उपसर्गाद् उत्तरस्य उहतेर् अङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः । समुह्यते । समुह्य गतः । अभ्युह्यते । अभ्युह्य गतः । उपसर्गात् इति किम् ? ऊह्यते । ऊहतेः इति किम् ? समीह्यते । यि इत्य् एव, समूहितम् । क्ङिति इत्य् एव, समूह्यो ऽयम् अर्थः । अणः इत्य् एव, आ ऊह्यते ओह्यते । समोह्यते ॥ एतेर् लिगि
upasargād uttarasya uhater aṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ / samuhyate / samuhya gataḥ / abhyuhyate / abhyuhya gataḥ / upasargāt iti kim ? ūhyate / ūhateḥ iti kim ? samīhyate / yi ity eva, samūhitam / kṅiti ity eva, samūhyo 'yam arthaḥ / aṇaḥ ity eva, ā ūhyate ohyate / samohyate // eter ligi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.