अजन्ताद् उपसर्गादुत्तरस्य दा इत्य् एतस्य घुसंज्ञकस्य त इत्य् अयम् आदेशो भवति तकारादौ किति । प्रत्तम् । अवत्तम् । नीत्तम् । परीत्तम् । अचः इति किम् ? निर्दत्तम् । दुर्दत्तम् । उपसर्गात् इति किम् ? दधि दत्तम् । मधु दत्तम् । घोः इत्य् एव, अवदातम् मुखम् । उपसर्गात् इति पच्चमीनिर्देशाद् आदेर् अलः प्राप्नोति ? तत्र समाधिमाहुः । अचः इत्य् एतद् द्विरावर्तयितव्यम्, तत्र एकं पच्चम्यन्तं उपसर्गविशेषणार्थम्, अपरम् अपि षष्ठ्यन्तं स्थानिनिर्देशर्थम् इत्य् आकारस्य स्थाने तकारो भवति । द्वितकारो वा संयोगो ऽयम् आदिश्यते, सो ऽनेकाल्त्वात् सर्वस्य भविष्यति । अपो भि (*७,४।४८) इत्य् अत्र पञ्चम्यन्तम् अचः इत्य् अनुवर्तते । तेन पकारमात्रस्य भविस्यति । द्यतेर् इत्त्वाद् अचस्त इत्य् एतद् भवति विप्रतिषेधेन । अवत्तम् । प्रत्तं जुहोति ॥ अपो भि
ajantād upasargāduttarasya dā ity etasya ghusaṃjñakasya ta ity ayam ādeśo bhavati takārādau kiti / prattam / avattam / nīttam / parīttam / acaḥ iti kim ? nirdattam / durdattam / upasargāt iti kim ? dadhi dattam / madhu dattam / ghoḥ ity eva, avadātam mukham / upasargāt iti paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ / acaḥ ity etad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ sthāninirdeśartham ity ākārasya sthāne takāro bhavati / dvitakāro vā saṃyogo 'yam ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati / apo bhi (*7,4.48) ity atra pañcamyantam acaḥ ity anuvartate / tena pakāramātrasya bhavisyati / dyater ittvād acasta ity etad bhavati vipratiṣedhena / avattam / prattaṃ juhoti // apo bhi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.