिभ्यश् च

svarati sūti sūyati dhūñ ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati / svartā, svaritā / sūti - prasotā, prasavitā / sūyati - sotā, savitā / dhūñ - dhotā, dhavitā / ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā / gupū - goptā, gopitā / vā iti vartamane punar vāgrahaṇaṃ liṅsicor nivṛttyartham / sūtisūyatyor vikaraṇanirdeśaḥ ṣū preraṇe ity asya nivṛttyarthaḥ / dhūñ iti sānubandhakasya nirdeso dhū vidhūnane ity asay nivṛttyarthaḥ / savitā, dhuvitā ity eva nityam etayor bhavati / svarater etasmād vikalpāt ṛddhanoḥ sye (*7,2.70) ity etad bhavati vipratiṣedhena / svariṣyati / kiti tu pratyaye śryukaḥ kiti (*7,2.11) iti nityaḥ pratiṣedho bhavati pūrvavipratiṣedhena / svṛtvā / sūtvā / dhūtvā // radhādibhyaś ca

Sanskrit only: no published translation is held for this verse.

रध हिंसासंसिद्ध्योः इत्य् एवम् आदिभ्यो ऽष्टाभ्य उत्तरस्य वलादेर् आर्धधातुकस्य वा इडागमो भवति । रद्धा, रधिता । नंष्टा, नशिता । त्रप्ता, तर्प्ता, तर्पिता । द्रप्ता, दर्प्ता, दर्पिता । द्रोग्धा, द्रोढा, द्रोहिता । मोग्धा, मोढा, मोहिता, स्नोग्धा, स्नोढा, स्नोहिता । स्नेग्धा, स्नेढा, स्नेहिता । क्रादिनियमाल् लिटि रधादिभ्यः परत्वाद् विकल्पं केचिद् इच्छन्ति । अपरे पुनराहुः, पूर्वविधेरिण्निषेधविधानसामर्थ्यात् बलीयस्त्वं प्रतिषेधनियमस्य इति नित्यमिटा भवितव्यम् । ररन्धिव, ररन्धिम इति भवति ॥ निरः कुषः

radha hiṃsāsaṃsiddhyoḥ ity evam ādibhyo 'ṣṭābhya uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati / raddhā, radhitā / naṃṣṭā, naśitā / traptā, tarptā, tarpitā / draptā, darptā, darpitā / drogdhā, droḍhā, drohitā / mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā / snegdhā, sneḍhā, snehitā / krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecid icchanti / apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā bhavitavyam / rarandhiva, rarandhima iti bhavati // niraḥ kuṣaḥ

Sanskrit only: no published translation is held for this verse.

निर् इत्य् एवं पूर्वात् कुष उत्तरस्य वलादेर् आर्धधातुकस्य वा इडागमो भवति । निष्कोष्टा, निष्कोषिता । निष्कोष्टुम्, निष्कोषितुम् । निष्कोष्टव्यम्, निष्कोषितव्यम् । निरः इति किम् ? कोषिता । कोषितुम् । कोषितव्यम् । निसः इति वक्तव्ये निरः इति निर्देशेन रेफान्तम् उपसर्गान्तरम् अस्ति इति ज्ञाप्यते । तस्य हि निलयनम् इति उपसर्गस्य अयतौ (*८,२।१९) इति लत्वं भवति । निसो हि रुत्वस्य असिद्धत्वाल् लत्वं न स्यात् ॥ इण् निष्ठायाम्

nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati / niṣkoṣṭā, niṣkoṣitā / niṣkoṣṭum, niṣkoṣitum / niṣkoṣṭavyam, niṣkoṣitavyam / niraḥ iti kim ? koṣitā / koṣitum / koṣitavyam / nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam upasargāntaram asti iti jñāpyate / tasya hi nilayanam iti upasargasya ayatau (*8,2.19) iti latvaṃ bhavati / niso hi rutvasya asiddhatvāl latvaṃ na syāt // iṇ niṣṭhāyām

Sanskrit only: no published translation is held for this verse.

ति-इष-सह-लुभ-रुष-रिषः

ti-iṣa-saha-lubha-ruṣa-riṣaḥ

Sanskrit only: no published translation is held for this verse.

तकारादाव् आर्धधातुके इषु सह लुभ रुष इत्य् एतेभ्यो वा इडागमो भवति । इषु - एष्टा, एषिता । इषु इच्छायाम् इत्य् अस्य अयं विकल्प इष्यते । यस् तु इष गतौ इति दैवादिकः, तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यम् इति नित्यं भवति । यो ऽपि इष आभीक्ष्ण्ये इति कृयादौ पठ्यते, तस्य अप्य् एवम् एव । तदर्थम् एव तीषसह इति सूत्रे केचित् उदितमिषं पठन्ति । सह - सोढा, सहिता । लुभ - लोब्धा, लोभिता । रुष - रोष्टा, रोषिता । रिष - रेष्टा, रेषिता । तीति किम् ? एषिष्यति ॥ सनि इवन्त-र्ध-भ्रस्ज-दम्भु-श्रि-स्वृ-यु-ऊर्णु-भर-ज्ञपि-सनाम्

takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity etebhyo vā iḍāgamo bhavati / iṣu - eṣṭā, eṣitā / iṣu icchāyām ity asya ayaṃ vikalpa iṣyate / yas tu iṣa gatau iti daivādikaḥ, tasya preṣitā, preṣitum, preṣitavyam iti nityaṃ bhavati / yo 'pi iṣa ābhīkṣṇye iti kṛyādau paṭhyate, tasya apy evam eva / tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti / saha - soḍhā, sahitā / lubha - lobdhā, lobhitā / ruṣa - roṣṭā, roṣitā / riṣa - reṣṭā, reṣitā / tīti kim ? eṣiṣyati // sani ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi-sanām

Sanskrit only: no published translation is held for this verse.

इवन्तानां धातूनाम्, ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सन् इत्य् एतेषां च सनि वा इडागमो भवति । इवन्तानाम् - दिदेविषति, दुद्यूषति । सिसेविषति, सुस्यूषति । ऋधु - अर्दिधिषति, ईर्त्सति । भ्रस्ज - बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति । दम्भु - दिदम्भिषति, धिप्सति, धीप्सति । श्रि - उच्छिश्रयिषति, उच्छिश्रीषति । स्वृ - सिस्वरिषति, सुस्वूर्षति । यु- यियविषति, युयूषति । ऊर्णु - प्रोर्णुनविषति, प्रोर्णुनविषति, प्रोर्णुनूषति । भर इति भृञ् इत्य् एतस्य भौवादिकस्य ग्रहणम्, शपा निर्देशात् । विभरिषति, बुभूर्षति । ज्ञपि - जिज्ञपयिषति, ज्ञीप्सटि । सन् - सिसनिषति, सिषासति । केचिद् अत्र भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति । तनि - तितनिषति, तितंसति, तितांसति । पति - पिपतिषति, पित्सति । दरिद्रा - दिदरिद्रिषति, दिदरिद्रासति । सनि इति किम् ? देविता । भ्रष्टा ॥ क्लिशः क्त्वानिष्ठयोः

ivantānāṃ dhātūnām, ṛdhu bhrasja dambhu śri svṛ yu ūrṇu bhara jñapi san ity eteṣāṃ ca sani vā iḍāgamo bhavati / ivantānām - dideviṣati, dudyūṣati / siseviṣati, susyūṣati / ṛdhu - ardidhiṣati, īrtsati / bhrasja - bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati / dambhu - didambhiṣati, dhipsati, dhīpsati / śri - ucchiśrayiṣati, ucchiśrīṣati / svṛ - sisvariṣati, susvūrṣati / yu- yiyaviṣati, yuyūṣati / ūrṇu - prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati / bhara iti bhṛñ ity etasya bhauvādikasya grahaṇam, śapā nirdeśāt / vibhariṣati, bubhūrṣati / jñapi - jijñapayiṣati, jñīpsaṭi / san - sisaniṣati, siṣāsati / kecid atra bharajñapisanitanipatidaridrāṇām iti paṭhanti / tani - titaniṣati, titaṃsati, titāṃsati / pati - pipatiṣati, pitsati / daridrā - didaridriṣati, didaridrāsati / sani iti kim ? devitā / bhraṣṭā // kliśaḥ ktvāniṣṭhayoḥ

Sanskrit only: no published translation is held for this verse.

क्लिशः क्त्वानिष्ठ्योः वा इडागमो भवति । क्लिष्ट्वा, क्लिशित्वा । क्लिष्टः, क्लिशितः । क्लिष्टवान्, क्लिशितवान् । क्लिशू विबाधने इत्य् अस्य क्त्वायां विकल्पः सिद्ध एव निष्ठायां तु यस्य विभाषा (*७,२।१५) इति प्रतिषेधः प्राप्नोति । क्लिश उपतापे इत्य् एतस्य तु क्त्वायां निष्ठायां च नित्यम् इडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते ॥ पूङश् च

kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati / kliṣṭvā, kliśitvā / kliṣṭaḥ, kliśitaḥ / kliṣṭavān, kliśitavān / kliśū vibādhane ity asya ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāpnoti / kliśa upatāpe ity etasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ kriyate // pūṅaś ca

Sanskrit only: no published translation is held for this verse.

