यकारादौ इवर्णादौ च परतो दीधीवेव्योः लोपो भवति । यकारादौ - आदीध्य गतः । आवेव्य गतः आदीध्यते । आवेव्यते । इवर्णादौ - आदीधिता । आवेविता । लिङि - आदीधीत । आवेवीत । यीवर्णयोः इति किम् ? आदीध्यनम् । आवेव्यनम् ॥ सनि मी-मा-घु-रभ-लभ-शक-पत-पदाम् अच इस्
yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati / yakārādau - ādīdhya gataḥ / āvevya gataḥ ādīdhyate / āvevyate / ivarṇādau - ādīdhitā / āvevitā / liṅi - ādīdhīta / āvevīta / yīvarṇayoḥ iti kim ? ādīdhyanam / āvevyanam // sani mī-mā-ghu-rabha-labha-śaka-pata-padām aca is
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.