मतोः इह कार्यित्वेन उपादानात् सामर्थ्यलब्धं प्रातिपदिकं तत् मात् इति मकारावर्णाभ्यां विशिष्यते । मकारावर्णविशिष्टया च उपधया इत्य् अयम् अर्थो भवति । मकारान्तात् मकारोपधात् अवर्णान्ताद् अवर्णोपधात् च उत्तरस्य मतोः वः इत्य् अयम् आदेशो भवति, यवादिभ्यस् तु परतो न भवति । मकारान्तात् तावत् किंवान् । शंवान् । मकारोपधात् - शमीवान् । दाडिमीवान् । अवर्णान्तात् - वृक्षवान् । प्लक्षवान् । खट्वावान् । मालावान् । अवर्णोपधात् - पयस्वान् । यशस्वान् । भास्वान् । मादुपधायाश् च इति किम् ? अग्निमात् । वायुमान् । अयवादिभ्यः इति किम् ? यवमान् । दल्मिमान् । ऊर्मिमान् । यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा । वशा । द्राक्षा । एतेषां मादुपधायाश् च । इति प्राप्नोति । ध्रजि, ध्वजि, सञ्जि इत्य् एतेषां छन्दसीरः (*८,२।१५) इति । हरित्, ककुत्, गरुत् इत्य् एतेषां झयः (*८,२।१०) इति । इक्षु, मधु, द्रुम, मण्ड, धूम इत्य् एतेषां सञ्ज्ञायाम् (*८,२।११) इति । आकृतिगणश् च यवादिः । अकृतवत्त्वो मतुब् यवादिषु द्रष्टव्यः । यस्य सति निमित्ते मतुपो वत्त्वं न दृश्यते स यवादिषु द्रष्टव्यः इह नृमतः इदं नार्मतम् इति बहिरङ्गलक्षणत्वात् अवर्णोपधस्य मतुपो वत्त्वं न भवति ॥ झयः
matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate / makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati / makārāntāt makāropadhāt avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, yavādibhyas tu parato na bhavati / makārāntāt tāvat kiṃvān / śaṃvān / makāropadhāt - śamīvān / dāḍimīvān / avarṇāntāt - vṛkṣavān / plakṣavān / khaṭvāvān / mālāvān / avarṇopadhāt - payasvān / yaśasvān / bhāsvān / mādupadhāyāś ca iti kim ? agnimāt / vāyumān / ayavādibhyaḥ iti kim ? yavamān / dalmimān / ūrmimān / yava / dalmi / ūrmi / bhūmi / kṛmi / kruñcā / vaśā / drākṣā / eteṣāṃ mādupadhāyāś ca / iti prāpnoti / dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (*8,2.15) iti / harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2.10) iti / ikṣu, madhu, druma, maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti / ākṛtigaṇaś ca yavādiḥ / akṛtavattvo matub yavādiṣu draṣṭavyaḥ / yasya sati nimitte matupo vattvaṃ na dṛśyate sa yavādiṣu draṣṭavyaḥ iha nṛmataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt avarṇopadhasya matupo vattvaṃ na bhavati // jhayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.