वसति-क्षुधोर् इट्

vasati-kṣudhor iṭ

Sanskrit only: no published translation is held for this verse.

वसतेः क्षुधेश् च क्त्वानिष्ठयोः इडागमः भवति । उषित्वा । उषितः । उषितवान् । क्षुधित्वा । क्षुधितः । क्षुधितवान् । वसति इति विकरणो निर्देशार्थ एव । वस्तेस् तु उदात्तत्वाद् एव भवितव्यम् इटा । पुनर् इड्ग्रहणं नित्यार्थम् ॥ अञ्चेः पूजायाम्

vasateḥ kṣudheś ca ktvāniṣṭhayoḥ iḍāgamaḥ bhavati / uṣitvā / uṣitaḥ / uṣitavān / kṣudhitvā / kṣudhitaḥ / kṣudhitavān / vasati iti vikaraṇo nirdeśārtha eva / vastes tu udāttatvād eva bhavitavyam iṭā / punar iḍgrahaṇaṃ nityārtham // añceḥ pūjāyām

Sanskrit only: no published translation is held for this verse.

अञ्चेः पूजायाम् अर्थे क्त्वानिष्ठयोः इडागमो भवति । अञ्चित्वा जानु जुहोति । अञ्चिता अस्य गुरवः । उदितो वा (*७,२।५६) इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायाम् यस्य विभाषा (*७,२।१५) इति प्रतिषेधः प्राप्तः, तदर्थम् इदं प्रारब्धम् । पूजायाम् इति किम् ? उदक्तमुदकं कूपात् । उद्धृतम् इत्य् अर्थः ॥ लुभो विमोहने

añceḥ pūjāyām arthe ktvāniṣṭhayoḥ iḍāgamo bhavati / añcitvā jānu juhoti / añcitā asya guravaḥ / udito vā (*7,2.56) iti ktvāpratyaye vikalpaḥ prāptaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ, tadartham idaṃ prārabdham / pūjāyām iti kim ? udaktamudakaṃ kūpāt / uddhṛtam ity arthaḥ // lubho vimohane

Sanskrit only: no published translation is held for this verse.

लुभो विमोहने ऽर्थे वर्तमानात् क्त्वानिष्ठयोः इडागमो भवति । लुभित्वा, लोभित्वा । विलुभिताः केशाः । विलुभितः सीमन्तः । विलुभितानि पदानि । विमोहनम् आकुलीकरणम्, तत्र क्त्वायां तीषसहलुभरुषरिषः (*७,२।४८) इति विकल्पः, निष्ठायाम् यस्य विभाषा (*७,२।१५) इति प्रतिषेधः प्राप्तः । विमोहने इति किम् ? लुब्धो वृषलः । शीतेन पीडितः इत्य् अर्थः । लुब्ध्वा, लुभित्वा, लोभित्वा । गार्ध्ये यथाप्राप्तम् एव भवति ॥ जॄ-व्रश्च्योः क्त्वि

lubho vimohane 'rthe vartamānāt ktvāniṣṭhayoḥ iḍāgamo bhavati / lubhitvā, lobhitvā / vilubhitāḥ keśāḥ / vilubhitaḥ sīmantaḥ / vilubhitāni padāni / vimohanam ākulīkaraṇam, tatra ktvāyāṃ tīṣasahalubharuṣariṣaḥ (*7,2.48) iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ / vimohane iti kim ? lubdho vṛṣalaḥ / śītena pīḍitaḥ ity arthaḥ / lubdhvā, lubhitvā, lobhitvā / gārdhye yathāprāptam eva bhavati // jṝ-vraścyoḥ ktvi

Sanskrit only: no published translation is held for this verse.

जॄ व्रश्चि इत्य् एतयोः क्त्वाप्रत्यये इडागमो भवति । जरित्वा, जरीत्वा । व्रश्चित्वा । जॄ इत्य् एतस्य श्र्युकः किति (*७,२।११) इति प्रतिषेधः प्राप्तः, व्रश्चेरुदित्वाद् विकल्पः । क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम् ॥ उदितो वा

jṝ vraści ity etayoḥ ktvāpratyaye iḍāgamo bhavati / jaritvā, jarītvā / vraścitvā / jṝ ity etasya śryukaḥ kiti (*7,2.11) iti pratiṣedhaḥ prāptaḥ, vraśceruditvād vikalpaḥ / ktvāgrahaṇaṃ niṣṭhānivṛttyartham // udito vā

Sanskrit only: no published translation is held for this verse.

से ऽसिचि कृत-चृत-च्छृद-तृद-नृतः

se 'sici kṛta-cṛta-cchṛda-tṛda-nṛtaḥ

Sanskrit only: no published translation is held for this verse.

सकारादावसिचि आर्धधातुके कृत चृत छृद तृद नृत इत्य् एतेभ्यो धातुभ्यो वा इडागमो भवति । कृत - कर्त्स्यति । अकर्त्स्यत् । चिकृत्सति । कर्तिष्यति । अकर्तिष्यत् । चिकर्तिषति । चृत - चएत्स्यति । अचर्त्स्यत् । चिचृत्सति । चर्तिष्यति । अचर्तिष्यत् । चिचर्तिषति । छृद - छर्त्स्यति । अच्छर्त्स्यत् । चिच्छृत्सति । छर्दिष्यति । अच्छर्दिष्यत् । चिछर्दिषति । तृद - तर्त्स्यति । अतर्त्स्यत् । तितृत्ससि । तर्दिष्यति । अतर्दिष्यत् । तितर्दिषति । नृत - नर्त्स्यति । अनर्त्स्यत् । निनृत्सति । नर्तिष्यति । अनर्तिष्यत् । निनर्तिषति । से इति किम् ? कर्तिता । असिचि इति किम् ? अकर्तीत् ॥ गमेर् इट् परस्मैपदेषु

sakārādāvasici ārdhadhātuke kṛta cṛta chṛda tṛda nṛta ity etebhyo dhātubhyo vā iḍāgamo bhavati / kṛta - kartsyati / akartsyat / cikṛtsati / kartiṣyati / akartiṣyat / cikartiṣati / cṛta - caetsyati / acartsyat / cicṛtsati / cartiṣyati / acartiṣyat / cicartiṣati / chṛda - chartsyati / acchartsyat / cicchṛtsati / chardiṣyati / acchardiṣyat / cichardiṣati / tṛda - tartsyati / atartsyat / titṛtsasi / tardiṣyati / atardiṣyat / titardiṣati / nṛta - nartsyati / anartsyat / ninṛtsati / nartiṣyati / anartiṣyat / ninartiṣati / se iti kim ? kartitā / asici iti kim ? akartīt // gamer iṭ parasmaipadeṣu

Sanskrit only: no published translation is held for this verse.

गमेर् धातोः सकारादेर् आर्धधातुकस्य परस्मैपदेसु इडागमो भवति । गमिष्यति । अगमिष्यत् । जिगमिषति । गमेः इति किम् ? चेष्यति । इड्ग्रहणं नित्यार्थम् । परस्मैपदेषु इति किम् ? संगंसीष्ट । संगंस्यते । संजिगंसते । संजिगंसिष्यते । अधिजिगांसते । अधिजिगांसिष्यते । गमेर् इङादेशस्य अज्झनगमां सनि (*६,४।१६) इति दीर्घत्वम् । से इत्य् एव, गन्तास्मि, गन्तास्वः, गन्तास्मः । आत्मनेपदेन समानपदस्थस्य गमेः अयम् इडागमो नेष्यते । अन्यत्र सर्वत्रैवेष्यते । कृत्यपि हि भवति, परस्मैपदलुकि च, संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वम् इति । पदशेषकारस्य पुनर् इदं दर्शनम् - गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिर् उपलक्षितस् तस्मात् सकारादेर् आर्धधातुकस्य इड् भवति । तन्मतेन संजिगंसिता, अधिजिगंसिता व्याकरणस्य इत्य् एव भवितव्यम् ॥ न वृद्भ्यश् चतुर्भ्यः

gamer dhātoḥ sakārāder ārdhadhātukasya parasmaipadesu iḍāgamo bhavati / gamiṣyati / agamiṣyat / jigamiṣati / gameḥ iti kim ? ceṣyati / iḍgrahaṇaṃ nityārtham / parasmaipadeṣu iti kim ? saṃgaṃsīṣṭa / saṃgaṃsyate / saṃjigaṃsate / saṃjigaṃsiṣyate / adhijigāṃsate / adhijigāṃsiṣyate / gamer iṅādeśasya ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam / se ity eva, gantāsmi, gantāsvaḥ, gantāsmaḥ / ātmanepadena samānapadasthasya gameḥ ayam iḍāgamo neṣyate / anyatra sarvatraiveṣyate / kṛtyapi hi bhavati, parasmaipadaluki ca, saṃjigamiṣitā, adhijigamiṣitā vyākaraṇasya, jigamiṣa tvam iti / padaśeṣakārasya punar idaṃ darśanam - gamyupalakṣaṇārthaṃ parasmaipadagrahaṇam, parasmaipadeṣu yo gamir upalakṣitas tasmāt sakārāder ārdhadhātukasya iḍ bhavati / tanmatena saṃjigaṃsitā, adhijigaṃsitā vyākaraṇasya ity eva bhavitavyam // na vṛdbhyaś caturbhyaḥ

Sanskrit only: no published translation is held for this verse.

