सम्बुद्धौ इति वर्तते । अम्बार्थनाम् अङ्गानां नद्यन्तानां ह्रस्वो भवति सम्बुद्धौ परतः । हे अम्ब । हे अक्क । हे अल्ल । नद्याः खल्व् अपि - हे कुमारि । हे शार्ङ्गरवि । हे ब्रह्मबन्धु । हे वीरबन्धु । डलकवतीनां प्रतिषेधो वक्तव्यः । हे अम्बाडे । हे अम्बाले । हे अम्बिके । छन्दसि वेति वक्तव्यम् । हे अम्बाड, हे अम्बाडे । हे अम्बाल, हे अम्बाले । हे अम्बिक, हे अम्बिके । तलो ह्रस्वो बा ङिसम्बुद्ध्योर् इति वक्तव्यम् । देवते भक्तिः, देवतायां भक्तिः । हे देवत, हे देवते । छन्दस्येव ह्रस्वत्वम् इष्यते । मातॄणां मातच् पुत्रार्थम् अर्हते । मातॄणां मातजादेशो वक्तव्यः सम्बुद्धौ, पुत्राय पुत्रम् अभिधातुम् । कीदृशाय ? अर्हते । मात्रा व्यपदेशम् अर्हति श्लाघनीयत्वाद् यः पुत्रस् तदर्थम् । हे गार्गीमात । नद्यृतश् च (*५,४।१५३) इति समासान्तापवादो मातजादेशः । चित्करणम् अन्तोदात्तार्थम् ॥ ह्रस्वस्य गुणः
sambuddhau iti vartate / ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ / he amba / he akka / he alla / nadyāḥ khalv api - he kumāri / he śārṅgaravi / he brahmabandhu / he vīrabandhu / ḍalakavatīnāṃ pratiṣedho vaktavyaḥ / he ambāḍe / he ambāle / he ambike / chandasi veti vaktavyam / he ambāḍa, he ambāḍe / he ambāla, he ambāle / he ambika, he ambike / talo hrasvo bā ṅisambuddhyor iti vaktavyam / devate bhaktiḥ, devatāyāṃ bhaktiḥ / he devata, he devate / chandasyeva hrasvatvam iṣyate / mātṝṇāṃ mātac putrārtham arhate / mātṝṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram abhidhātum / kīdṛśāya ? arhate / mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham / he gārgīmāta / nadyṛtaś ca (*5,4.153) iti samāsāntāpavādo mātajādeśaḥ / citkaraṇam antodāttārtham // hrasvasya guṇaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.