शमादीनाम् अष्टानां दीर्घो भवति श्यनि परतः । शम् - शाम्यति । तम् - ताम्यति । दम् - दाम्यति । भ्रम् - भ्राम्यति । क्षम् - क्षाम्यति । क्लम् - क्लाम्यति । मदी - माद्यति । अष्टानाम् इति किम् ? अस्यति । श्यनि इति किम् ? भ्रमति । वा भ्राश इति श्यनो विकल्पः । बभ्राम ॥ ष्ठिवु-क्लम्य्-आचमां शिति
śamādīnām aṣṭānāṃ dīrgho bhavati śyani parataḥ / śam - śāmyati / tam - tāmyati / dam - dāmyati / bhram - bhrāmyati / kṣam - kṣāmyati / klam - klāmyati / madī - mādyati / aṣṭānām iti kim ? asyati / śyani iti kim ? bhramati / vā bhrāśa iti śyano vikalpaḥ / babhrāma // ṣṭhivu-klamy-ācamāṃ śiti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.