तासि च कॢपः

tāsi ca kḷpaḥ

Sanskrit only: no published translation is held for this verse.

कृप उत्तरस्य तासेः सकारादेश् च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति । श्वः कल्प्ता । कल्प्स्यति । अकल्प्स्यत् । चिकॢप्सति । पर्स्मैपदेषु इत्य् एव, कल्पितासे । कल्पिष्यते । कल्पिषीष्ट । अकल्पिष्यत । चिकल्पिषते । कॢपेर् अप्य् आत्मनेपदेन समानपदस्थस्य इडागमः इष्यते । अन्यत्र प्रतिषेधः । कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिकॢप्सिता, चिकॢप्स त्वम् इति ॥ अचस् तास्वत् थल्य् अनिटो नित्यम्

kṛpa uttarasya tāseḥ sakārādeś ca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhavati / śvaḥ kalptā / kalpsyati / akalpsyat / cikḷpsati / parsmaipadeṣu ity eva, kalpitāse / kalpiṣyate / kalpiṣīṣṭa / akalpiṣyata / cikalpiṣate / kḷper apy ātmanepadena samānapadasthasya iḍāgamaḥ iṣyate / anyatra pratiṣedhaḥ / kṛtyapi hi parsamipadaluki ca pratiṣedho bhavati, cikḷpsitā, cikḷpsa tvam iti // acas tāsvat thaly aniṭo nityam

Sanskrit only: no published translation is held for this verse.

तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति । याता - ययाथ । चेता - चिचेथ । नेता - निनेथ । होता - जुहोथ । अचः इति किम् ? भेत्ता - बिभेदिथ । तास्वत् इति किम् ? लूत्वा - लुलविथ । थलि इति किम् ? याता - ययिव । ययिम । अनिड्ग्रहणं नित्यम् इत्य् अनेन विशेषणार्थम् । नित्यग्रहणं किम् ? विधोता, विधविता - विदुधविथ । तासि विभाषितेट्, थलि नित्यम् इडागमो भवति । तास्वत् इति वतिनिर्देशः किमर्थः ? तासौ ततस्थलि प्रतिषेधार्थः । यो हि तासावसन्, असत्त्वाच् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति । जघसिथ । उवयिथ । उत्तरसूत्रे ऽपि तास्वदिति वर्तते । अदादेशो हि घसिः, वेञादेशश् च वयिस्तासौ न अस्ति ॥ उपदेशे ऽत्वतः

tāsau ye nityāniṭo dhātavaḥ ajantāḥ, tebhyastāsāviva thali iḍāgamo na bhavati / yātā - yayātha / cetā - cicetha / netā - ninetha / hotā - juhotha / acaḥ iti kim ? bhettā - bibheditha / tāsvat iti kim ? lūtvā - lulavitha / thali iti kim ? yātā - yayiva / yayima / aniḍgrahaṇaṃ nityam ity anena viśeṣaṇārtham / nityagrahaṇaṃ kim ? vidhotā, vidhavitā - vidudhavitha / tāsi vibhāṣiteṭ, thali nityam iḍāgamo bhavati / tāsvat iti vatinirdeśaḥ kimarthaḥ ? tāsau tatasthali pratiṣedhārthaḥ / yo hi tāsāvasan, asattvāc ca nityāniṭ, tasya thali pratiṣedho na bhavati / jaghasitha / uvayitha / uttarasūtre 'pi tāsvaditi vartate / adādeśo hi ghasiḥ, veñādeśaś ca vayistāsau na asti // upadeśe 'tvataḥ

Sanskrit only: no published translation is held for this verse.

उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलि इडागमो न भवति । पक्ता - पपक्थ । यष्टा - इयष्ठ । श्क्ता - शशक्थ । उपदेशे इति किम् ? कर्ष्टा - चकर्षिथ । अत्वतः इति किम् ? भेत्ता - विभेदिथ । तपरकरणं किम् ? राद्धा - रराधिथ । तास्वत् इत्य् एव, जिघृक्षति । जग्रहिथ । नित्यम् अनिटः इत्य् एव, अङ्क्ता, अञ्जिता - आनञ्जिथ ॥ ऋतो भारद्वाजस्य

upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavati / paktā - papaktha / yaṣṭā - iyaṣṭha / śktā - śaśaktha / upadeśe iti kim ? karṣṭā - cakarṣitha / atvataḥ iti kim ? bhettā - vibheditha / taparakaraṇaṃ kim ? rāddhā - rarādhitha / tāsvat ity eva, jighṛkṣati / jagrahitha / nityam aniṭaḥ ity eva, aṅktā, añjitā - ānañjitha // ṛto bhāradvājasya

Sanskrit only: no published translation is held for this verse.

वभूथ-आततन्थ-जगृभ्म-ववर्थ+इति निगमे

vabhūtha-ātatantha-jagṛbhma-vavartha+iti nigame

Sanskrit only: no published translation is held for this verse.

बभूथ आततन्थ जगृभ्म ववर्थ इत्य् एतानि निपात्यन्ते निगमविषये । निगमो वेदः । त्वं हि होता प्रथमो बभूथ । बभूविथ इति भाषायाम् । आततन्थ - येनानतरिक्षमुर्वाततन्थ । आतेनिथ इति भाषायाम् । जगृभ्म - जगृभ्मा ते दक्षिणमिन्द्र हस्तम् । जगृहिम इति भाषायाम् । ववर्थ - ववर्थ त्वं हि ज्योतिषा । ववरिथ इति भाषायाम् । क्रादिसूत्राद् एव अस्य प्रतिषेधो सिद्धे नियमार्थं वचनम्, निगमे एव, न भषायाम् इति ॥ विभाषा सृजिदृशोः

babhūtha ātatantha jagṛbhma vavartha ity etāni nipātyante nigamaviṣaye / nigamo vedaḥ / tvaṃ hi hotā prathamo babhūtha / babhūvitha iti bhāṣāyām / ātatantha - yenānatarikṣamurvātatantha / ātenitha iti bhāṣāyām / jagṛbhma - jagṛbhmā te dakṣiṇamindra hastam / jagṛhima iti bhāṣāyām / vavartha - vavartha tvaṃ hi jyotiṣā / vavaritha iti bhāṣāyām / krādisūtrād eva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām iti // vibhāṣā sṛjidṛśoḥ

Sanskrit only: no published translation is held for this verse.

सृजि दृशि इत्य् एतयोः थलि विभाषा इडागमो न भवति । ससृअष्ठ, ससर्जिथ । दद्रष्ठ, ददर्शिथ ॥ इड् अत्त्य्-अर्ति-व्ययतीनाम्

sṛji dṛśi ity etayoḥ thali vibhāṣā iḍāgamo na bhavati / sasṛaṣṭha, sasarjitha / dadraṣṭha, dadarśitha // iḍ atty-arti-vyayatīnām

Sanskrit only: no published translation is held for this verse.

अत्ति अर्ति व्ययति इत्य् एतेषां थलि इडागमो भवति । आदिथ । आरिथ । विव्ययिथ । व्येञः न व्यो लिटि (*६,१।४६) इति आत्वप्रतिषेधः । अत्तिव्ययत्योः ऋतो भारद्वाजस्य (*७,२।६३) इति नियमाद् विकल्पः । अर्त्तेर् अपि नित्यः प्रतिषेधः । अत्र इड्ग्रहणम् विस्पष्टार्थम् । विकल्पविधाने हि सति अत्तिव्ययतिग्रहणम् अनर्थकम्, प्रतिषेधविधाने च अर्तिग्रहणम् इति नित्यो ऽयं विधिः इड्ग्रहणम् अन्तरेण अपि शक्यते विज्ञातुम् ॥ वस्व् एकाज्-आद्-घसाम्

atti arti vyayati ity eteṣāṃ thali iḍāgamo bhavati / āditha / āritha / vivyayitha / vyeñaḥ na vyo liṭi (*6,1.46) iti ātvapratiṣedhaḥ / attivyayatyoḥ ṛto bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ / artter api nityaḥ pratiṣedhaḥ / atra iḍgrahaṇam vispaṣṭārtham / vikalpavidhāne hi sati attivyayatigrahaṇam anarthakam, pratiṣedhavidhāne ca artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam antareṇa api śakyate vijñātum // vasv ekāj-ād-ghasām

Sanskrit only: no published translation is held for this verse.

