हकारान्तानां मकारान्तानां यकारान्तानाम् अङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्य् एतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर् न भवति । ग्रह - अग्रहीत् । स्यम - अस्यमीत् । व्यय - अव्ययीत् । टुवम - अवमीत् । क्षण - अक्षणीत् । श्वस - अश्वसीत् । जागृ - अजागरीत् । णि - औनयीत् । ऐलयीत् । श्वि - अश्वयीत् । एदिताम् - रगे - अरगीत् । कखे - अकखीत् । ह्म्यन्तक्षणश्वसाम् एदिताम् च अतो हलादेर् लघोः (*७,२।७) इति विकल्पे प्राप्ते प्रतिषेधः । जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि (*७,२।४) इति न प्रतिषिध्यते । न च अन्तरङ्गत्वाद् अत्र पूर्वं गुणो भवति, सिचि वृद्धेर् अनवकाशत्वात् । यदि पूर्वं गुणः स्याद् इह णिश्विग्रहणम् अनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वाद् एव प्रतिषेधस्य सिद्धत्वात् । तस्माद् इदम् एव श्विग्रहणं ज्ञापकम् न सिद्यन्तरङ्गम् अस्ति इति । अथ जागृग्रहणम् किमर्थम्, जाग्रो ऽवि-चिण्-णल्-ङित्सु (*७,३।८५) इति जागर्तेर् गुणो वृद्धेर् अपवादो विधीयते, स यथा अचो ञ्णिति (*६,२।११५) इति वृद्धिं बाधते तथा सिचि वृद्धिम् अपि बाधिष्यते ? न+एतद् अस्ति । कृते गुणे अतो ल्रान्तस्य (*७,२।२) इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते । अथ गुणविधानसमर्थ्याद् उत्तरकालभाविन्यपि वृद्धिर् बाध्यते, यथा जागरयति इत्य् अत्र अत उपधायाः (*७,१।११३) इत्य् अपि वृद्धिर् न भवति, तथा चिण्णलोः प्रतिषेधो ऽर्थवान् भवति इति शक्यम् इह जागृग्रहणम् अकर्तुम् ? तत् तु क्रियते विस्पष्टार्थम् ॥ ऊर्णोतेर् विभाषा
hakārāntānāṃ makārāntānāṃ yakārāntānām aṅgānām, kṣaṇa śvasa jāgṛ ṇi śvi ity eteṣām, editāṃ ca iḍādau sici parasmaipade parato vṛddhir na bhavati / graha - agrahīt / syama - asyamīt / vyaya - avyayīt / ṭuvama - avamīt / kṣaṇa - akṣaṇīt / śvasa - aśvasīt / jāgṛ - ajāgarīt / ṇi - aunayīt / ailayīt / śvi - aśvayīt / editām - rage - aragīt / kakhe - akakhīt / hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ / jāgṛṇiśvīnāṃ tu sici vṛddhiḥ prāptā, sā ca neṭi (*7,2.4) iti na pratiṣidhyate / na ca antaraṅgatvād atra pūrvaṃ guṇo bhavati, sici vṛddher anavakāśatvāt / yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kṛtayoḥ yakārantatvād eva pratiṣedhasya siddhatvāt / tasmād idam eva śvigrahaṇaṃ jñāpakam na sidyantaraṅgam asti iti / atha jāgṛgrahaṇam kimartham, jāgro 'vi-ciṇ-ṇal-ṅitsu (*7,3.85) iti jāgarter guṇo vṛddher apavādo vidhīyate, sa yathā aco ñṇiti (*6,2.115) iti vṛddhiṃ bādhate tathā sici vṛddhim api bādhiṣyate ? na+etad asti / kṛte guṇe ato lrāntasya (*7,2.2) iti ya vṛddhiḥ prāpnoti sā pratiṣidhyate / atha guṇavidhānasamarthyād uttarakālabhāvinyapi vṛddhir bādhyate, yathā jāgarayati ity atra ata upadhāyāḥ (*7,1.113) ity api vṛddhir na bhavati, tathā ciṇṇaloḥ pratiṣedho 'rthavān bhavati iti śakyam iha jāgṛgrahaṇam akartum ? tat tu kriyate vispaṣṭārtham // ūrṇoter vibhāṣā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.