घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति । अग्नये । वायवे । अग्नेरागच्छति । वायोरागच्छति । अग्नेः स्वम् । वायोः स्वम् । घेः इति किम् ? सख्ये । पत्ये । ङिति इति किम् ? अग्निभ्याम् । सुपि इत्येव, पट्वी । कुरुतः ॥ आण् नद्याः
ghyantasyāṅgasya ṅiti pratyaye parato guṇo bhavati / agnaye / vāyave / agnerāgacchati / vāyorāgacchati / agneḥ svam / vāyoḥ svam / gheḥ iti kim ? sakhye / patye / ṅiti iti kim ? agnibhyām / supi ityeva, paṭvī / kurutaḥ // āṇ nadyāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.