विभाषा गम-हन-विद-विशाम्

vibhāṣā gama-hana-vida-viśām

Sanskrit only: no published translation is held for this verse.

गम हन विद विश इत्य् एतेषां धातूनां वसौ विभाषा इडागमो भवति । गम - जग्मिवान्, जगन्वान् । मो नो धातोः (*८,२।६४) इति नकारः । हन - जघ्निवान्, जघन्वान् । विद - विविदिवान्, विविद्वान् । विश - विविशिवान्, विविश्वान् । विशिना साहचर्याद् इह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् । ज्ञानार्थस्य तु नित्यं विविद्वान् इत्य् एव भवति । दृशेश्चेति वक्तव्यम् । ददृशिवान्, ददृश्वान् ॥ सनिंससनिवांसम्

gama hana vida viśa ity eteṣāṃ dhātūnāṃ vasau vibhāṣā iḍāgamo bhavati / gama - jagmivān, jaganvān / mo no dhātoḥ (*8,2.64) iti nakāraḥ / hana - jaghnivān, jaghanvān / vida - vividivān, vividvān / viśa - viviśivān, viviśvān / viśinā sāhacaryād iha videstaudādikasya lābhārthasya grahaṇam / jñānārthasya tu nityaṃ vividvān ity eva bhavati / dṛśeśceti vaktavyam / dadṛśivān, dadṛśvān // saniṃsasanivāṃsam

Sanskrit only: no published translation is held for this verse.

सनोतेः सनतेर् वा धातोः सनिंससनिवांसम् इति निपात्यते । अञ्चित्वाग्ने सनिंससनिवांसम् । इडागम एत्वाभ्यासलोपश् च निपात्यते । सनिङ्पूर्वात् अन्यत्र सेनिवांसम् इत्य् एव भवति । छन्दसि इदं निपातनं विज्ञायते । भाषायां सेनिवांसम् इति भवति ॥ ऋद्धनोः स्ये

sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipātyate / añcitvāgne saniṃsasanivāṃsam / iḍāgama etvābhyāsalopaś ca nipātyate / saniṅpūrvāt anyatra senivāṃsam ity eva bhavati / chandasi idaṃ nipātanaṃ vijñāyate / bhāṣāyāṃ senivāṃsam iti bhavati // ṛddhanoḥ sye

Sanskrit only: no published translation is held for this verse.

ऋकारान्तानां धातूनां हन्तेश् च स्ये इडागमो भवति । करिष्यति । हरिष्यति । हनिस्यति । स्वरतेर् वेट्त्वात् ऋद्धनोः स्ये इत्य् एतद् भवति विप्रतिषेधेन । स्वरिष्यति । तपरकरणं विस्पष्टार्थम् ॥ अज्ञेः सिचि

ṛkārāntānāṃ dhātūnāṃ hanteś ca sye iḍāgamo bhavati / kariṣyati / hariṣyati / hanisyati / svarater veṭtvāt ṛddhanoḥ sye ity etad bhavati vipratiṣedhena / svariṣyati / taparakaraṇaṃ vispaṣṭārtham // ajñeḥ sici

Sanskrit only: no published translation is held for this verse.

अञ्जेः सिचि इडागमो भवति । आञ्जीत्, आञ्जीष्टाम्, आञ्जिषुः । सिचि इति किम् ? अङ्क्ता अञ्जिता । ऊदित्वाद् विभाषा भवति ॥ स्तु-सु-धूञ्भ्यः परस्मैपदेषु

añjeḥ sici iḍāgamo bhavati / āñjīt, āñjīṣṭām, āñjiṣuḥ / sici iti kim ? aṅktā añjitā / ūditvād vibhāṣā bhavati // stu-su-dhūñbhyaḥ parasmaipadeṣu

Sanskrit only: no published translation is held for this verse.

यम-रम-नम-आतां सक् च

yama-rama-nama-ātāṃ sak ca

Sanskrit only: no published translation is held for this verse.

यम रम नम इत्य् एषाम् अङ्गानाम् आकारान्तानां च सगागमो भवति परस्मैपदे सिचि, इडागमश् च । यम् अयंसीत्, अयंसिष्टाम् अयंसिष्टां, अयंसिषुः । रम् - अरंसीत्, अरंसिष्टाम्, अरंसिषुः । नम् - अनंसीत्, अनंसिष्टाम् अनंसिषुः । अकारान्तानाम् - अयासीत्, अयासिष्टाम्, अयासिषुः । यमादीनां हलन्तलक्षणा वृद्धिः प्राप्ता सा नेटि प्रतिषिध्यते । परस्मैपदेषु इत्य् एव, अयंस्त । अरंस्त । अनंस्त ॥ स्मि-पूङ्-र्-अञ्ज्व्-अशां सनि

yama rama nama ity eṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici, iḍāgamaś ca / yam ayaṃsīt, ayaṃsiṣṭām ayaṃsiṣṭāṃ, ayaṃsiṣuḥ / ram - araṃsīt, araṃsiṣṭām, araṃsiṣuḥ / nam - anaṃsīt, anaṃsiṣṭām anaṃsiṣuḥ / akārāntānām - ayāsīt, ayāsiṣṭām, ayāsiṣuḥ / yamādīnāṃ halantalakṣaṇā vṛddhiḥ prāptā sā neṭi pratiṣidhyate / parasmaipadeṣu ity eva, ayaṃsta / araṃsta / anaṃsta // smi-pūṅ-r-añjv-aśāṃ sani

Sanskrit only: no published translation is held for this verse.

स्मिङ् पूङ् ऋ अञ्जू अशू इत्य् एतेषां धातूनां सनि इडागमो भवति । सिस्मयिषते । पिपविषते । अरिरिषति । अञ्जिजिषति । अशिशिषते । ङकारग्रहणं पूञो मा भूत् । पुपूषति इत्य् एव तस्य भवति । अशेः ऊदितो ग्रहणात् अश्नोतेर् नित्यम् इडागमो ऽस्त्य् एव ॥ किरश् च पञ्चभ्यः

smiṅ pūṅ ṛ añjū aśū ity eteṣāṃ dhātūnāṃ sani iḍāgamo bhavati / sismayiṣate / pipaviṣate / aririṣati / añjijiṣati / aśiśiṣate / ṅakāragrahaṇaṃ pūño mā bhūt / pupūṣati ity eva tasya bhavati / aśeḥ ūdito grahaṇāt aśnoter nityam iḍāgamo 'sty eva // kiraś ca pañcabhyaḥ

Sanskrit only: no published translation is held for this verse.

किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति । कॄ - चिकरिषति । गॄ - जिगरिषति । दृङ् - दिदरिषते । धृङ् - दिधरिषते । प्रच्च्ः - पित्रच्छिषति । पञ्चभ्यः इति किम् ? सिसृक्षति । किरतिगिरत्योः - इट् सनि वा (*७,२।४१) इति विकल्पः प्राप्तः, वॄतो वा (*७,२।३५) इति च । अस्येटो दीर्घत्वं न+इच्छन्ति ॥ रुदादिभ्यः सार्वधातुके

kirādibhyaḥ pañcabhyaḥ sani iḍāgamo bhavati / kṝ - cikariṣati / gṝ - jigariṣati / dṛṅ - didariṣate / dhṛṅ - didhariṣate / praccḥ - pitracchiṣati / pañcabhyaḥ iti kim ? sisṛkṣati / kiratigiratyoḥ - iṭ sani vā (*7,2.41) iti vikalpaḥ prāptaḥ, vṝto vā (*7,2.35) iti ca / asyeṭo dīrghatvaṃ na+icchanti // rudādibhyaḥ sārvadhātuke

Sanskrit only: no published translation is held for this verse.

रुदादिभ्यः उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति । रुद् - रोदिति । स्वप् - र्वपिति । श्वस् - श्वसिति । अन् - प्राणिति । जक्ष् - जक्षिति । पञ्चभ्यः इत्य् एव, जागर्ति । सार्वधातुके इति किम् ? स्वप्ता । वलादेः इत्य् एव, रुदन्ति ॥ ईशः से

rudādibhyaḥ uttarasya valādeḥ sārvadhātukasya iḍāgamo bhavati / rud - roditi / svap - rvapiti / śvas - śvasiti / an - prāṇiti / jakṣ - jakṣiti / pañcabhyaḥ ity eva, jāgarti / sārvadhātuke iti kim ? svaptā / valādeḥ ity eva, rudanti // īśaḥ se

Sanskrit only: no published translation is held for this verse.

