अकृद्यकारे असार्वधातुकयकारे च क्ङिति परतो ऽजन्तस्य अङ्गस्य दीर्घो भवति । भृशायते । सुखायते । दुःखायते । चीयते । चेचीयते । स्तूयते । तोष्टूयते । चीयात् । स्तूयात् । अकृत् इति किम् ? प्रकृत्य । प्रहृत्य । परत्वात् दीर्घत्वेन तुको बाधः स्यात् । असार्वधातुके इति किम् ? चिनुयात् । सुनुयात् । क्ङिति इत्य् एव, उरुया । धृष्णुया ॥ च्वौ च
akṛdyakāre asārvadhātukayakāre ca kṅiti parato 'jantasya aṅgasya dīrgho bhavati / bhṛśāyate / sukhāyate / duḥkhāyate / cīyate / cecīyate / stūyate / toṣṭūyate / cīyāt / stūyāt / akṛt iti kim ? prakṛtya / prahṛtya / paratvāt dīrghatvena tuko bādhaḥ syāt / asārvadhātuke iti kim ? cinuyāt / sunuyāt / kṅiti ity eva, uruyā / dhṛṣṇuyā // cvau ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.