न इति वर्तते । यत् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र इत्य् एतैर् निपातैर् युक्तं तिङन्तं नानुदात्तं भवति । यत् - यत् करोति । यत् पचति । यदि - यदि करोति । यदि पचति । हन्त - हन्त करोति । नेत् - नेज् जिह्मायन्त्यो नरकं पताम् । चेत् - स चेद् भुङ्क्ते । स चेद् अधीते । चण् - णिद्विशिष्टो ऽयं चेदर्थे वर्तते । अयं च मरिष्यति । अयं चेन्मरिष्यति इत्य् अर्थः । समुच्चयादिषु तु यः चशब्दः, तेन योगेन विधिर् अयं न भवति । कच्चित् -कच्चिद् भुङ्क्ते । कच्चिद् अधीते । यत्र - यत्र भुङ्क्ते । यत्र अधीते । निपातैः इति किम् ? यत् कूजति शकटम् । गच्छत् कूजति शकटम् इत्य् अर्थः । इणः शतरि रूपम् एतत् । युक्तम् इति किम् ? यत्र क्व च ते मनो दक्षं दधस उत्तरम् ॥ नह प्रत्यारम्भे
na iti vartate / yat yadi hanta kuvit net cet caṇ kaccit yatra ity etair nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati / yat - yat karoti / yat pacati / yadi - yadi karoti / yadi pacati / hanta - hanta karoti / net - nej jihmāyantyo narakaṃ patām / cet - sa ced bhuṅkte / sa ced adhīte / caṇ - ṇidviśiṣṭo 'yaṃ cedarthe vartate / ayaṃ ca mariṣyati / ayaṃ cenmariṣyati ity arthaḥ / samuccayādiṣu tu yaḥ caśabdaḥ, tena yogena vidhir ayaṃ na bhavati / kaccit -kaccid bhuṅkte / kaccid adhīte / yatra - yatra bhuṅkte / yatra adhīte / nipātaiḥ iti kim ? yat kūjati śakaṭam / gacchat kūjati śakaṭam ity arthaḥ / iṇaḥ śatari rūpam etat / yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram // naha pratyārambhe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.