ईड-जनोर् ध्वे च

īḍa-janor dhve ca

Sanskrit only: no published translation is held for this verse.

ईड जन इत्य् एताभ्याम् उत्तरस्य ध्वे इत्य् एतस्य, स्ये इत्य् एतस्य च सर्वधातुकस्य इडागमो भवति । ईडिध्वे । ईडिध्वम् । ईडिषे । ईडिष्व । जनिध्वे । जनिध्वम् । जनिषे । जनिष्व । जनी प्रादुर्भावे इत्य् अस्य छान्दसत्वात् श्यनो लुक् उपधालोपाभावश् च । जन जनने इत्य् अस्य अपि श्लुविकरणस्य ग्रहणम् अत्र+इष्यते । तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् इति च भवति । ध्वेशब्दे ईशेर् अपि इडागम इष्यते ईशिध्वे ईशिध्वम् इति । तदर्थं केचित् ईडिजनोः स्ध्वे च इति सूत्रं पठन्ति । तत्र सकारादेः सेशब्दस्य सूत्र एव+उपादानाच् चशब्दो भिन्नक्रमः ईशेरनुकर्षणार्थो विज्ञायते । ईशीडिजनां सेध्वयोः इत्य् एकम् एव सूत्रं न पठितम् ? विचित्रा हि सूत्रस्य कृतिः पणिनेः इति । ध्वे इति कृतटेर् एत्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा । लोटि पुनर् एकदेशविकृतस्य अनन्यत्वात् भवितव्यमिटा ॥ लिङः सलोपो ऽनन्त्यस्य

īḍa jana ity etābhyām uttarasya dhve ity etasya, sye ity etasya ca sarvadhātukasya iḍāgamo bhavati / īḍidhve / īḍidhvam / īḍiṣe / īḍiṣva / janidhve / janidhvam / janiṣe / janiṣva / janī prādurbhāve ity asya chāndasatvāt śyano luk upadhālopābhāvaś ca / jana janane ity asya api śluvikaraṇasya grahaṇam atra+iṣyate / tasya karmavyatihāre vyatijajñiṣe, vyatijajñiṣva, vyatijajñidhve, vyatijajñidhvam iti ca bhavati / dhveśabde īśer api iḍāgama iṣyate īśidhve īśidhvam iti / tadarthaṃ kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti / tatra sakārādeḥ seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho vijñāyate / īśīḍijanāṃ sedhvayoḥ ity ekam eva sūtraṃ na paṭhitam ? vicitrā hi sūtrasya kṛtiḥ paṇineḥ iti / dhve iti kṛtaṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā / loṭi punar ekadeśavikṛtasya ananyatvāt bhavitavyamiṭā // liṅaḥ salopo 'nantyasya

Sanskrit only: no published translation is held for this verse.

सार्वधातुके इति वर्तते । सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति । कः पुनर् अनन्त्यो लिङः सकारः ? यो यासुट्सुट्सीयुटाम् । कुर्यात्, कुर्याताम्, कुर्युः । कुर्वीत, कुर्वीयाताम्, कुर्वीरन् । अनन्यस्य इति किम् ? कुर्युः । कुर्याः । सार्वधातुके इत्य् एव, क्रियास्ताम् । क्रियासुः । कृषीष्ट, कृषीयास्ताम्, कृषीरन् ॥ अतो येयः

sārvadhātuke iti vartate / sārvadhātuke yo liṅ tasya anantyasya sakārasya lopo bhavati / kaḥ punar anantyo liṅaḥ sakāraḥ ? yo yāsuṭsuṭsīyuṭām / kuryāt, kuryātām, kuryuḥ / kurvīta, kurvīyātām, kurvīran / ananyasya iti kim ? kuryuḥ / kuryāḥ / sārvadhātuke ity eva, kriyāstām / kriyāsuḥ / kṛṣīṣṭa, kṛṣīyāstām, kṛṣīran // ato yeyaḥ

Sanskrit only: no published translation is held for this verse.

आतो ङितः

āto ṅitaḥ

Sanskrit only: no published translation is held for this verse.

आकारस्य ङिदवयवस्य आकारान्ताद् अङ्गाद् उत्तरस्य सार्वधातुकस्य इय् इत्य् अयम् आदेशो भवति । पचेते पचेथे । पचेताम् । पचेथाम् । यजेते । यजेथे । यजेताम् । यजेथाम् । सार्वधातुकम् अपित् (*१,२।४) इत्य् अत्र न ङितीव ङिद्वत् इत्य् एवम् अङ्गीक्रियते, अपि तु ङित इव ङिद्वत् इति । पूर्वसूत्र एव उच्चुकुटिषति इति प्रसिद्धये तथाङ्गीकरणम् । यदि गाङ्कुटादिसूत्रे ङित इव ङिद्वद् भवति इत्य् एवम् अङ्गीक्रियते, तदा अनुदात्तङिति आत्मनेपदम् (*१,३।१२) इत्य् आत्मनेपदं प्रप्नोति इति । आतः इति किम् ? पचन्ति । यजन्ति । पचन्ते । यजन्ते । ङितः इति किम् ? पचावहै । पचामहै । अतः इत्य् एव, चिन्वाते । सुन्वाते । तपरकरणम् किम् ? मिमाते । मिमाथे ॥ आने मुक्

ākārasya ṅidavayavasya ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam ādeśo bhavati / pacete pacethe / pacetām / pacethām / yajete / yajethe / yajetām / yajethām / sārvadhātukam apit (*1,2.4) ity atra na ṅitīva ṅidvat ity evam aṅgīkriyate, api tu ṅita iva ṅidvat iti / pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam / yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (*1,3.12) ity ātmanepadaṃ prapnoti iti / ātaḥ iti kim ? pacanti / yajanti / pacante / yajante / ṅitaḥ iti kim ? pacāvahai / pacāmahai / ataḥ ity eva, cinvāte / sunvāte / taparakaraṇam kim ? mimāte / mimāthe // āne muk

Sanskrit only: no published translation is held for this verse.

आने परतो ऽङ्गस्यातः मुगागमो भवति । पचमानः । यजमानः । अकारमात्रभक्तो ऽयं मुक् अदुपदेशग्रहणेन गृह्यते इति अदुपदेशाद् इति लसार्वधातुकानुदत्तत्वं भवति । यद्य् एवम् आतो ङितः (*७,२।८१) इत्य् अयम् अपि चिधिः प्राप्नोति ? तपरनिर्देशान् न भविष्यति । मुकि सति अध्यर्धमात्रो भवति । लसार्वधातुकानुदात्तत्वम् अपि तर्हि न प्राप्नोति ? न+एष दोषः । उपदेशग्रहणं तत्र क्रियते । तेन उपदेशाद् ऊर्धं सत्य् अपि कालभेदे भवितव्यम् । तथा च पचवः, पचामः इत्य् अत्र अपि भवति ॥ ईदासः

āne parato 'ṅgasyātaḥ mugāgamo bhavati / pacamānaḥ / yajamānaḥ / akāramātrabhakto 'yaṃ muk adupadeśagrahaṇena gṛhyate iti adupadeśād iti lasārvadhātukānudattatvaṃ bhavati / yady evam āto ṅitaḥ (*7,2.81) ity ayam api cidhiḥ prāpnoti ? taparanirdeśān na bhaviṣyati / muki sati adhyardhamātro bhavati / lasārvadhātukānudāttatvam api tarhi na prāpnoti ? na+eṣa doṣaḥ / upadeśagrahaṇaṃ tatra kriyate / tena upadeśād ūrdhaṃ saty api kālabhede bhavitavyam / tathā ca pacavaḥ, pacāmaḥ ity atra api bhavati // īdāsaḥ

Sanskrit only: no published translation is held for this verse.

आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति । आसीनो यजते । अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते ॥ अष्टन आ विभक्तौ

āsaḥ uttarasya ānaśabdasya īkārādeśo bhavati / āsīno yajate / atra pañcamyāḥ parasya ṣaṣṭhī kalpyate // aṣṭana ā vibhaktau

Sanskrit only: no published translation is held for this verse.

रायो हलि

rāyo hali

Sanskrit only: no published translation is held for this verse.

रै इत्य् एतस्य हलादौ विभक्तौ परतः आकारादेशो भवति । राभ्याम् । राभिः । हलि इति किम् ? रायौ । रायः । विभक्तौ इति किम् ? रैत्वम् । रैता । मृजेर् वृद्धिः (*७,२।११४) इत्य् अतः प्राग् विभक्त्यधिकारः ॥ युष्मद्-अस्मदोर् अनादेशे

rai ity etasya halādau vibhaktau parataḥ ākārādeśo bhavati / rābhyām / rābhiḥ / hali iti kim ? rāyau / rāyaḥ / vibhaktau iti kim ? raitvam / raitā / mṛjer vṛddhiḥ (*7,2.114) ity ataḥ prāg vibhaktyadhikāraḥ // yuṣmad-asmador anādeśe

Sanskrit only: no published translation is held for this verse.

