पू इत्य् एवम् आदीनां ह्रस्वो भवति शिति परतः । प्वादयः क्र्यादिषु पठ्यन्ते । पूञ् पवन् इत्य् अतः प्रभृति प्ली गतौ वृत् इति यावत् केचित् इच्छन्ति, वृत्करणम् एतत् ल्वादीनां प्वादीनां च परिसमाप्त्यर्थम् इति । अपरे तु ल्वादीनाम् एव परिसमाप्त्यर्थं वृत्करणम् एतद् इच्छन्ति, आगणान्ताः प्वादयः इति । पूञ् - पुनाति । लूञ् - लुनाति । स्तॄञ् - स्तृणाति । येषाम् आगणान्ताः प्वादयः तेषां जानाति इत्य् अत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर् जा (*७,३।७९) इति दीर्घकरणसामर्थ्यान् न भवति । जनेर् अपि हि जादेशे सति अतो दीर्घो यञि (*७,३।१०१) इति दीर्घत्वेन जायते इति सिध्यति ॥ मीनातेर् निगमे
pū ity evam ādīnāṃ hrasvo bhavati śiti parataḥ / pvādayaḥ kryādiṣu paṭhyante / pūñ pavan ity ataḥ prabhṛti plī gatau vṛt iti yāvat kecit icchanti, vṛtkaraṇam etat lvādīnāṃ pvādīnāṃ ca parisamāptyartham iti / apare tu lvādīnām eva parisamāptyarthaṃ vṛtkaraṇam etad icchanti, āgaṇāntāḥ pvādayaḥ iti / pūñ - punāti / lūñ - lunāti / stṝñ - stṛṇāti / yeṣām āgaṇāntāḥ pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ prāpnoti, jñājanor jā (*7,3.79) iti dīrghakaraṇasāmarthyān na bhavati / janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) iti dīrghatvena jāyate iti sidhyati // mīnāter nigame
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.