भुज न्युबज् इत्य् एतौ शब्दौ निपात्येते पाणौ उपतापे च । भुज्यते अनेन इति भुजः पाणिः । हलश् च (*३,३।१२१) इति घञ् । तत्र कुत्वाभावो गुणाभावश् च निपात्यते । उब्ज आर्जवे । न्युब्जिताः शेरते ऽस्मिन्न् इति न्युब्जः उपतापः, रोगः । तथैव घञि कुत्वाभावो निपात्यते । पाण्युपतापयोः इति किम् ? भोगः । समुद्गः ॥ प्रयाज-अनुयाजौ यज्ञाङ्गे
bhuja nyubaj ity etau śabdau nipātyete pāṇau upatāpe ca / bhujyate anena iti bhujaḥ pāṇiḥ / halaś ca (*3,3.121) iti ghañ / tatra kutvābhāvo guṇābhāvaś ca nipātyate / ubja ārjave / nyubjitāḥ śerate 'sminn iti nyubjaḥ upatāpaḥ, rogaḥ / tathaiva ghañi kutvābhāvo nipātyate / pāṇyupatāpayoḥ iti kim ? bhogaḥ / samudgaḥ // prayāja-anuyājau yajñāṅge
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.