युष्मद् अस्मद् इत्य् एतयोः अनादेशे विभक्तौ परतः आकारादेशो भवति । युष्माभिः । अस्माभिः । युष्मासु । अस्मासु । अनादेशे इति किम् ? युष्मत् । अस्मत् । हलि इत्य् अधिकाराद् अप्य् अत्र न स्यात् । उत्तरत्र तु अनादेशग्रहणेन प्रयोजनम् यो ऽचि (*७,२।८९) इति, तद् इहैव क्रियते ॥ द्वितीयायां च

yuṣmad asmad ity etayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati / yuṣmābhiḥ / asmābhiḥ / yuṣmāsu / asmāsu / anādeśe iti kim ? yuṣmat / asmat / hali ity adhikārād apy atra na syāt / uttaratra tu anādeśagrahaṇena prayojanam yo 'ci (*7,2.89) iti, tad ihaiva kriyate // dvitīyāyāṃ ca

Sanskrit only: no published translation is held for this verse.

द्वितीयायां च परतः युष्मदस्मदोः आकारादेशो भवति । त्वाम् । माम् । युवाम् । आवाम् । युष्मान् । अस्मान् । आदेशार्थं वचनम् ॥ प्रथमायाश् च द्विवचने भाषायाम्

dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati / tvām / mām / yuvām / āvām / yuṣmān / asmān / ādeśārthaṃ vacanam // prathamāyāś ca dvivacane bhāṣāyām

Sanskrit only: no published translation is held for this verse.

प्रथमायाश् च द्विवचने परतो भाषायां विषये युष्मदस्मदोः आकारादेशो भवति । युवाम् । आवाम् । प्रथमायाः इति किम् ? युवयोः । आवयोः । द्विवचने इति किम् ? त्वम् । अहम् । यूयम् । वयम् । भाषायाम् इति किम् ? युवं वस्त्राणि पीवसा वसाथे ॥ यो ऽचि

prathamāyāś ca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati / yuvām / āvām / prathamāyāḥ iti kim ? yuvayoḥ / āvayoḥ / dvivacane iti kim ? tvam / aham / yūyam / vayam / bhāṣāyām iti kim ? yuvaṃ vastrāṇi pīvasā vasāthe // yo 'ci

Sanskrit only: no published translation is held for this verse.

अजादौ विभक्तौ अनादेशे युष्मदस्मदोः यकारादेशो भवति । त्वया । मया । त्वयि । मयि । युवयोः । आवयोः । अचि इति किम् ? युवाभ्याम् । आवाभ्याम् । युष्मदस्मदोर् अनादेशे (*७,२।८६) इत्य् अत्र यदि हलि इति अनुवर्तते, शक्यमकर्तुम् अचि इति एतत् ? तत् क्रियते विस्पष्टार्थम् । अनादेशे इत्य् एव । त्वद् गच्छति । मद् गच्छति ॥ शेषे लोपः

ajādau vibhaktau anādeśe yuṣmadasmadoḥ yakārādeśo bhavati / tvayā / mayā / tvayi / mayi / yuvayoḥ / āvayoḥ / aci iti kim ? yuvābhyām / āvābhyām / yuṣmadasmador anādeśe (*7,2.86) ity atra yadi hali iti anuvartate, śakyamakartum aci iti etat ? tat kriyate vispaṣṭārtham / anādeśe ity eva / tvad gacchati / mad gacchati // śeṣe lopaḥ

Sanskrit only: no published translation is held for this verse.

त्वम् । अहम् । यूयम् । वयम् । तुभ्यम् । मह्यम् । युष्मभ्यम् । अस्मभ्यम् । त्वत् । मत् । युष्मत् । अस्मत् । तव । मम । युष्माकम् । कस्माकम् । शेषग्रहणं विस्पष्टार्थम् । शेषे लोपे कृते स्त्रियां टाप् कस्मान् न भवति, त्वं ब्राह्मणी, अहं ब्राह्मणी ? स्न्निपातलक्षणो विधिर् अनिमित्तं तद्विघातस्य, अलिङ्गे वा युस्मदस्मदी इति । केचित् तु शेषे लोपं टिलोपम् इच्छन्ति । कथम् ? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते, तेन मपर्यन्ताद् यो ऽन्यः स शेषः इति । तत्र अयं लोपः इति टिलोपो भवति ॥ मपर्यन्तस्य

tvam / aham / yūyam / vayam / tubhyam / mahyam / yuṣmabhyam / asmabhyam / tvat / mat / yuṣmat / asmat / tava / mama / yuṣmākam / kasmākam / śeṣagrahaṇaṃ vispaṣṭārtham / śeṣe lope kṛte striyāṃ ṭāp kasmān na bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo vidhir animittaṃ tadvighātasya, aliṅge vā yusmadasmadī iti / kecit tu śeṣe lopaṃ ṭilopam icchanti / katham ? vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ sa śeṣaḥ iti / tatra ayaṃ lopaḥ iti ṭilopo bhavati // maparyantasya

Sanskrit only: no published translation is held for this verse.

मपर्यन्तस्य इत्य् अयम् अधिकारः । यदित ऊर्ध्वम् अनुक्रमिष्यामो मपर्यन्तस्य इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - युवावौ द्विवचने

maparyantasya ity ayam adhikāraḥ / yadita ūrdhvam anukramiṣyāmo maparyantasya ity evaṃ tad veditavyam / vakṣyati - yuvāvau dvivacane

Sanskrit only: no published translation is held for this verse.

यूयवयौ जसि

yūyavayau jasi

Sanskrit only: no published translation is held for this verse.

युष्मदस्मदोः मपर्यन्तस्य जसि परतो यूय वय इत्य् एताव् आदेशौ भवतः । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । तदन्तविधिर् अत्र भवति, अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति ॥ त्वाहौ सौ

yuṣmadasmadoḥ maparyantasya jasi parato yūya vaya ity etāv ādeśau bhavataḥ / yūyam / vayam / paramayūyam / paramavayam / atiyūyam / ativayam / tadantavidhir atra bhavati, aṅgādhikāre tasya ca taduttarapadasya ca iti // tvāhau sau

Sanskrit only: no published translation is held for this verse.

युष्मदस्मदोर् मपर्यन्तस्य सौ परे त्व अह इत्य् एतौ आदेशौ भवतः । त्वम् । अहम् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥ तुभ्य-मह्यौ ङयि

yuṣmadasmador maparyantasya sau pare tva aha ity etau ādeśau bhavataḥ / tvam / aham / paramatvam / paramāham / atitvam / atyaham // tubhya-mahyau ṅayi

Sanskrit only: no published translation is held for this verse.

युष्मदस्मदोः मपर्यन्तस्य तुभ्य मह्य इत्य् एताव् आदेशुअ भवतो ङयि परतः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् ॥ तव-ममौ ङसि

yuṣmadasmadoḥ maparyantasya tubhya mahya ity etāv ādeśua bhavato ṅayi parataḥ / tubhyam / mahyam / paramatubhyam / paramamahyam / atitubhyam / atimahyam // tava-mamau ṅasi

Sanskrit only: no published translation is held for this verse.

युष्मदस्मदोः मपर्यन्तस्य तव मम इत्य् एताव् आदेशौ भवतो ङसि परतः । तव । मम । परमतव । परममम । अतितव । अतिमम ॥ त्व-माव् एकवचने

yuṣmadasmadoḥ maparyantasya tava mama ity etāv ādeśau bhavato ṅasi parataḥ / tava / mama / paramatava / paramamama / atitava / atimama // tva-māv ekavacane

Sanskrit only: no published translation is held for this verse.

प्रत्यय-उत्तरपदयोश् च

pratyaya-uttarapadayoś ca

Sanskrit only: no published translation is held for this verse.

एकवचने इत्य् अनुवर्तते । प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर् मपर्यन्तस्य त्व म इत्य् एताव् आदेशौ भवतः । तवायं त्वदीयः । मदीयः । अतिशयेन त्वम् त्वत्तरः । मत्तरः । त्वाम् इच्छति त्वद्यति । मद्यति । त्वमिवाचरति त्वद्यते । मद्यते । उत्तरपदे - तव पुत्रः त्वत्पुत्रः । मत्पुत्रः । त्वं नाथो ऽस्य त्वन्नाथः । मन्नथः । एकवचने इत्य् एव, युष्माकमिदम् युष्मदीयम् । अस्मदीयम् । युष्माकं पुत्रः, अस्माकं पुत्रः युष्मत्पुत्रः, अस्मत्पुत्रः । विभक्तौ इत्य् अधिकारात् पूर्वयोगो विभक्ताव् एव । ततो ऽन्यत्र अपि प्रत्यये उत्तरपदे च यथा स्यात् इत्य् अयम् आरम्भः । ननु चात्राप्यन्तर्वर्तिनी विभक्तिर् अस्ति, तस्याम् एव आदेशौ भविस्यतः ? न+एवं शक्यम्, लुका तस्या भवितव्यम् । बहिरङ्गो लुक्, अन्तरङ्गौ आदेशौ, प्रथमं तौ भविष्यतः ? एतद् एव तर्हि आदेशवचनं ज्ञापकम् अन्तरङ्गान् अपि विधीन् बहिरङ्गो ऽपि लुक् बाधते इति । तेन गोमान् प्रियो ऽस्य गोमत्प्रियः इत्य् एवम् आदौ नुमादि लुका बाध्यते । एवं च सति त्वाहौ सौ (*७,२।९४) इत्य् एवम् आदयो ऽपि प्रत्ययोत्तर्पदयोर् आदेशा न भवन्ति । त्वं प्रधानम् एषां त्वत्प्रधानाः । मत्प्रधानाः । यूयं पुत्रा अस्य युष्मत्पुत्रः । अस्मत्पुत्रः तुभ्यं हितं त्वद्धितम् । मद्धितम् । तव पुत्रः त्वत्पुत्रः । मत्पुत्रः । अथ किमर्थ्म् एषां त्वाहादीनां बाधनार्थम् एतन् न विज्ञायते ? लक्ष्यस्थित्यपेक्षया । ज्ञाप्कार्थे ह्य् एतस्मिन् बहुतरमिष्टं सङ्गृह्यते ॥ त्रि-चतुरोः स्त्रियां तिसृ-चतसृ

ekavacane ity anuvartate / pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ / tavāyaṃ tvadīyaḥ / madīyaḥ / atiśayena tvam tvattaraḥ / mattaraḥ / tvām icchati tvadyati / madyati / tvamivācarati tvadyate / madyate / uttarapade - tava putraḥ tvatputraḥ / matputraḥ / tvaṃ nātho 'sya tvannāthaḥ / mannathaḥ / ekavacane ity eva, yuṣmākamidam yuṣmadīyam / asmadīyam / yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, asmatputraḥ / vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva / tato 'nyatra api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ / nanu cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? na+evaṃ śakyam, lukā tasyā bhavitavyam / bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate iti / tena gomān priyo 'sya gomatpriyaḥ ity evam ādau numādi lukā bādhyate / evaṃ ca sati tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā na bhavanti / tvaṃ pradhānam eṣāṃ tvatpradhānāḥ / matpradhānāḥ / yūyaṃ putrā asya yuṣmatputraḥ / asmatputraḥ tubhyaṃ hitaṃ tvaddhitam / maddhitam / tava putraḥ tvatputraḥ / matputraḥ / atha kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā / jñāpkārthe hy etasmin bahutaramiṣṭaṃ saṅgṛhyate // tri-caturoḥ striyāṃ tisṛ-catasṛ

Sanskrit only: no published translation is held for this verse.

प्रियत्री, प्रियत्रयः । प्रियचत्वा, प्रियचत्वारौ, प्रियचत्वारः । तिसृभावे सञ्ज्ञायां कन्युपसङ्ख्यानं कर्तव्यम् । तिसृका नाम ग्रामः । चतसर्याद्युदात्तनिपातनं कर्तव्यम् । चतस्त्रः पश्य इत्य् अत्र चतुरः शसि (*६,१।१३७) इत्य् एष स्वरो मा भूत् । चतसृणाम् इत्य् अत्र तु षट्त्रिचतुर्भ्यो हलादिः (*६,१।१७९) इत्य् एव स्वरो भवति । हलादिग्रहणसामर्थ्यान् निपातनस्वरो बाध्यते ॥ अचि र ऋतः

priyatrī, priyatrayaḥ / priyacatvā, priyacatvārau, priyacatvāraḥ / tisṛbhāve sañjñāyāṃ kanyupasaṅkhyānaṃ kartavyam / tisṛkā nāma grāmaḥ / catasaryādyudāttanipātanaṃ kartavyam / catastraḥ paśya ity atra caturaḥ śasi (*6,1.137) ity eṣa svaro mā bhūt / catasṛṇām ity atra tu ṣaṭtricaturbhyo halādiḥ (*6,1.179) ity eva svaro bhavati / halādigrahaṇasāmarthyān nipātanasvaro bādhyate // aci ra ṛtaḥ

Sanskrit only: no published translation is held for this verse.

तिसृ चतसृ इत्य् एतयोः ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः । तिस्रः तिष्ठन्ति । तिस्रः पश्य । चतस्रः तिष्ठन्ति । चतस्रः पश्य । प्रियतिस्रः आनय । प्रियातस्रः आनय । प्रियतिस्रः स्वम् । प्रियचतस्रः स्वम् । प्रियतिस्रि निधेहि । प्रियचतस्रि निर्धेहि । पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानाम् अपवादः । परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते । अचि इति किम् ? तिसृभिः । चतसृभिः । ऋतः इति किम् ? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादः त्रिचतुरोर् एव अयम् आदेशो विज्ञायेत ॥ जराया जरस् अन्यतरस्याम्

tisṛ catasṛ ity etayoḥ ṛtaḥ sthāne rephādeśo bhavati ajādau vibhaktau parataḥ / tisraḥ tiṣṭhanti / tisraḥ paśya / catasraḥ tiṣṭhanti / catasraḥ paśya / priyatisraḥ ānaya / priyātasraḥ ānaya / priyatisraḥ svam / priyacatasraḥ svam / priyatisri nidhehi / priyacatasri nirdhehi / pūrvasavarṇottvaṅisarvanāmasthānaguṇānām apavādaḥ / paramapi ṅisarvanāmasthānaguṇaṃ pūrvavipratiṣedhena bādhate / aci iti kim ? tisṛbhiḥ / catasṛbhiḥ / ṛtaḥ iti kim ? tisṛcatasroḥ pratipattyartham, anyathā hi tadapavādaḥ tricaturor eva ayam ādeśo vijñāyeta // jarāyā jaras anyatarasyām

Sanskrit only: no published translation is held for this verse.

त्यदादीनाम् अः

tyadādīnām aḥ

Sanskrit only: no published translation is held for this verse.

त्यद् इत्य् एवम् आदीनाम् अकारादेशो भवति विभक्तौ परतः । त्यद् - स्यः, त्यौ, त्ये । तद् - सः, तौ, ते । यद् - यः, यौ, ये । एतद् - एषः, एतौ, एते । इदम् - अयम्, इमौ, इमे । अदस् - असौ, अमू, अमी । द्वि - द्वौ । द्वाभ्याम् । द्विपर्यन्तानां त्यदादीनामत्वमिष्यते । इह न भवति, भवत् - भवान् । सञ्ज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः । अतित्यद्, अतित्यदौ, अतित्यदः । त्यदादिप्रधाने तु शब्दे भवत्य् एव, परमसः परमतौ, पर्मते ॥ किमः कः

tyad ity evam ādīnām akārādeśo bhavati vibhaktau parataḥ / tyad - syaḥ, tyau, tye / tad - saḥ, tau, te / yad - yaḥ, yau, ye / etad - eṣaḥ, etau, ete / idam - ayam, imau, ime / adas - asau, amū, amī / dvi - dvau / dvābhyām / dviparyantānāṃ tyadādīnāmatvamiṣyate / iha na bhavati, bhavat - bhavān / sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, tyadaḥ / atityad, atityadau, atityadaḥ / tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, parmate // kimaḥ kaḥ

Sanskrit only: no published translation is held for this verse.

किम् इत्य् एतस्य कः इत्य् अयम् आदेशो भवति विभक्तौ परतः । कः, कौ, के । साकच्कस्य अप्य् अयम् आदेशो भवति, तेन अकार एव किमो न विधीयते किमो ऽत् (*५,३।१२) इति ॥ कु ति-होः

kim ity etasya kaḥ ity ayam ādeśo bhavati vibhaktau parataḥ / kaḥ, kau, ke / sākackasya apy ayam ādeśo bhavati, tena akāra eva kimo na vidhīyate kimo 't (*5,3.12) iti // ku ti-hoḥ

Sanskrit only: no published translation is held for this verse.

तकारादौ हकारादौ च विभक्तौ परतः किम् इत्य् एतस्य कु इत्य् अयम् आदेशो भवति । कुतः । कुत्र । कुह । तिहोः इति इकारः उच्चारणार्थः ॥ क्व अति

takārādau hakārādau ca vibhaktau parataḥ kim ity etasya ku ity ayam ādeśo bhavati / kutaḥ / kutra / kuha / tihoḥ iti ikāraḥ uccāraṇārthaḥ // kva ati

Sanskrit only: no published translation is held for this verse.

अति तिय् एतस्यां विभक्तौ परतः किम् इत्य् एतस्य क्व इत्य् अयम् आदेशो भवति । क्व गमिष्यसि । क्व भोक्ष्यते । आदेशान्तरवचनम् ओर्गुण निवृत्त्यर्थम् । किमो ड्वत् इति प्रत्ययान्तरं न विधीयते, साकच्कार्थम् ॥ तदोः सः सावनन्त्ययोः

ati tiy etasyāṃ vibhaktau parataḥ kim ity etasya kva ity ayam ādeśo bhavati / kva gamiṣyasi / kva bhokṣyate / ādeśāntaravacanam orguṇa nivṛttyartham / kimo ḍvat iti pratyayāntaraṃ na vidhīyate, sākackārtham // tadoḥ saḥ sāvanantyayoḥ

Sanskrit only: no published translation is held for this verse.

त्यदादीनां तकार-दकारयोः अनन्त्ययोः सकारादेशो भवति सौ परतः । त्यद् - स्यः । तद् - सः । एतद् - एषः । अदस् - असौ । अनन्त्ययोः इति किम् ? हे स । सा ॥ अदस औ सुलोपश् च

tyadādīnāṃ takāra-dakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ / tyad - syaḥ / tad - saḥ / etad - eṣaḥ / adas - asau / anantyayoḥ iti kim ? he sa / sā // adasa au sulopaś ca

Sanskrit only: no published translation is held for this verse.

औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च । यदा च औत्वप्रतिषेधः तदा सकाराद् उत्तरस्य उत्वं भवति । असुकः । असुकौ । उत्तरपदभूतानां त्यदादीनाम् अकृतसन्धीनाम् आदेशा वक्तव्याः । परमाहम् । परमायम् । परमानेन । अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते । ह्रस्वाल् लुप्येत सम्बुद्धिर् न हलः प्रकृतं हि तत् ॥ आप एत्वं भवेत् तस्मिन् न झलीत्यनुवर्तनात् । प्रत्ययस्थाच्च कादित्वं शीभावश् च प्रसज्यते ॥ इदमो मः

autvapratiṣedhaḥ sākackād vā vaktavyaḥ sādutvaṃ ca / yadā ca autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ bhavati / asukaḥ / asukau / uttarapadabhūtānāṃ tyadādīnām akṛtasandhīnām ādeśā vaktavyāḥ / paramāham / paramāyam / paramānena / adasaḥ sorbhavedautvaṃ kiṃ sulopo vidhīyate / hrasvāl lupyeta sambuddhir na halaḥ prakṛtaṃ hi tat // āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt / pratyayasthācca kāditvaṃ śībhāvaś ca prasajyate // idamo maḥ

Sanskrit only: no published translation is held for this verse.

इदमः सौ परतः मकारो ऽन्तादेशो भवति । इयम् । अयम् । इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ॥ दश् च

idamaḥ sau parataḥ makāro 'ntādeśo bhavati / iyam / ayam / idamo makārasya makāravacanaṃ tyadādyatvabādhanārtham // daś ca

Sanskrit only: no published translation is held for this verse.

इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः । इमौ, इमे । इमम्, इमौ, इमान् ॥ यः सौ

idamo dakārasya sthāne makārādeśo bhavati vibhaktau parataḥ / imau, ime / imam, imau, imān // yaḥ sau

Sanskrit only: no published translation is held for this verse.

इदमो मकारस्य यकारादेशो भवति सौ परतः । इयम् । उत्तरसूत्रे पुंसि इति वचनात् स्त्रियामयं यकारः ॥ इदो ऽय् पुंसि

idamo makārasya yakārādeśo bhavati sau parataḥ / iyam / uttarasūtre puṃsi iti vacanāt striyāmayaṃ yakāraḥ // ido 'y puṃsi

Sanskrit only: no published translation is held for this verse.

इदमः इदरूपस्य पुंसि सौ परतः अय् इत्य् अयम् आदेशो भवति । अयं ब्राह्मणः । पुंसि इति किम् ? इयं ब्राह्मणी ॥ अन-आप्य् अकः

idamaḥ idarūpasya puṃsi sau parataḥ ay ity ayam ādeśo bhavati / ayaṃ brāhmaṇaḥ / puṃsi iti kim ? iyaṃ brāhmaṇī // ana-āpy akaḥ

Sanskrit only: no published translation is held for this verse.

हलि लोपः

hali lopaḥ

Sanskrit only: no published translation is held for this verse.

हलादौ विभक्तौ परतः इदमो ऽककारस्य इद्रूपस्य लोपो भवति । आभ्याम् । एभिः । एभ्यः । एषाम् । एषु । नानर्थके ऽलोन्त्यविधिः इति सर्वस्य अयम् इद्रूपस्य लोपः । अथ वा न अयम् इल्लोपः । अनाप्यकः (*७,२।११२) इति अङ्ग्रहणम् अनुवर्तते ॥ मृजेर् वृद्धिः

halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bhavati / ābhyām / ebhiḥ / ebhyaḥ / eṣām / eṣu / nānarthake 'lontyavidhiḥ iti sarvasya ayam idrūpasya lopaḥ / atha vā na ayam illopaḥ / anāpyakaḥ (*7,2.112) iti aṅgrahaṇam anuvartate // mṛjer vṛddhiḥ

Sanskrit only: no published translation is held for this verse.

विभक्तौ इति निवृत्तम् । मृजेर् अङ्गस्य इको वृद्धिर् भवति । मार्ष्टा । मार्ष्टुम् । मार्ष्टव्यम् । मृजेर् इति धातुग्रहणम् इदम्, धातोश् च कार्यम् उच्यमानं धातुप्रत्यय एव वेदितव्यम् । तेन किंसपरिमृड्भ्याम्, कंसपरिमृड्भिः इत्य् अत्र न भवति ॥ अचो ञ्णिति

vibhaktau iti nivṛttam / mṛjer aṅgasya iko vṛddhir bhavati / mārṣṭā / mārṣṭum / mārṣṭavyam / mṛjer iti dhātugrahaṇam idam, dhātoś ca kāryam ucyamānaṃ dhātupratyaya eva veditavyam / tena kiṃsaparimṛḍbhyām, kaṃsaparimṛḍbhiḥ ity atra na bhavati // aco ñṇiti

Sanskrit only: no published translation is held for this verse.

अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर् भवति । ञिति - एकस्तण्डुलनिश्चायः । द्वौ शूर्पनिष्पावौ । कारः । हारः । णिति - गौः, गावौ, गावः । सखायौ, सखायः । जैत्रम् । यौत्रम् । च्यौत्नः । जयतेर् यौतेश् च उणादयो बहुलम् (*३,३।१) इति ष्ट्रन् प्रत्ययः । च्यवतेर् अपि त्नण् ॥ अत उपधायाः

ajantasya aṅgasya ñiti ṇiti ca pratyaye vṛddhir bhavati / ñiti - ekastaṇḍulaniścāyaḥ / dvau śūrpaniṣpāvau / kāraḥ / hāraḥ / ṇiti - gauḥ, gāvau, gāvaḥ / sakhāyau, sakhāyaḥ / jaitram / yautram / cyautnaḥ / jayater yauteś ca uṇādayo bahulam (*3,3.1) iti ṣṭran pratyayaḥ / cyavater api tnaṇ // ata upadhāyāḥ

Sanskrit only: no published translation is held for this verse.

अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर् भवति । पाकः । त्यागः । यागः । पाचयति । पाचकः । पाठयति । पाठकः । अतः इति किम् ? भेदयति । भेदकः । उपधायाः इति किम् ? चकासयति तक्षकः ॥ तद्धितेष्व् अचाम् आदेः

aṅgopadhāyā akārasya sthāne ñiti ṇiti ca pratyaye vṛddhir bhavati / pākaḥ / tyāgaḥ / yāgaḥ / pācayati / pācakaḥ / pāṭhayati / pāṭhakaḥ / ataḥ iti kim ? bhedayati / bhedakaḥ / upadhāyāḥ iti kim ? cakāsayati takṣakaḥ // taddhiteṣv acām ādeḥ

Sanskrit only: no published translation is held for this verse.

तद्धिते ञिति णिति च प्रत्यये परतो ऽङ्गस्य अचाम् आदेः अचः स्थाने वृद्धिर् भवति । गार्ग्यः । वात्स्यः । दाक्षिः । प्लाक्षिः । णिति - औपगवः । कापटवः । त्वाष्ट्रः, जागतः इत्य् अत्र अचामादेर् वृद्धिर् अन्त्योपधालक्षणां वृद्धिं बाधते ॥ किति च

taddhite ñiti ṇiti ca pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne vṛddhir bhavati / gārgyaḥ / vātsyaḥ / dākṣiḥ / plākṣiḥ / ṇiti - aupagavaḥ / kāpaṭavaḥ / tvāṣṭraḥ, jāgataḥ ity atra acāmāder vṛddhir antyopadhālakṣaṇāṃ vṛddhiṃ bādhate // kiti ca

Sanskrit only: no published translation is held for this verse.